MCQ Questions

MCQ Questions for Class 9 Sanskrit Chapter 8 लौहतुला with Answers

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Chapter 8 लौहतुला with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the लौहतुला Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these लौहतुला objective questions.

लौहतुला Class 9 MCQs Questions with Answers

Practicing the Class 9 Sanskrit Chapter 8 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of लौहतुला Class 9 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 9 Sanskrit लौहतुला MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितगद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः। स च विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्

यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥

तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः। ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरम् आगत्य तं श्रेष्ठिनम् अवदत्-“भोः श्रेष्ठिन्! दीयतां मे सा निक्षेपतुला।” सोऽवदत्-“भोः! नास्ति सा, त्वदीया । तुला मूषकैः भक्षिता” इति।

Question 1.
‘तां च कस्यचित् गृहे…’ अत्र ‘तां’ सर्वनामपदं कस्यै प्रयुक्तम्?
(क) वणिकपुत्राय
(ख) जीर्णधनाय
(ग) तुलायै
(घ) तुलायाः

Answer

Answer: (ग) तुलायै


Question 2.
‘स्वपराक्रमेण’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) उपार्जिता
(ख) अधिष्ठाने
(ग) स्ववीर्यतः
(घ) श्रेष्ठिनः

Answer

Answer: (ग) स्ववीर्यतः


Question 3.
‘आसीत् ‘ इति क्रियापदस्य कर्तृपदं किम्?
(क) जीर्णधनः
(ख) अधिष्ठाने
(ग) कस्मिंश्चित्
(घ) नाम

Answer

Answer: (क) जीर्णधनः


Question 4.
‘गत्वा’ इति पदस्य विलोमपदं किम्?
(क) गन्तुम्
(ख) आगत्य
(ग) प्रस्थितः
(घ) नास्ति

Answer

Answer: (ख) आगत्य


Question 5.
लौहतुला कैः भक्षिता?

Answer

Answer: मूषकैः


Question 6.
जीर्णधनः कस्य गृहे तुलाम् निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः?

Answer

Answer: श्रेष्ठिनः


Question 7.
तुला कीदृशी आसीत्?

Answer

Answer: तुला लौहघटिता पूर्वपुरुषोपार्जिता आसीत्।


(ख) जीर्णधनः अवदत्-“भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता। ईदृशः एव अयं संसारः। न किञ्चिदत्र शाश्वतमस्ति। परमहं नद्यां स्नानार्थं गमिष्यामि। तत् त्वम् आत्मीयं एनं शिशुं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति। स श्रेष्ठी स्वपुत्रम् अवदत्-“वत्स! पितृव्योऽयं तव, स्नानार्थं यास्यति, तद् अनेन साकं गच्छ” इति। अथासौ श्रेष्ठिपुत्रः धनदेवः स्नानोपकरणमादाय प्रहृष्टमनाः तेन अभ्यागतेन सह प्रस्थितः। तथानुष्ठिते स वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्वारं बृहत् शिलया आच्छाद्य सत्त्वरं गृहमागतः।

Question 1.
‘नास्ति दोषः ते’ अत्र ‘ते’ सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) श्रेष्ठी
(ख) श्रेष्ठिनः
(ग) जीर्णधनाय
(घ) जीर्णधनस्य

Answer

Answer: (ख) श्रेष्ठिनः


Question 2.
‘सह’ इति पदस्य पर्यायपदम् किम्?
(क) सार्धम्
(ख) शाश्वतम्
(ग) परम्
(घ) वत्स

Answer

Answer: (क) सार्धम्


Question 3.
‘गमिष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) परमहं .
(ख) नद्यां
(ग) अहम्
(घ) स्नानार्थम्

Answer

Answer: (ग) अहम्


Question 4.
‘अनावृत्य’ इति पदस्य विलोमपदं किम्?
(क) आच्छाद्य
(ख) सत्वरं
(ग) प्रक्षिप्य
(घ) प्रेषय

Answer

Answer: (क) आच्छाद्य


Question 5.
कः नद्यां स्नानार्थं गमिष्यति?

