MCQ Questions for Class 9 Sanskrit Chapter 7 प्रत्यभिज्ञानम् with Answers

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Chapter 7 प्रत्यभिज्ञानम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the प्रत्यभिज्ञानम् Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these प्रत्यभिज्ञानम् objective questions.

प्रत्यभिज्ञानम् Class 9 MCQs Questions with Answers

Practicing the Class 9 Sanskrit Chapter 7 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of प्रत्यभिज्ञानम् Class 9 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 9 Sanskrit प्रत्यभिज्ञानम् MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितान् नाट्यांशान् श्लोकान् च पठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) भटः – जयतु महाराजः।
राजा – अपूर्व इव ते हर्षो ब्रूहि केनासि विस्मित:?
भटः – अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः।।
राजा – कथमिदानी गृहीतः?
भटः – रथमासाद्य निश्शर्ड्स बाहुभ्यामवतारितः।
राजा – केन?
भटः – यः किल एष नरेन्द्रेण विनियुक्तो महानसे। (अभिमन्युमुद्दिश्य) इत इतः कुमारः।
अभिमन्युः – भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।

Question 1.
‘अपूर्व इव ते हर्षः।’ अत्र ‘ते’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) भटाय
(ख) नृपाय
(ग) अभिमन्यवे
(घ) अर्जुनाय

Answer

Answer: (क) भटाय


Question 2.
‘प्राप्य’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) इतः
(ख) गृहीतः
(ग) आसाद्य।
(घ) गतः

Answer

Answer: (ग) आसाद्य।


Question 3.
‘कथमिदानीं गृहीतः’ अत्र क्रियापदं किम्?
(क) कथम्
(ख) इदानीं
(ग) गृहीतः
(घ) मिदानीं

Answer

Answer: (ग) गृहीतः


Question 4.
‘मुक्तं’ इति पदस्य विपरीतपदं किम्?
(क) ग्रहणं
(ख) विस्मितः
(ग) आसाद्य
(घ) पीडितः

Answer

Answer: (क) ग्रहणं


Question 5.
भटः कस्य ग्रहणम् अकरोत्?

Answer

Answer: अभिमन्योः


Question 6.
रथम् आसाद्य अभिमन्युः काभ्याम् अवतारितः?

Answer

Answer: बाहुभ्याम्


Question 7.
गृहीतः अभिमन्युः किम् अचिन्तयत्?

Answer

Answer: गृहीतः अभिमन्युः अचिन्तयत्-“कः खलु एषः। येन भुजैकनियन्त्रितः बलाधिकेनापि न पीडितः अस्मि।”


(ख) अभिमन्युः – अये! अयमपरः कः विभात्युमावेषमिवाश्रितो हरः।।
बृहन्नला – आर्य, अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्यः।
वल्लभः – (अपवार्य) बाढम् (प्रकाशम्) अभिमन्यो!
अभिमन्युः – अभिमन्युर्नाम?
वल्लभः – रुष्यत्येष मया, त्वमेवैनमभिभाषय।
बृहन्नला – अभिमन्यो!
अभिमन्युः – कथं कथम्। अभिमन्यु माहम्। भोः। किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवंश गतः। अतएव तिरस्क्रियते।
बृहन्नला – अभिमन्यो! सुखमास्ते ते जननी?

Question 1.
‘शोभते’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) विभाति
(ख) आश्रितः
(ग) रुष्यति
(घ) आस्ते

Answer

Answer: (क) विभाति


Question 2.
‘रुष्यति एषः मया’ अत्र ‘मया’ सर्वनामपदम् कस्मै प्रयुक्तम्?
(क) भीमसेनः
(ख) भीमसेनाय
(ग) अभिमन्योः
(घ) अभिमन्येव

Answer

Answer: (ख) भीमसेनाय


Question 3.
‘सुखमास्ते ते जननी’ अत्र क्रियापदं किम्?।
(क) सुखम्
(ख) आस्ते
(ग) ते
(घ) जननी

Answer

Answer: (ख) आस्ते


Question 4.
‘अनुचितम्’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) बाढ़म्
(ख) प्रकाशम्
(ग) अपवार्य
(घ) अपरः

Answer

Answer: (क) बाढ़म्


Question 5.
केन अभिमन्युः रुष्यति?

