MCQ Questions for Class 9 Sanskrit Chapter 8 लौहतुला with Answers

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Chapter 8 लौहतुला with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the लौहतुला Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these लौहतुला objective questions.

लौहतुला Class 9 MCQs Questions with Answers

Practicing the Class 9 Sanskrit Chapter 8 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of लौहतुला Class 9 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 9 Sanskrit लौहतुला MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितगद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः। स च विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्

यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥

तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः। ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरम् आगत्य तं श्रेष्ठिनम् अवदत्-“भोः श्रेष्ठिन्! दीयतां मे सा निक्षेपतुला।” सोऽवदत्-“भोः! नास्ति सा, त्वदीया । तुला मूषकैः भक्षिता” इति।

Question 1.
‘तां च कस्यचित् गृहे…’ अत्र ‘तां’ सर्वनामपदं कस्यै प्रयुक्तम्?
(क) वणिकपुत्राय
(ख) जीर्णधनाय
(ग) तुलायै
(घ) तुलायाः

Answer

Answer: (ग) तुलायै


Question 2.
‘स्वपराक्रमेण’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) उपार्जिता
(ख) अधिष्ठाने
(ग) स्ववीर्यतः
(घ) श्रेष्ठिनः

Answer

Answer: (ग) स्ववीर्यतः


Question 3.
‘आसीत् ‘ इति क्रियापदस्य कर्तृपदं किम्?
(क) जीर्णधनः
(ख) अधिष्ठाने
(ग) कस्मिंश्चित्
(घ) नाम

Answer

Answer: (क) जीर्णधनः


Question 4.
‘गत्वा’ इति पदस्य विलोमपदं किम्?
(क) गन्तुम्
(ख) आगत्य
(ग) प्रस्थितः
(घ) नास्ति

Answer

Answer: (ख) आगत्य


Question 5.
लौहतुला कैः भक्षिता?

Answer

Answer: मूषकैः


Question 6.
जीर्णधनः कस्य गृहे तुलाम् निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः?

Answer

Answer: श्रेष्ठिनः


Question 7.
तुला कीदृशी आसीत्?

Answer

Answer: तुला लौहघटिता पूर्वपुरुषोपार्जिता आसीत्।


(ख) जीर्णधनः अवदत्-“भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता। ईदृशः एव अयं संसारः। न किञ्चिदत्र शाश्वतमस्ति। परमहं नद्यां स्नानार्थं गमिष्यामि। तत् त्वम् आत्मीयं एनं शिशुं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति। स श्रेष्ठी स्वपुत्रम् अवदत्-“वत्स! पितृव्योऽयं तव, स्नानार्थं यास्यति, तद् अनेन साकं गच्छ” इति। अथासौ श्रेष्ठिपुत्रः धनदेवः स्नानोपकरणमादाय प्रहृष्टमनाः तेन अभ्यागतेन सह प्रस्थितः। तथानुष्ठिते स वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्वारं बृहत् शिलया आच्छाद्य सत्त्वरं गृहमागतः।

Question 1.
‘नास्ति दोषः ते’ अत्र ‘ते’ सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) श्रेष्ठी
(ख) श्रेष्ठिनः
(ग) जीर्णधनाय
(घ) जीर्णधनस्य

Answer

Answer: (ख) श्रेष्ठिनः


Question 2.
‘सह’ इति पदस्य पर्यायपदम् किम्?
(क) सार्धम्
(ख) शाश्वतम्
(ग) परम्
(घ) वत्स

Answer

Answer: (क) सार्धम्


Question 3.
‘गमिष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) परमहं .
(ख) नद्यां
(ग) अहम्
(घ) स्नानार्थम्

Answer

Answer: (ग) अहम्


Question 4.
‘अनावृत्य’ इति पदस्य विलोमपदं किम्?
(क) आच्छाद्य
(ख) सत्वरं
(ग) प्रक्षिप्य
(घ) प्रेषय

Answer

Answer: (क) आच्छाद्य


Question 5.
कः नद्यां स्नानार्थं गमिष्यति?

Answer

Answer: जीर्णधनः


Question 6.
वणिक्शिशुः किम् आदाय अभ्यागतेन सह प्रस्थितः?

Answer

Answer: स्नानोपकरणम्


Question 7.
जीर्णधनः किम् कृत्वा सत्वरं गृहम् आगतः?