Answer

Answer: जीर्णधनः


Question 6.
वणिक्शिशुः किम् आदाय अभ्यागतेन सह प्रस्थितः?

Answer

Answer: स्नानोपकरणम्


Question 7.
जीर्णधनः किम् कृत्वा सत्वरं गृहम् आगतः?

Answer

Answer: जीर्णधनः नद्यां स्नात्वा तं शिशुं च गिरिगुहायां प्रक्षिप्य तद्द्वारम् बृहशिलया आच्छाद्य सत्वरं गृहम् आगतः।


(ग) सः श्रेष्ठी पृष्टवान्-“भोः! अभ्यागत! कथ्यतां कुत्र मे शिशुः यः त्वया सह नदीं गतः”? इति। स अवदत्-“तव पुत्रः नदीतटात् श्येनेन हृतः” इति। श्रेष्ठी अवदत् – “मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुं शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।” इति।

सोऽकथयत्-“भोः सत्यवादिन्! यथा श्येनो बालं न नयति, तथा मूषका अपि लौहघटितां तुला न भक्षयन्ति। तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्।” इति। एवं विवदमानौ तौ द्वावपि राजकुलं गतौ। तत्र श्रेष्ठी तारस्वरेण अवदत्-“भोः! वञ्चितोऽहम्! वञ्चितोऽहम्! अब्रह्मण्यम्! अनेन चौरेण मम शिशुः अपहृतः” इति। अथ धर्माधिकारिणः तम् अवदन्-“भोः! समर्म्यतां श्रेष्ठिसुतः”।

Question 1.
‘श्येनः बालं न नयति’ अत्र कर्तृपदं किम्?
(क) श्येनः
(ख) बालं
(ग) नयति
(घ) न

Answer

Answer: (क) श्येनः


Question 2.
‘कलहं कुर्वन्तौ’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) द्वावपि
(ख) तारस्वरेण
(ग) विवदमानौ
(घ) प्रोवाच

Answer

Answer: (ग) विवदमानौ


Question 3.
‘मे तुलाम्’ अत्र ‘मे’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जीर्णधनाय
(ख) जीर्णधनस्य
(ग) जीर्णधनः
(घ) वणिक्पुत्रः

Answer

Answer: (क) जीर्णधनाय


Question 4.
‘विवदमानौ’ इति पदस्य विशेष्यपदं किम्?
(क) द्वावपि
(ख) तौ
(ग) गतौ
(घ) राजकुलम्

Answer

Answer: (ख) तौ


Question 5.
वञ्चितोऽहम् अब्रह्मण्यम्! इति तारस्वरेण कः उवाच?

Answer

Answer: श्रेष्ठी


Question 6.
शिशुः केन सह नदीं गतः?

Answer

Answer: जीर्णधनेन


Question 7.
विवदमानौ तौ कुत्र गतौ?

Answer

Answer: विवदमानौ तौ राजकुलं गतौ।


(घ) सोऽवदत्-“किं करोमि? पश्यतो मे नदीतटात् श्येनेन शिशुः अपहृतः”। इति। तच्छ्रुत्वा ते अवदन्-भोः! भवता सत्यं नाभिहितम्-किं श्येनः शिशुं हर्तुं समर्थो भवति? सोऽअवदत्-भोः! भोः! श्रूयतां मद्वचः
तुलां लौहसहस्त्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः॥

Question 1.
‘किं श्येनः शिशु-हर्तुं समर्थः भवति’ अस्मिन् वाक्ये कर्तृपदम् किम्?
(क) श्येनः
(ख) शिशु
(ग) हर्तुं
(घ) भवति

Answer

Answer: (क) श्येनः


Question 2.
‘अभिहितम्’ इति पदस्य कः अर्थः?
(क) हितम्
(ख) अहितम्
(ग) कथितम्
(घ) विहितम्

Answer

Answer: (ग) कथितम्


Question 3.
‘शिशुः’ इति पदस्य विशेषणपदं किम्?
(क) अपहतः
(ख) अनेन
(ग) श्येनः
(घ) पश्यतः

Answer

Answer: (क) अपहतः


Question 4.
‘अनृतम्’ इति पदस्य विलोमपदं किम्?
(क) अभिहितं
(ख) प्रोचुः
(ग) संशयः
(घ) सत्यम्

Answer

Answer: (घ) सत्यम्


Question 5.
कस्य पश्यतः श्येनेन शिशुः अपहृतः?