Answer

Answer: भीमसेनेन


Question 6.
कुत्र नीचैः अपि नामभिः अभिभाष्यन्ते?

Answer

Answer: विराटनगरे


Question 7.
अभिमन्युः बृहन्नलां दृष्ट्वा किम् कथयति?

Answer

Answer: अभिमन्युः बृहन्नला दृष्ट्वा कथयति, “अयम् अपर कः उमावेषम् इव आश्रितः हरः विभाति।”


(ग) अभिमन्युः – कथं कथम्? जननी नाम? किं भवान् मे पिता अथवा पितृव्यः? कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छति?
बृहन्नला – अभिमन्यो! अपि कुशली देवकीपुत्रः केशवः?
अभिमन्युः – कथं कथम्? तत्रभवन्तमपि नाम्ना। अथ किम् अथ किम्?
(बृहन्नलावल्लभौ परस्परमवलोकयतः)
अभिमन्युः – कथमिदानीं सावज्ञमिव मां हस्यते?
बृहन्नला – न खलु किञ्चित्।

Question 1.
‘भवान् मे पिता’ अत्र ‘भवान्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) अर्जुनः
(ख) बृहन्नलायै
(ग) अभिमन्युः
(घ) अर्जुनस्य

Answer

Answer: (ख) बृहन्नलायै


Question 2.
‘माता’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) जननी
(ख) पितृव्यः
(ग) देवकी
(घ) स्त्री

Answer

Answer: (क) जननी


Question 3.
‘सादरम्’ इति पदस्य विलोमपदं किम्?
(क) सावज्ञम्
(ख) वज्ञम्
(ग) सावज्ञमिव
(घ) कुशली

Answer

Answer: (क) सावज्ञम्


Question 4.
‘परस्परमवलोकयतः’ अत्र क्रियापदं किम्?
(क) यतः
(ख) परस्परम्
(ग) अवलोकयतः
(घ) लोकयतः

Answer

Answer: (ग) अवलोकयतः


Question 5.
सावज्ञमिव कः हसति?

Answer

Answer: बृहन्नला


Question 6.
कौ परस्परम् अवलोकयतः?

Answer

Answer: बृहन्नलवल्लभौ


Question 7.
बृहन्नला अभिमन्यु किम् पृच्छति?

Answer

Answer: बृहन्नला सुभद्रायाः केशवस्य च कुशलक्षेमं पृच्छति।


(घ) अभिमन्युः – अलं स्वच्छन्दप्रलापेन! अस्माकं कुले आत्मस्तवं कर्तुमनुचितम्। रणभूमौ हतेषु शरान् पश्य, मदृते अन्यत् नाम न भविष्यति।
बृहन्नला – एवं वाक्यशौण्डीर्यम्। किमर्थं तेन पदातिना गृहीतः?
अभिमन्युः – अशस्त्रं मामभिगतः। पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति। अतः अशस्त्रोऽयं मां वञ्चयित्वा गृहीतवान्।
राजा – त्वर्यतां त्वर्यतामभिमन्युः।

Question 1.
‘अशस्त्रः अयं’ अत्र ‘अयम्’ सर्वनामपदम् कस्मै प्रयुक्तम्?
(क) भीमसेनाय
(ख) अर्जुनाय
(ग) उत्तराय
(घ) अभिमन्यवे

Answer

Answer: (क) भीमसेनाय


Question 2.
‘गृहीतवान्’ इति पदस्य कर्तृपदं किम्?
(क) अतः
(ख) अयम्
(ग) मां
(घ) अशस्त्रः

Answer

Answer: (ख) अयम्


Question 3.
‘अहंकारम्’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) आत्मस्तवं
(ख) स्वच्छन्दं
(ग) अनुचितम्
(घ) अन्यत्

Answer

Answer: (क) आत्मस्तवं


Question 4.
‘अर्जुनं’ इति पदस्य विशेषणपदं किम्?
(क) अशस्त्रं
(ख) पितरम्
(ग) स्मरन्
(घ) माम्

Answer

Answer: (ख) पितरम्


Question 5.
केषाम् कुले आत्मस्तवं कर्तुम् अनुचितम् अस्ति?