Answer

Answer: जीर्णधनः नद्यां स्नात्वा तं शिशुं च गिरिगुहायां प्रक्षिप्य तद्द्वारम् बृहशिलया आच्छाद्य सत्वरं गृहम् आगतः।


(ग) सः श्रेष्ठी पृष्टवान्-“भोः! अभ्यागत! कथ्यतां कुत्र मे शिशुः यः त्वया सह नदीं गतः”? इति। स अवदत्-“तव पुत्रः नदीतटात् श्येनेन हृतः” इति। श्रेष्ठी अवदत् – “मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुं शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।” इति।

सोऽकथयत्-“भोः सत्यवादिन्! यथा श्येनो बालं न नयति, तथा मूषका अपि लौहघटितां तुला न भक्षयन्ति। तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्।” इति। एवं विवदमानौ तौ द्वावपि राजकुलं गतौ। तत्र श्रेष्ठी तारस्वरेण अवदत्-“भोः! वञ्चितोऽहम्! वञ्चितोऽहम्! अब्रह्मण्यम्! अनेन चौरेण मम शिशुः अपहृतः” इति। अथ धर्माधिकारिणः तम् अवदन्-“भोः! समर्म्यतां श्रेष्ठिसुतः”।

Question 1.
‘श्येनः बालं न नयति’ अत्र कर्तृपदं किम्?
(क) श्येनः
(ख) बालं
(ग) नयति
(घ) न

Answer

Answer: (क) श्येनः


Question 2.
‘कलहं कुर्वन्तौ’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) द्वावपि
(ख) तारस्वरेण
(ग) विवदमानौ
(घ) प्रोवाच

Answer

Answer: (ग) विवदमानौ


Question 3.
‘मे तुलाम्’ अत्र ‘मे’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जीर्णधनाय
(ख) जीर्णधनस्य
(ग) जीर्णधनः
(घ) वणिक्पुत्रः

Answer

Answer: (क) जीर्णधनाय


Question 4.
‘विवदमानौ’ इति पदस्य विशेष्यपदं किम्?
(क) द्वावपि
(ख) तौ
(ग) गतौ
(घ) राजकुलम्

Answer

Answer: (ख) तौ


Question 5.
वञ्चितोऽहम् अब्रह्मण्यम्! इति तारस्वरेण कः उवाच?

Answer

Answer: श्रेष्ठी


Question 6.
शिशुः केन सह नदीं गतः?

Answer

Answer: जीर्णधनेन


Question 7.
विवदमानौ तौ कुत्र गतौ?

Answer

Answer: विवदमानौ तौ राजकुलं गतौ।


(घ) सोऽवदत्-“किं करोमि? पश्यतो मे नदीतटात् श्येनेन शिशुः अपहृतः”। इति। तच्छ्रुत्वा ते अवदन्-भोः! भवता सत्यं नाभिहितम्-किं श्येनः शिशुं हर्तुं समर्थो भवति? सोऽअवदत्-भोः! भोः! श्रूयतां मद्वचः
तुलां लौहसहस्त्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः॥

Question 1.
‘किं श्येनः शिशु-हर्तुं समर्थः भवति’ अस्मिन् वाक्ये कर्तृपदम् किम्?
(क) श्येनः
(ख) शिशु
(ग) हर्तुं
(घ) भवति

Answer

Answer: (क) श्येनः


Question 2.
‘अभिहितम्’ इति पदस्य कः अर्थः?
(क) हितम्
(ख) अहितम्
(ग) कथितम्
(घ) विहितम्

Answer

Answer: (ग) कथितम्


Question 3.
‘शिशुः’ इति पदस्य विशेषणपदं किम्?
(क) अपहतः
(ख) अनेन
(ग) श्येनः
(घ) पश्यतः

Answer

Answer: (क) अपहतः


Question 4.
‘अनृतम्’ इति पदस्य विलोमपदं किम्?
(क) अभिहितं
(ख) प्रोचुः
(ग) संशयः
(घ) सत्यम्

Answer

Answer: (घ) सत्यम्


Question 5.
कस्य पश्यतः श्येनेन शिशुः अपहृतः?

Answer

Answer: जीर्णधनस्य


Question 6.
तुलां के खादन्ति?

Answer

Answer: मूषकाः


Question 7.
केन सत्यम् न अभिहितम्?

Answer

Answer: जीर्णधनेन सत्यं न अभिहितम्।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
(ख) मूषकैः तुला भक्षिता।
(ग) विवदमानौ तौ राजकुलं गतौ।
(घ) नदीतटात् बालकः श्येनेन हृतः।
(ङ) वणिक्पुत्रः गुहाद्वारं बृहद्-शिलया आच्छाद्य गृहम् आगतः।
(च) जीर्णधनः नद्यां स्नानार्थं अगच्छत्।
(छ) श्रेष्ठी सभ्यानाम् अग्रे सर्वं वृत्तान्तं निवेदयामास।

Answer

Answer:
(क) जीर्णधनः किमर्थं देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?
(ख) कैः तुला भक्षिता?
(ग) विवदमानौ तौ कुत्र गतौ?
(घ) कुतः बालकः श्येनेन हृतः?
(ङ) वणिक्पुत्रः गुहाद्वारं कया आच्छाद्य गृहम् आगतः?
(च) जीर्णधनः कुत्र स्नानार्थं अगच्छत्?
(छ) श्रेष्ठी केषाम् अग्रे सर्वं वृत्तान्तं निवेदयामास?