Answer

Answer: जीर्णधनस्य


Question 6.
तुलां के खादन्ति?

Answer

Answer: मूषकाः


Question 7.
केन सत्यम् न अभिहितम्?

Answer

Answer: जीर्णधनेन सत्यं न अभिहितम्।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
(ख) मूषकैः तुला भक्षिता।
(ग) विवदमानौ तौ राजकुलं गतौ।
(घ) नदीतटात् बालकः श्येनेन हृतः।
(ङ) वणिक्पुत्रः गुहाद्वारं बृहद्-शिलया आच्छाद्य गृहम् आगतः।
(च) जीर्णधनः नद्यां स्नानार्थं अगच्छत्।
(छ) श्रेष्ठी सभ्यानाम् अग्रे सर्वं वृत्तान्तं निवेदयामास।

Answer

Answer:
(क) जीर्णधनः किमर्थं देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?
(ख) कैः तुला भक्षिता?
(ग) विवदमानौ तौ कुत्र गतौ?
(घ) कुतः बालकः श्येनेन हृतः?
(ङ) वणिक्पुत्रः गुहाद्वारं कया आच्छाद्य गृहम् आगतः?
(च) जीर्णधनः कुत्र स्नानार्थं अगच्छत्?
(छ) श्रेष्ठी केषाम् अग्रे सर्वं वृत्तान्तं निवेदयामास?


अधोलिखितश्लोकयोः अन्वयपूर्तिं कुरुत

यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः।।

अन्वयः- यत्र देशे (i)…………………. स्थाने स्ववीर्यतः (ii)…………………. भुक्ताः (iii) …………… विभवहीनः य (iv)……………. सः पुरुषाधमः।

Answer

Answer:
यत्र देशे (i) अथवा स्थाने स्ववीर्यतः (ii) भोगाः भुक्ताः (iii) तस्मिन् विभवहीनः य (iv) वसेत् सः पुरुषाधमः।


तुला लौहसहस्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्ये नो बालकम्, नात्र संशयः।।

अन्वयः- राजन्! यत्र (i) …………….. तुलां (ii) ……………… खादन्ति। तत्र (iii) ……………. बालकः हरेत् अत्र (iv) ………………. न।

Answer

Answer:
राजन्! यत्र (i) लौहसहस्रस्य तुलां (ii) मूषकाः खादन्ति। तत्र (ii) श्येनः बालकः हरेत् अत्र (iv) संशयः न।


अधोलिखितयोः श्लोकयोः भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

(क) तुला लौहसहस्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः॥

भावार्थ:-जीर्णधनः धर्माधिकारिणम कथयति यत् यदि (i) ……………….. लौहनिर्मितां (ii) ……………… खादन्ति तत्र निःसन्देहं (iii) …………….. अपि बालकं (iv) …………………. शक्नोति।
मञ्जूषा- श्येनः, हर्तुम्, मूषकाः, तुलाम्

Answer

Answer:
जीर्णधनः धर्माधिकारिणम् कथयति यत् यदि मूषकाः लौहनिर्मितां तुलाम् खादन्ति तत्र निःसन्देहं श्येनः अपि बालकं हर्तुम् शक्नोति।


(ख) यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥

भावार्थ:-धनाभावात् जीर्णधनः अचिन्तयत् यत् (i) ……………. देशे नराः (ii) …………….. भोगाः प्राप्नुवन्ति। तत्र यः (iii) …………….. वसेत् सः तु निश्चयमेव (iv) ……………… भवति।
मञ्जूषा- धनहीनः, यस्मिन्, नराधमः, स्वपराक्रमेण

Answer

Answer:
धनाभावात् जीर्णधनः अचिन्तयत् यत् यस्मिन् देशे नराः स्वपराक्रमेण भोगाः प्राप्नुवन्ति। तत्र यः धनहीनः वसेत् सः तु निश्चयमेव नराधमः भवति।


घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) सः वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्द्वारं बृहत् शिलया आच्छादय् सत्वरं गृहमागतः।
(ii) “तत् त्वम आत्मीयं एनं शिशुं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति।
(iii) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः।
(iv) तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः।
(v) तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्।
(vi) जीर्णधनः अवदत्-” भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता।”
(vii) तौ द्वावपि संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।
(viii) “मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुम् शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।”

Answer

Answer:
(i) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः।
(ii) तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्।
(iii) तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः।
(iv) जीर्णधनः अवदत्-” भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता।”
(v) “तत् त्वम् आत्मीयं एनं शिशुं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति।
(vi) सः वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्द्वारं बृहत् शिला आच्छाद्य सत्वरं गृहमागतः।
(vii) “मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुम् शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।”
(viii) तौ द्वावपि संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।


रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थ चित्वा लिखत

Question 1.
यत्र देशे स्ववीर्यतः भोगा भुक्ताः।
(क) स्वधनेन
(ख) स्वकर्मणा
(ग) स्वपुत्रेण
(घ) स्वपराक्रमेण

Answer

Answer: (घ) स्वपराक्रमेण


Question 2.
अब्रह्मण्यम्! मम शिशुः चौरेण अपहृतः।
(क) अनुचितम्
(ख) ब्राह्मणम्
(ग) ब्रह्मां
(घ) वहयति

Answer

Answer: (क) अनुचितम्


Question 3.
श्रूयतां मद् वचः
(क) मत्
(ख) मनः
(ग) मम
(घ) मानः

Answer

Answer: (ग) मम


Question 4.
त्वदीय तुला मूषकैः भक्षिता।
(क) खादिता
(ख) भक्ष्यम्
(ग) खादितम्
(घ) भोजनम्

Answer

Answer: (क) खादिता


‘क’ स्तम्भे लिखितानां पदानां विलोमपदानि ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) इच्छन् – रुदित्वा
(ख) विहस्य – अनिच्छन्
(ग) दोषः – असमर्थः
(घ) समर्थः – गुणः
(ङ) सुचिरं – अचिरम्

Answer

Answer:
“क’ स्तम्भः – ‘ख’ स्तम्भः
(क) इच्छन् – अनिच्छन्
(ख) विहस्य – रुदित्वा
(ग) दोषः – गुणः
(घ) समर्थः – असमर्थः
(ङ) सुचिरं – अचिरम्


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Chapter 8 लौहतुला with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit लौहतुला MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 9 Sanskrit Chapter 8 लौहतुला with Answers Read More »

MCQ Questions for Class 9 Sanskrit Chapter 9 सिकतासेतुः with Answers

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Chapter 9 सिकतासेतुः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the सिकतासेतुः Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these सिकतासेतुः objective questions.

सिकतासेतुः Class 9 MCQs Questions with Answers

Practicing the Class 9 Sanskrit Chapter 9 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of सिकतासेतुः Class 9 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 9 Sanskrit सिकतासेतुः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितनाटयांशान् श्लोकान् च पठित्वा प्रश्नान् उत्तरत

(क) (ततः प्रविशति तपस्यारतः तपोदत्तः)
तपोदत्तः – अहमस्मि तपोदत्तः। बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि।
तस्मात् सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्। (ऊर्ध्वं निःश्वस्य)
हा विधे! किम् इदं मया कृतम्? कीदृशी दुर्बुद्धि आसीत् तदा। एतदपि न चिन्तितं यत्

Question 1.
‘गर्हितः’ इति पदस्य कः अर्थः?
(क) निन्दितः
(ख) गृहीतः
(ग) प्रसीदति
(घ) गच्छति

Answer

Answer: (क) निन्दितः


Question 2.
‘अहम् अस्मि तपोदत्तः’ अत्र ‘अहम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) तपोदत्तः
(ख) तपोदत्ताय
(ग) तपोदत्तम्
(घ) तपोदत्तेन

Answer

Answer: (ख) तपोदत्ताय


Question 3.
‘तपोदत्तः’ इति पदस्य विशेषणपदं किम्?
(क) अहम्
(ख) अस्मि
(ग) तपस्यारतः
(घ) रतः

Answer

Answer: (ग) तपस्यारतः


Question 4.
‘प्रशंसितः’ इति पदस्य विलोमपदं किम्?
(क) गर्हितः
(ख) गर्हितोऽभवम्
(ग) कीदृशी
(घ) तस्मात्

Answer

Answer: (क) गर्हितः


Question 5.
तपोदत्तः कदा विद्यां न अधीतवान्?

