We are offering NCERT Solutions for Class 7 Sanskrit Grammar Book रचना अपठित-अवबोधनम् Questions and Answers can be used by students as a reference during their preparation.
CBSE Class 7 Sanskrit रचना अपठित-अवबोधनम्
अधोलिखितम् अनुबन्धम् पठित्वा तदाधारितानाम् प्रश्नानाम् उत्तराणि लिखत
(क) युवकः अचिन्तयत्-अयं घटः सक्तुभिः पूर्णः अस्ति। अनेन दुभिर्वे शतं रूप्यकाणि भविष्यन्ति। तैः अहम् अजाद्वयं क्रेष्यामि। शनैः शनैः अजानां समूहः भविष्यति। तेन अहम् क्रमशः गाः, महिषीः, वडवाः च क्रेष्यामि। तेन बहुसुवर्णं प्राप्स्यामि।
प्रश्ना :
I. एकपदेन उत्तरत
(i) कः अचिन्तयत् ?
(ii) घटः कैः पूर्णः अस्ति ?
उत्तर:
(i) युवकः
(ii) सक्तुभिः
II. पूर्णवाक्येन उत्तरत
(i) शनैः शनैः कः भविष्यति ?
(ii) युवकः रूप्यकैः किं क्रेष्यति ?
उत्तर:
(i) शनैः शनैः अजानां समूहः भविष्यति।
(ii) युवक: रूप्यकैः अजाद्वयं क्रेष्यति।
III. निर्देशानुसारम् उत्तरत
(i) ‘भविष्यन्ति’ इति पदे कः लकारः? .
(क) लुट
(ख) लट्
(ग) लोट
(घ) लङ्
उत्तर:
(क) लृट्
(ii) ‘सक्तुभिः’ इति पदे का विभक्तिः ?
(क) चतुर्थी
(ख) तृतीया
(ग) प्रथमा
(घ) षष्ठी
उत्तर:
(ख) तृतीया
IV. अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
उत्तर:
‘लोभी युवकः’
(ख) एकदा अकस्मात् चन्द्रशेखरः आंग्लशासकैः आक्रान्तः। सः निर्भयः आसीत्। सः एकाकी बहून् सैनिकान् हतवान्। अन्ते एका गोलिका अवशिष्टा। सः तया स्वयमेव आत्मानं वीरगतिं प्रापयत्।
प्रश्नाः
I. एकपदेन उत्तरत
(i) चन्द्रशेखरः कैः आक्रान्तः ?
(ii) सः कति सैनिकान् हतवान् ?
उत्तर:
(i) आंग्लशासकैः
(ii) बहून्
II. पूर्णवाक्येन उत्तरत
(i) चन्द्रशेखरः कथं वीरगतिं प्रापयत् ?
(ii) चन्द्रशेखरः कीदृशः आसीत् ?
उत्तर:
(i) अन्ते एका गोलिका अवशिष्टा, तया सः आत्मानं वीरगति प्रापयत्।
(ii) चन्द्रशेखरः निर्भयः आसीत्।।
III. निर्देशानुसारम् उत्तरत
(i) ‘आसीत्’ इति पदे कः लकारः ?
(क) लङ
(ख) लट्
(ग) लोट
(घ) लृट्
उत्तर:
(क) लङ
(ii) ‘सैनिकान्’ इति पदे का विभक्तिः ?
(क) प्रथमा
(ख) चतुर्थी
(ग) द्वितीया
(घ) षष्ठी
उत्तर:
(ग) द्वितीया।
IV. अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
उत्तर:
‘वीरः चन्द्रशेखरः।
(ग) पुरा बोधिसत्त्वः वणिक्पुत्रः बभूव। सः नदीतटम् अगच्छत्। सः एकं धीवरम् अपश्यत्। धीवरस्य समीपे एक: मृत्तिकायाः घटः आसीत्। धीवरः जालेन मत्स्यान् निगृह्य घटे निक्षिपति स्म। तैः सः स्वकुटुम्बस्य पालनं करोति स्म।
प्रश्ना :
I. एकपदेन उत्तरत
(i) बोधिसत्त्वः कुत्र अगच्छत् ?