Answer

Answer: पाण्डवानाम्।


Question 6.
अभिमन्युः कम् स्मरति?

Answer

Answer: स्वपितरम्/अर्जुनम्


Question 7.
अभिमन्युः किमर्थम् वञ्चितः इव अनुभवति?

Answer

Answer: अशस्त्रेषु यौद्धाः न प्रहरन्ति परम् अशस्त्रभीमेन अभिमन्युः गृहीतः। अतः अभिमन्युः स्वयमेव वञ्चितः इव अनुभवति।


(ङ) राजा – एह्येहि पुत्र! कथं न मामभिवादयसि? (आत्मगतम्) अहो! उत्सिक्तः खल्वयं क्षत्रियकुमारः। अहमस्य दर्पप्रशमनं करोमि। (प्रकाशम्) अथ केनायं गृहीतः?
भीमसेनः – महाराज! मया।
अभिमन्युः – अशस्त्रेणेत्यभिधीयताम्।
भीमसेनः – ‘ शान्तं पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम तु भुजौ एव प्रहरणम्।
अभिमन्युः – मा तावद् भोः! किं भवान् मध्यमः तातः यः तस्य सदृशं वचः वदति।
भगवान् – पुत्र! कोऽयं मध्यमो नाम?

Question 1.
‘मम तु भुजौ …….. अत्र मम सर्वनामपदं कस्मै प्रयुक्तम्?
(क) अर्जुनाय
(ख) नृपाय
(ग) भीमसेनाय
(घ) उत्तराय

Answer

Answer: (ग) भीमसेनाय


Question 2.
‘अहम् अस्य दर्पशमनं करोमि।’ अत्र कर्तृपदं किम्?
(क) अहम्
(ख) अस्य
(ग) करोमि
(घ) राजा

Answer

Answer: (क) अहम्


Question 3.
‘पुण्यं’ इति पदस्य विलोमपदं किम्?
(क) शान्तं
(ख) पापं
(ग) प्रहरणम्
(घ) शमनं

Answer

Answer: (ख) पापं


Question 4.
‘आगच्छ’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) गृहीतः
(ख) एहि
(ग) उत्सिक्तः
(घ) प्रकाशम्

Answer

Answer: (ख) एहि


Question 5.
क्षत्रियकुमारः कीदृशः अस्ति?

Answer

Answer: उत्सिक्तः


Question 6.
धनुः कैः एव गृह्यते?

Answer

Answer: दुर्बलैः


Question 7.
मध्यमः तातः कः अस्ति?

Answer

Answer: मध्यमः तातः भीमसेनः अस्ति।


अधोलिखितवाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) सर्वे अभिमन्युम् आलिङ्गन्ति।
(ii) भवान् शङ्काम् व्यपनयतु।
(iii) धनुः तु दुर्बलैः एव गृह्यते।
(iv) अयं. क्षत्रियकुमारः उत्सिक्तः अस्ति।
(v) अशस्त्रः भीमः अभिमन्युम् गृहीतवान्।
(vi) अस्माकं कुले आत्मस्तवं कर्तुम् अनुचितम् अस्ति।

Answer

Answer:
(i) के अभिमन्युम् आलिङ्गन्ति?
(ii) कः शङ्काम् व्यपनयतु?
(iii) धनुः तु कैः एव गृह्यते?
(iv) अयम् क्षत्रियकुमारः कीदृशः अस्ति?
(v) कीदृशः भीमः अभिमन्युम् गृहीतवान्?
(vi) केषाम् कुले आत्मस्तवं कर्तुम् अनुचितम् अस्ति?