Answer

Answer: बाल्ये


Question 6.
कीदृशः तपोदत्तः प्रविशति?

Answer

Answer: तपस्यारतः


Question 7.
तपोदत्तः कैः गर्हितः अभवत्?

Answer

Answer: सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैः च तपोदत्तः गर्हितः अभवत्।


(ख) (किञ्चिद् विमृश्य)
भवतु, किम् एतेन? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।
(जलोच्छलनध्वनिः श्रूयते)
अये कुतोऽयं कल्लोलोच्छलनध्वनिः? महामत्स्यो मकरो वा भवेत्। पश्यामि तावत्।
(पुरुषमेकं सिकताभिः सेतुनिर्माण-प्रयासं कुर्वाणं दृष्ट्वा सहासम्)

Question 1.
‘उपैति’ इति पदस्य पर्यायपदम् किम्?
(क) प्राप्नोति
(ख) उत्पतति
(ग) आगच्छति
(घ) भवति

Answer

Answer: (क) प्राप्नोति


Question 2.
‘पुरुषं’ इति पदस्य विशेषणपदं किम्?
(क) पुरुषमेकं
(ख) एकम्
(ग) प्रयास
(घ) निर्माणम्

Answer

Answer: (ख) एकम्


Question 3.
‘निवृत्तः’ इति पदस्य विलोमपदं किम्?
(क) प्रवृतः
(ख) भ्रान्तः
(ग) कुतः
(घ) उपैति।

Answer

Answer: (क) प्रवृतः


Question 4.
‘उपैति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) दिवसे
(ख) सन्ध्यां
(ग) मार्गभ्रान्तः
(घ) गृहम्

Answer

Answer: (ग) मार्गभ्रान्तः


Question 5.
कः जलोच्छलनध्वनिः श्रूयते?

Answer

Answer: तपोदत्तः


Question 6.
दिवसे मार्गभ्रान्तः कदा गृहम् उपैति?

Answer

Answer: सन्ध्याम्


Question 7.
तपोदत्तः किमर्थम् अहस?

Answer

Answer: एकं पुरुषं सिकताभिः सेतुनिर्माणं-प्रयासं कुर्वाणं दृष्ट्वा तपोदत्तः अहसत्।


(ग) पुरुषः – भोस्तपस्विन्! कथं माम् अवरोधं करोषि। प्रयत्नेन किं न सिद्धं भवति? कावश्यकता शिलानाम्? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया।
तपोदत्तः – आश्चर्यम् किम् सिकताभिरेव सेतुं करिष्यसि? सिकता जलप्रवाहे स्थास्यन्ति किम्? भवता चिन्तितं न वा?
पुरुषः – (सोत्प्रासम्) चिन्तितं चिन्तितम्। सम्यक् चिन्तितम्। नाहं सोपानसहायतया अधिरोढुं विश्वसिमि। समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि।
तपोदत्तः – (सव्यङ्ग्यम्)
साधु साधु! आञ्जनेयमप्यतिक्रामसि!
पुरुषः – (सविमर्शम्)
कोऽत्र सन्देहः? किञ्च,

Question 1.
‘न अहम् सोपानमार्ग ………………. अस्मिन् वाक्ये ‘अहम्’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) विश्वसिमि
(ख) अस्मि
(ग) करिष्यसि
(घ) चिन्तितम्

Answer

Answer: (क) विश्वसिमि


Question 2.
‘आञ्जनेयम्’ इति पदस्य समानार्थकपदं किम्?
(क) रामम्
(ख) तपोदत्तम्
(ग) इन्द्रम्
(घ) हनुमन्तम्

Answer

Answer: (घ) हनुमन्तम्


Question 3.
‘भवता चिन्तितं’ अत्र ‘भवता’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) तपोदत्तः
(ख) तपोदत्ताय
(ग) पुरुषः
(घ) पुरुषाय

Answer

Answer: (घ) पुरुषाय


Question 4.
‘अनुचितम्’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) सम्यक्
(ख) चिन्तितं
(ग) क्षमः
(घ) संकल्पं

Answer

Answer: (क) सम्यक्


Question 5.
पुरुषः काभिः एव सेतोः निर्माणं करोति?