(ii) बोधिसत्त्वः किम् अपश्यत् ?
उत्तर:
(i) नदीतटम्
(ii) धीवरम्
II. पूर्णवाक्येन उत्तरत
(क) धीवरः कैः कुटुम्बपालनम् अकरोत् ?
(ख) धीवरः घटे कान् निक्षिपति स्म ?
उत्तर:
(क) धीवरः मत्स्यान् निगृह्य तैः स्वकुटुम्बस्य पालनं अकरोत्।
(ख) धीवरः घटे मत्स्यान् निक्षिपति स्म।
III. निर्देशानुसारम् उत्तरत
(i) ‘अपश्यत्’ इति पदे कः धातुः ?
(क) दर्श
(ख) पश्य्
(ग) दृश्
(घ) द्रश्
उत्तर:
(ग) दृश्
(ii) ‘मृत्तिकायाः’ इति पदे का विभक्तिः ?
(क) षष्ठी
(ख) सप्तमी
(ग) चतुर्थी
(घ) प्रथमा
उत्तर:
(क) षष्ठी
IV. अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
उत्तर:
‘बोधिसत्त्वः।
(घ) चन्द्रः सूर्यः इव दृश्यते। परम् चन्द्रः सूर्यवत् विशालः न अस्ति। अयं तु पृथिव्याः अपि लघुः अस्ति। चन्द्रमाः एव धरायाः सर्वेषु नक्षत्रेषु समीपवर्ती अस्ति। अयं पृथिवीं प्रति अष्टाविंशतितमे दिवसे परिक्रमा पूरयति।
प्रश्ना :
I. एकपदेन उत्तरत
(i) चन्द्रः कः इव दृश्यते ?
(ii) चन्द्रः किंवत् विशालः न अस्ति ?
उत्तर:
(i) सूर्यः
(ii) सूर्यवत्
II. पूर्णवाक्येन उत्तरत
(क) चन्द्रः पृथिव्याः परिक्रमा कतमे दिव से पूरयति ?
(ख) चन्द्रः कस्याः समीपवर्ती अस्ति ?
उत्तर:
(क) चन्द्रः पृथिव्याः परिक्रमा अष्टाविंशतितमे दिवसे पूरयति।
(ख) चन्द्रः धरायाः समीपवर्ती अस्ति।
III. निर्देशानुसारम् उत्तरत
(i) ‘लघुः’ इति पदं कस्य विशेषणम् अस्ति?
(क) चन्द्रस्य
(ख) सूर्यस्य
(ग) पृथिव्याः
(घ) नक्षत्रस्य
उत्तर:
(क) चन्द्रस्य
(ii) ‘दिवसे’ इति पदे का विभक्तिः ?
(क) पञ्चमी
(ख) प्रथमा
(ग) सप्तमी
(घ) तृतीया
उत्तर:
(ग) सप्तमी।
IV. अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
उत्तर:
‘चन्द्रः।
(ङ) स्वास्थ्यलाभाय प्रतिदिनं व्यायामः करणीयः। यः व्यायाम करोति, सः आपत्काले साहसं न त्यजति। रक्तसञ्चारः अपि सम्यग् भवति। इन्द्रियाणि स्वस्थानि भवन्ति। जठराग्निः दीप्तः भवति। उदरं न परिवर्धते। मस्तिष्कम् उर्वरं भवति।
प्रश्ना :
I. एकपदेन उत्तरत
(i) स्वास्थ्यलाभाय किं करणीयम् ?
(ii) रक्तसञ्चारः केन सम्यग् भवति ?
उत्तर:
(i) व्यायामः
(ii) व्यायामेन
II. पूर्णवाक्येन उत्तरत
(i) केन मस्तिष्कम् उर्वरं भवति ?
(ii) व्यायामेन किं न परिवर्धते ?