अधोलिखितश्लोकानाम् अन्वयेषु समुचितपदेन रिक्तस्थानानि पूरयत

(क) योक्त्रयित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना।
असह्यं कर्म तत् कृत्वा नीतः कृष्णोऽतदर्हताम्॥

अन्वयः- कण्ठश्लिष्टेन (i) ……………….. जरासन्धं (ii) ………………. तत् असह्यं (iii) ……………….. कृत्वा (भीमेन) कृष्णः (iv) …………. नीतः।

Answer

Answer: कण्ठश्लिष्टेन (i) बाहुना जरासन्धं (ii) योक्त्रयित्वा तत् असह्यं (iii) कर्म कृत्वा (भीमेन) कृष्णः (iv) अतदर्हताम् नीतः।


(ख) न ते क्षेपेण रुष्यामि, रुष्यता भवता रमे।
किमुक्त्वा नापराद्धोऽहं, कथं तिष्ठति यात्विति।।

अन्वयः- रुष्यता (i) ……………….. रमे। ते (ii) ………….. न रुष्यामि, किम्। (iii) …………… अहम् नापराद्धः कथं (iv) ……………. यातु इति।

Answer

Answer: रुष्यता (i) भवता रमे। ते (ii) क्षेपेण न रुष्यामि, किम्। (iii) उक्त्वा अहम् नापराद्धः कथं (iv) तिष्ठति, यातु इति।


(ग) पादयोः समुदाचारः क्रियतां निग्रहोचितः।
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।।

अन्वयः- पादयोः (i) ……………. समुदाचारः (ii) …………… । बाहुभ्याम् (iii) …………….. (माम्) बाहुभ्याम् (iv) ……………….. नेष्यति।

Answer

Answer: पादयोः (i) निग्रहोचितः समुदाचारः (ii) क्रियतां । बाहुभ्याम् (iii) आहृतम् (माम्) बाहुभ्याम् (iv) एव नेष्यति।


(घ) न रुष्यन्ति मया क्षिप्ता हसन्तश्च क्षिपन्ति माम्।
दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।।

अन्वयः- क्षिप्ता (i) ……………….. न रुष्यन्ति (ii) ……………….. च माम् क्षिपन्ति। दिष्ट्या (iii) ……….. स्वन्तं येन (iv) …………….. दर्शिताः।

Answer

Answer: क्षिप्ता (i) मया न रुष्यन्ति (ii) हसन्तः च माम् क्षिपन्ति। दिष्ट्या (iii) गोग्रहणं स्वन्तं येन (iv) पितरः दर्शिताः।


अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

(क) पार्थं पितरमुद्दिश्य मातुलं च जनार्दनम्।
तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥

भावार्थ:- गृहीतं क्षुब्धं च अभिमन्यु वीक्ष्य अर्जुनः व्यङ्ग्यात्मकैः (i) ………… तम् कथयति यत् तव पिता (ii) ……………… मातुलः च (iii) ………….। शस्त्रविद्यायां निपुणतरुणाय (iv) ……………. पराजयः नोचितः अस्ति।
मञ्जूषा- युद्धे, श्रीकृष्णः, अर्जुनः, वचनैः

Answer

Answer: गृहीतं क्षुब्धं च अभिमन्यु वीक्ष्य अर्जुनः व्यङ्ग्यात्मकैः वचनैः तम् कथयति यत् तव पिता अर्जुनः मातुलः च श्रीकृष्णः। शस्त्रविद्यायां निपुणतरुणाय युद्धे पराजयः नोचितः अस्ति।


(ख) ‘मम तु भुजौ एव प्रहरणम्।’

भावार्थ:- शस्त्रहीनेन भीमेन (i) ………….. निगृहीतः। क्षुब्धं अभिमन्युं दृष्ट्वा (ii) ………… स्पष्टीकरोति यत् (iii) ……………. तु दुबलैः गृह्यते। भीमस्य (iv) …………….. एवं प्रहरणम्। किं प्रयोजनम् अन्यैः शस्त्रैः।
मञ्जूषा- भुजौ, अस्त्रं, अभिमन्युः, भीमः

Answer

Answer: शस्त्रहीनेनः भीमेन अभिमन्युः निगृहीतः। क्षुब्धं अभिमन्युं दृष्ट्वा भीमः स्पष्टीकरोति यत् अस्त्रं तु दुबलैः गृह्यते। भीमस्य भुजौ एव प्रहरणम्। किं प्रयोजनम् अन्यैः शस्त्रैः।


(ग) ‘नीतः कृष्णोऽतदर्हताम्।’

भावार्थ:-श्रीकृष्णः जरासन्धं (i) …………….. ऐच्छत् परम् (ii) …………….. जरासन्धस्य (iii) …………… कृत्वा श्रीकृष्णं (iv) ……………… न दत्तः।
मञ्जूषा- अवसरः, हन्तुम्, भीमेन, वधं