Answer

Answer: सिकताभिः


Question 6.
केन सर्वं सिद्धम् भवति?

Answer

Answer: प्रयत्नेन


Question 7.
पुरुषः कस्मिन् न विश्वसिति?

Answer

Answer: पुरुषः सोपानमार्गः अट्टम् अधिरोढुं न विश्वसिति।


(घ) तपोदत्तः – (सवैलक्ष्यम् आत्मगतम्)
अये! मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति! नूनं सत्यमत्र पश्यामि। अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि! तदियं भगवत्याः शारदाया अवमानना। गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः। पुरुषार्थैरेव लक्ष्यं प्राप्यते। (प्रकाशम्)
भो नरोत्तम! नाऽहं जाने यत् कोऽस्ति भवान्। परन्तु भवद्भिः उन्मीलितं मे नयनयुगलम्। तपोमात्रेण विद्यामवाप्तुं प्रयतमानः अहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि। तदिदानी विद्याध्ययनाय गुरुकुलमेव गच्छामि। (सप्रणामं गच्छति)

Question 1.
‘सलज्जम्’ इति अर्थे किम् पदम् प्रयुक्तम्?
(क) सवैलक्ष्यम्
(ख) विनैव
(ग) तदियं
(घ) अवमानना

Answer

Answer: पुरुषः सोपानमार्गः अट्टम् अधिरोढुं न विश्वसिति।


Question 2.
‘न अहम् जाने ……..’ अत्र ‘जाने’ इति क्रियापदस्य कर्तृपदं किम्?
(क) भवान्
(ख) अहम्
(ग) यत्
(घ) नरोत्तम

Answer

Answer: पुरुषः सोपानमार्गः अट्टम् अधिरोढुं न विश्वसिति।


Question 3.
‘मया’. इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) तपोदत्तस्य
(ख) तपोदत्तः
(ग) तपोदत्ताय
(घ) तपोदत्तम्

Answer

Answer: पुरुषः सोपानमार्गः अट्टम् अधिरोढुं न विश्वसिति।


Question 4.
‘प्रकाशम्’ इति पदस्य विलोमपदं किम्?
(क) लक्ष्यम्
(ख) आत्मगतम्
(ग) उद्दिश्य
(घ) सत्यमत्र

Answer

Answer: पुरुषः सोपानमार्गः अट्टम् अधिरोढुं न विश्वसिति।


Question 5.
पुरुषार्थैः किम् प्राप्यते?

Answer

Answer: लक्ष्यम्


Question 6.
भद्रपुरुषः कम् अधिक्षिपति?

Answer

Answer: तपोदत्तम्


Question 7.
तपोदत्तः तं पुरुषं किम् कथयति?

Answer

Answer: तपोदत्तः तं पुरुषं कथयति, “भवद्भिः उन्मीलितं मे नयनयुगलम्। तपोमात्रेण विद्याम् अवाप्तुम् प्रयतमानः अहम् अपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि। तदिदानीं विद्याध्ययनाय गुरुकुलम् एव गच्छामि।”


अधोलिखितकथनेषु रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुतउत्तराणि

(i) तपोदत्तः विद्याध्ययनाय गुरुकुलं गच्छति।
(ii) पुरुषः सिकताभिः सेतुनिर्माणं करोति।
(iii) गुरुगृहं गत्वा विद्याभ्यासः करणीयः।
(iv) जगति मूर्खाणाम् अभावः न अस्ति।
(v) तपोदत्तः बाल्ये विद्यां न अधीतवान्।
(vi) तपोदत्तः तपश्चर्यया विद्याम् अवाप्तुं प्रवृत्तः अभवत्।
(vii) पुरुषः नद्यां सिकताभिः सेतुनिर्माणं कर्तुम् प्रयतते।
(viii) इयं शारदायाः अवमानना अस्ति।