उत्तर:
(i) व्यायामेन मस्तिष्कम् उर्वरं भवति।
(ii) व्यायामेन उदरं न परिवर्धते।
III. यथानिर्देशम् उत्तरत
(i) ‘यः व्यायामं करोति’ इत्यत्र क्रियापदं लिखत।
(क) यः
(ख) व्यायामम्
(ग) करोति
(घ) शून्यम्
उत्तर:
(ग) करोति
(ii) ‘लाभः’ इत्यस्य विलोमपदं लिखत।
(क) हानिः
(ख) व्ययः
(ग) हर्षः
(घ) मृत्युः
उत्तर:
(क) हानिः
IV. अस्य गद्यांशस्य शीर्षकं लिखत।
उत्तर:
‘व्यायामः’।
अभ्यास के लिए
(च) सत्यस्य पालनार्थमेव महाराजो दशरथः प्रियं पुत्रं रामं वनं प्रेषयत्। राजा हरिश्चन्द्रः सत्यपालनार्थमेव सर्वाणि दुःखानि असहत। युधिष्ठिरः सत्यभाषणस्य प्रभावादेव विजयम् अलभत। महात्मा गान्धिमहोदयः सत्यस्यैव सदा शिक्षाम् अयच्छत्। भारतस्य राजचिह्नऽपि ‘सत्यमेव जयते’ इत्यादरेण उल्लिख्यते। उच्यते च-‘सर्वं सत्ये प्रतिष्ठितम्।’ प्रश्नाः
I. एकपदेन उत्तरत
(i) सर्वं कस्मिन् प्रतिष्ठितम्?
(ii) किं सदा भाषणीयम् ?
II. पूर्णवाक्येन उत्तरत
(i) सर्वैः किं करणीयम्?
(ii) ‘सत्यमेव जयते’ इति कुत्र लिखितम् ?
III. निर्देशानुसारम् उत्तरत
(i) ‘दशरथः’ इत्यस्य विशेषणपदं लिखत।
(क) सत्यम्
(ख) महाराजः
(ग) विजयम्
(घ) दु:खानि।
(ii) ‘दुःखानि’ इति पदे का विभक्तिः ?
(क) द्वितीया
(ख) तृतीया
(ग) चतुर्थी
(घ) षष्ठी
IV. अस्य गद्यांशस्य शीर्षकं लिखत।
(छ) अद्यत्वे अस्माकं समाजे संघटनस्य अभावः वर्तते। संघटनं विना राष्ट्र कदापि उन्नतिं न करोति। अस्माकं देशे धनस्य अभावो नास्ति। तथापि वयं दरिद्राः स्मः। इयं विडम्बना अस्ति। जनसंख्या प्रचुरा अस्ति, परं सर्वे मिलित्वा कार्यं न कुर्वन्ति, तस्मादेव अस्माकं दयनीया स्थितिः वर्तते।
प्रश्नाः
I. एकपदेन उत्तरत
(i) समाजे कस्य अभावः वर्तते ?
(ii) समाजे कस्य अभावः न वर्त्तते ?
II. पूर्णवाक्येन उत्तरत
(2) कस्मात् अस्माकं स्थितिः दयनीया वर्तते?
(ii) दयनीया का अस्ति ?
III. निर्देशानुसारम् उत्तरत
(i) ‘दयनीया’ इत्यस्य पुंल्लिङ्ग रूपं लिखत।
(क) दया
(ख) कृपा
(ग) दयनीयः
(घ) दयनः
(ii) ‘अभावः’ इत्यस्य विलोमपदं लिखत।।
(क) भावः
(ख) भावना
(ग) अभा
(घ) अभावशून्यम्
IV. अस्य गद्यांशस्य शीर्षकं लिखत।
(ज) मोक्षः चतुर्थः पुरुषार्थः। सामान्यतया मनुष्यः धर्म-अर्थ-कामान् त्रीन् पुरुषार्थान् सम्यग् रूपेण अनुभूय मोक्षस्य अधिकारी भवति। मोक्षो नाम त्रिविधदुःखेभ्यः सर्वथा मुक्तिः।’निर्वाणम्’ इति मोक्षस्य अपरपर्यायः। यदा मानवस्य सकला: कामनाः शान्ताः भवन्ति, यदा सः मानापमानयोः समानः तिष्ठति, यदा सः राग द्वेषं चातिक्रामति, तदा सः मोक्षं प्राप्नोति।
प्रश्ना :
I. एकपदेन उत्तरत
(i) चतुर्थः पुरुषार्थः कः ?