Answer

Answer: श्रीकृष्णः जरासन्धं हन्तुम् ऐच्छत् परम् भीमेन जरासन्धस्य वधं कृत्वा श्रीकृष्णं अवसरः न दत्तः।


(घ) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।

भावार्थ:-अभिमन्युः (i) …………….. ग्रहणं (ii) ……………… मन्यते यतः चिरकालात् अनन्तरं (iii) …………… अभिमन्युः (iv) …………….. दृष्ट्वान्।
‘मञ्जूषा- स्वपितॄन्, धेनूनाम्, सुखान्तं, भाग्येन

Answer

Answer: अभिमन्युः धेनूनाम् ग्रहणं सुखान्तं मन्यते यतः चिरकालात् अनन्तरं भाग्येन अभिमन्युः स्वपितृन् दृष्ट्वान्।


घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
(ii) अयमपरः कः विभाति उमावेषमिवाश्रितो हरः।
(iii) अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः।
(iv) पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति।
(v) किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवशं गतः।
(vi) आयुष्मान् भव पुत्र। पूजिताः कृतकर्माणो योधपुरुषाः।
(vii) शान्तं पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम एव भुजौ एव प्रहरणम्।
(viii) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।

Answer

Answer:
(i) अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः।
(ii) को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
(iii) अयमपरः कः विभाति उमावेषमिवाश्रितो हरः।।
(iv) किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवशं गतः।
(v) पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति।
(vi) शान्तं पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम एव भुजौ एव प्रहरणम्।
(vii) आयुष्मान् भव पुत्र। पूजिताः कृतकर्माणो योधपुरुषाः।
(viii) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।


अधोलिखितवाक्येषु रेखांकितपदानाम् प्रसंगानुसारं शुद्धम् अर्थं लिखत।

Question 1.
दिष्ट्या गोग्रहणं स्वन्तं अभवत्। .
(क) भाग्येन
(ख) दृष्ट्वा
(ग) दृष्टिः
(घ) अपश्यत्

Answer

Answer: (क) भाग्येन


Question 2.
भवान् शंकाम् व्यपनयतु।
(क) व्यपहरत्
(ख) आनयतु
(ग) नयतु
(घ) दूरीकरोतु

Answer

Answer: (घ) दूरीकरोतु


Question 3.
मम भुजौ एव प्रहरणम्।
(क) प्रहारम्
(ख) प्रहाराम्
(ग) शस्त्रम्
(घ) शास्त्रम्

Answer

Answer: (ग) शस्त्रम्


Question 4.
निग्रहोचितः समुदाचारः क्रियताम्।
(क) सदाचारः
(ख) समान उपचारः
(ग) शिष्टाचारः
(घ) उपचाराः

Answer

Answer: (ग) शिष्टाचारः


Question 5.
ते क्षेपेण न रुष्यामि।
(क) निन्दावचनेन
(ख) क्षणेन
(ग) शपथेन
(घ) वचनेन

Answer

Answer: (क) निन्दावचनेन


Question 6.
एषः महाराजः। उपसर्पतु कुमारः।
(क) समीपं गच्छति
(ख) समीपं गच्छ
(ग) समीपं गच्छतु
(घ) समीपं आगत्य

Answer

Answer: (ग) समीपं गच्छतु


अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

पुण्यम्, आगच्छतु, दुर्बलैः, प्रकाशं, दुःखान्तं
पदानि – विलोमशब्दाः
(क) यातु – ……………
(ख) सबलैः – ……………..
(ग) आत्मगतं – …………….
(घ) स्वन्तम् – ………………
(ङ) पापं – ………………..

Answer

Answer:
पदानि – विलोमशब्दाः
(क) यातु – आगच्छतु
(ख) सबलैः – दुर्बलैः
(ग) आत्मगतं – प्रकाशम्
(घ) स्वन्तम् – दुःखान्तम्
(ङ) पापं – पुण्यम्


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Chapter 7 प्रत्यभिज्ञानम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit प्रत्यभिज्ञानम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!