Answer

Answer:
(i) तपोदत्तः किमर्थम् गुरुकुलं गच्छति?
(ii) कः सिकताभिः सेतुनिर्माणं करोति?
(iii) कुत्र गत्वा विद्याभ्यासः करणीयः?
(iv) कुत्र मूर्खाणाम् अभावः न अस्ति?
(v) तपोदत्तः कदा विद्यां अधीतवान्?
(vi) तपोदत्तः तपश्चर्यया काम् अवाप्तुं प्रवृत्त अभवत्?
(vii) पुरुषः नद्यां काभिः सेतुनिर्माणं कर्तुम् प्रयतते?
(viii) इयं कस्याः अवमानना अस्ति?


निम्नलिखितश्लोकानाम् अन्वयेषु समुचितपदानि चित्वा पूरयत

(क) परिधानैरलङ्कारभूषितोऽपि न शोभते।
नरो निर्मणिभोगीव सभायां यदि वा गृहे।

अन्वयः- यदि नरः (i) ……………….. अलंकारैः (ii) ………………… अपि निर्मणिभोगी (iii) ……………….. सभायां (iv) ……………… वा न शोभते।

Answer

Answer:
यदि नरः (i) परिधानैः अलंकारैः (ii) भूषितः अपि निर्मणिभोगी (iii) इव सभायां (iv) गृहे वा न शोभते।


(ख) रामो बबन्ध यं सेतु शिलाभिर्मकरालये।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्।।

अन्वयः- रामः मकरालये (i) …………….. यं सेतुं (ii) ……………. त्वम् बालुभिः (iii) …………….. विदधद् (iv) ………….. यासि।

Answer

Answer:
रामः मकरालये (i) शिलाभिः यं सेतुं (ii) बबन्ध त्वम् बालुभिः (iii) तं विदधद् (iv) अतिरामताम् यासि।


(ग) विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम॥

अन्वयः- यदि लिपि (i) ……….. विना केवलम् (ii) …………. एव ते वशे विद्या (iii) …………. तथा मम (iv) ……………… सेतुः।

Answer

Answer:
यदि लिपि (i) अक्षरज्ञानम् विना केवलम् (ii) तपोभिः एव ते वशे विद्या (iii) स्युः तथा मम (iv) एषः सेतुः।


अधोलिखितश्लोकानाम् भावार्थ मञ्जूषातः उचितपदानि चित्वा पूरयत

(क) परिधानैरलङ्कारैर्भूषितोऽपि न शोभते।
नरो निर्मणिभोगीव सभायां यदि वा गृहे॥

भावार्थ:-मानवः वस्त्रैः (i) ………………. च भूषितः अपि (ii) ………………. इव सभायां गृहे वा न शोभते तथैव (iii) ………….. विना नरः (iv) ……….. न शोभते।
मञ्जूषा- विद्या, निर्मणिभोगी, आभूषणैः, कुत्रापि

Answer

Answer:
मानवः वस्त्रैः आभूषणैः च भूषितः अपि निर्मणिभोगी इव सभायां गृहे वा न शोभते तथैव नूनं विद्यां विना नरः कुत्रापि न शोभते।


(ख) रामो बबन्ध यं सेतुं शिलाभिर्मकरालये।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्॥

भावार्थ:-विप्ररूपे इन्द्रस्य (i) ……………… सेतुनिर्माणप्रयासं दृष्ट्वा तपोदत्तः तम् (ii) ……………. कथयति यत् पुरा समुद्रे (iii) ………………. प्रस्तरैः सेतुनिर्माणम् अकरोत्। अधुना त्वम् (iv) …………… निर्मातुं वाञ्छसि।
मञ्जूषा- सेतुम्, श्रीरामेण, उपहासपूर्वकम्, सिकताभिः