(ii) त्रीन् पुरुषार्थान् अनुभूय मनुष्यः कस्य अधिकारी भवति ?
II. पूर्णवाक्येन उत्तरत
(i) मोक्षो नाम किम् अस्ति ?
(ii) यदा कामनाः शान्ताः भवन्ति, तदा मनुष्यः किं प्राप्नोति ?
III. यथानिर्देशम् उत्तरत
(i) ‘मोक्षस्य अधिकारी भवति’ इत्यत्र क्रियापदं लिखत।
(क) मोक्षस्य
(ख) भवति
(ग) अधिकारी
(घ) शून्यम्
(ii) ‘अनुभूय’ इत्यत्र कः प्रत्ययः?
(क) य
(ख) भूय
(ग) ल्यप्
(घ) आय
IV. अस्य गद्यांशस्य शीर्षकं लिखत।
(झ) आदिकाव्यं रामायणं मम प्रियं पुस्तकम् अस्ति। भगवतो मर्यादापुरुषोत्तमस्य श्रीरामचन्द्रस्य पावनं चरितं रामायणे प्राप्यते। अस्य लेखकः महर्षिः वाल्मीकिः आसीत्। तस्य रचना ‘आदिकाव्यम्’ इति वेदविदुषां मतम्। अतएव ‘वाल्मीकिः’ आसीद् आदिकविः। रामायणम् अनुष्टुप् छन्दसि लिखितम्। अस्मिन् श्लोकसंख्या चतुर्विंशतिसहस्रं वर्तते। अस्मिन् सप्त काण्डानि विद्यन्ते।
प्रश्ना :
I. एकपदेन उत्तरत
(i) रामायणे कस्य चरितं प्राप्यते ?
(ii) आदिकाव्यं किं कथ्यते ?
II. पूर्णवाक्येन उत्तरत
(i) रामायणे कति काण्डानि सन्ति ?
(ii) रामायणं कस्मिन् छन्दसि लिखितम् ?
III. निर्देशानुसारम् उत्तरत
(i) ‘पावनं चरितम्’ इत्यस्य विशेषणपदं लिखत।
(क) चरितम्
(ख) काण्डम्
(ग) पावनम्
(घ) सुन्दरम्।
(ii) ‘आसीत्’ इत्यस्य बहुवचनान्त रूपं लिखत।
(क) आसन्
(ख) आस्ताम्
(ग) आस्तम्
(घ) अस्ति
IV. अस्य गद्यांशस्य शीर्षकं लिखत।
(ज) सर्वेषु धनेषु विद्याधनम् एव उत्तमं धनं मन्यते। विद्यया एव जनाः जानन्ति यत् किं कर्त्तव्यम् अस्ति किं च अकर्त्तव्यम्। विद्यया ज्ञायते यत् अयं कुमार्गः। विद्यया मनुष्यः संसारे सम्मान प्राप्नोति। विद्वान् सर्वत्र पूज्यते। अतः अस्माभिः विद्या अर्जनीया।
प्रश्ना :
I. एकपदेन उत्तरत
(i) उत्तमं धनं किं मन्यते ?
(ii) मनुष्यः संसारे सम्मानं कथं प्राप्नोति ?
II. पूर्णवाक्येन उत्तरत
(i) कथं ज्ञायते यत् अयं कुमार्गः?
(ii) सर्वत्र कः पूज्यते ?
III. निर्देशानुसारम् उत्तरत
(i) ‘उत्तमं धनम्’ इत्यत्र विशेषणपदं लिखत।
(क) धनम्
(ख) विद्या
(ग) उत्तमम्
(घ) यशः
(ii) ‘विद्याधनम्’ इत्यस्य विग्रहं लिखत।
(क) विद्यायाः धनम्
(ख) विद्यायै धनम्
(ग) विद्या एव धनम्
(घ) विद्यार्थं धनम्
IV. अस्य गद्यांशस्य शीर्षकं लिखत।