अधोलिखितश्लोकयोः अन्वयपूर्तिं कुरुत

यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः।।

अन्वयः- यत्र देशे (i)…………………. स्थाने स्ववीर्यतः (ii)…………………. भुक्ताः (iii) …………… विभवहीनः य (iv)……………. सः पुरुषाधमः।

Answer

Answer:
यत्र देशे (i) अथवा स्थाने स्ववीर्यतः (ii) भोगाः भुक्ताः (iii) तस्मिन् विभवहीनः य (iv) वसेत् सः पुरुषाधमः।


तुला लौहसहस्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्ये नो बालकम्, नात्र संशयः।।

अन्वयः- राजन्! यत्र (i) …………….. तुलां (ii) ……………… खादन्ति। तत्र (iii) ……………. बालकः हरेत् अत्र (iv) ………………. न।

Answer

Answer:
राजन्! यत्र (i) लौहसहस्रस्य तुलां (ii) मूषकाः खादन्ति। तत्र (ii) श्येनः बालकः हरेत् अत्र (iv) संशयः न।


अधोलिखितयोः श्लोकयोः भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

(क) तुला लौहसहस्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः॥

भावार्थ:-जीर्णधनः धर्माधिकारिणम कथयति यत् यदि (i) ……………….. लौहनिर्मितां (ii) ……………… खादन्ति तत्र निःसन्देहं (iii) …………….. अपि बालकं (iv) …………………. शक्नोति।
मञ्जूषा- श्येनः, हर्तुम्, मूषकाः, तुलाम्

Answer

Answer:
जीर्णधनः धर्माधिकारिणम् कथयति यत् यदि मूषकाः लौहनिर्मितां तुलाम् खादन्ति तत्र निःसन्देहं श्येनः अपि बालकं हर्तुम् शक्नोति।


(ख) यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥

भावार्थ:-धनाभावात् जीर्णधनः अचिन्तयत् यत् (i) ……………. देशे नराः (ii) …………….. भोगाः प्राप्नुवन्ति। तत्र यः (iii) …………….. वसेत् सः तु निश्चयमेव (iv) ……………… भवति।
मञ्जूषा- धनहीनः, यस्मिन्, नराधमः, स्वपराक्रमेण

Answer

Answer:
धनाभावात् जीर्णधनः अचिन्तयत् यत् यस्मिन् देशे नराः स्वपराक्रमेण भोगाः प्राप्नुवन्ति। तत्र यः धनहीनः वसेत् सः तु निश्चयमेव नराधमः भवति।


घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) सः वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्द्वारं बृहत् शिलया आच्छादय् सत्वरं गृहमागतः।
(ii) “तत् त्वम आत्मीयं एनं शिशुं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति।
(iii) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः।
(iv) तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः।
(v) तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्।
(vi) जीर्णधनः अवदत्-” भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता।”
(vii) तौ द्वावपि संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।
(viii) “मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुम् शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।”

Answer

Answer:
(i) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः।
(ii) तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्।
(iii) तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः।
(iv) जीर्णधनः अवदत्-” भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता।”
(v) “तत् त्वम् आत्मीयं एनं शिशुं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति।
(vi) सः वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्द्वारं बृहत् शिला आच्छाद्य सत्वरं गृहमागतः।
(vii) “मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुम् शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।”
(viii) तौ द्वावपि संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।


रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थ चित्वा लिखत

Question 1.
यत्र देशे स्ववीर्यतः भोगा भुक्ताः।
(क) स्वधनेन
(ख) स्वकर्मणा
(ग) स्वपुत्रेण
(घ) स्वपराक्रमेण

Answer

Answer: (घ) स्वपराक्रमेण


Question 2.
अब्रह्मण्यम्! मम शिशुः चौरेण अपहृतः।
(क) अनुचितम्
(ख) ब्राह्मणम्
(ग) ब्रह्मां
(घ) वहयति

Answer

Answer: (क) अनुचितम्


Question 3.
श्रूयतां मद् वचः
(क) मत्
(ख) मनः
(ग) मम
(घ) मानः

Answer

Answer: (ग) मम


Question 4.
त्वदीय तुला मूषकैः भक्षिता।
(क) खादिता
(ख) भक्ष्यम्
(ग) खादितम्
(घ) भोजनम्

Answer

Answer: (क) खादिता


‘क’ स्तम्भे लिखितानां पदानां विलोमपदानि ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) इच्छन् – रुदित्वा
(ख) विहस्य – अनिच्छन्
(ग) दोषः – असमर्थः
(घ) समर्थः – गुणः
(ङ) सुचिरं – अचिरम्

Answer

Answer:
“क’ स्तम्भः – ‘ख’ स्तम्भः
(क) इच्छन् – अनिच्छन्
(ख) विहस्य – रुदित्वा
(ग) दोषः – गुणः
(घ) समर्थः – असमर्थः
(ङ) सुचिरं – अचिरम्


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Chapter 8 लौहतुला with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit लौहतुला MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!