Answer

Answer:
विप्ररूपे इन्द्रस्य सिकताभिः सेतुनिर्माणप्रयासं दृष्ट्वा तपोदत्तः तम् उपहासपूर्वकम् कथयति पुरा समुद्रे श्रीरामेण प्रस्तरैः सेतुनिर्माणम् अकरोत्। अधुना त्वम् सिकताभिः सेतुम् निर्मातुं वाञ्छसि।


(ग) विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम॥

भावार्थ:-तपोमात्रेण विद्याम् अवाप्तुम् (i) ……………. तपोदत्तम् दृष्ट्वा पुरुषः कथयति यत् लिपि-अक्षरज्ञानं विना केवलं (ii) ………………… एव कोऽपि विद्वान् भवेत्। तथैव (iii) ………………. सेतुनिर्माणप्रयासम् अपि (iv) ……………… भविष्यति।
मञ्जूषा- तपश्चर्यया, प्रयतमानम्, सिकताभिः, सफलं

Answer

Answer:
तपोमात्रेण विद्याम् अवाप्तुम् प्रयतमानम् तपोदत्तम् दृष्ट्वा पुरुषः कथयति यत् लिपि-अक्षरज्ञानं विना केवलं तपश्चर्यया एव कोऽपि विद्वान् भवेत्। तथैव सिकताभिः सेतुनिर्माणप्रयासम् अपि सफलं भविष्यति।


घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) एषः इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।
(ii) बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि।
(iii) सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढ़तया।
(iv) तीव्रप्रवाहायां नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते।
(v) तपोमात्रेण विद्यामवाप्तुं प्रयतमानोऽहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि।
(vi) मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति।
(vii) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
(viii) अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि।

Answer

Answer:
(i) बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि।
(ii) एषः इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।
(iii) तीव्रप्रवाहायां नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते।
(iv) सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढ़तया।
(v) मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति।
(vi) अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि।
(vii) तपोमात्रेण विद्यामवाप्तुं प्रयतमानोऽहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि।
(viii) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।


अधोलिखित वाक्येषु रेखांकितपदानाम् कृते उचितम् अर्थम् चित्वा लिखत

Question 1.
तपोदत्तः सर्वैः कुटुम्बिभिः गर्हितः अभवत्।
(क) निन्दितः
(ख) गृहीतः
(ग) गच्छतः
(घ) गृहीतं

Answer

Answer: (क) निन्दितः


Question 2.
जगति मूर्खाणाम् अभावः न अस्ति।
(क) संसारे
(ख) विश्वः
(ग) जागृतः
(घ) जयति

Answer

Answer: (क) संसारे


Question 3.
आञ्जनेयम् अतिक्रामसि।
(क) अंजनि
(ख) हनुमन्तम्
(ग) हनुमान्
(घ) अञ्जनेः

Answer

Answer: (ख) हनुमन्तम्


Question 4.
तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यम् अवाप्तुम् अभिलषति।
(क) विदुषी
(ख) विद्वान्
(ग) पाण्डित्यम्
(घ) द्वेषरहितं

Answer

Answer: (ग) पाण्डित्यम्


अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

सुबुद्धिः, निर्लज्जम्, मूर्खत्वम्, नरोत्तमः, गर्हितः
पदानि – विलोमशब्दाः
(क) सवैलक्ष्यम् – ………….
(ख) वैदुष्यम् – …………….
(ग) दुर्बुद्धिः – ……………..
(घ) प्रशंसितः – ……………
(ङ) नराधमः – ………………

Answer

Answer:
पदानि – विलोमशब्दाः
(क) सवैलक्ष्यम् – निर्लज्जम्
(ख) वैदुष्यम् – मूर्खत्वम्
(ग) दुर्बुद्धिः – सुबुद्धिः
(घ) प्रशंसितः – गर्हितः
(ङ) नराधमः – नरोत्तमः


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Chapter 9 सिकतासेतुः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit सिकतासेतुः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 9 Sanskrit Chapter 9 सिकतासेतुः with Answers Read More »

MCQ Questions for Class 9 Sanskrit Chapter 10 जटायोः शौर्यम् with Answers

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Chapter 10 जटायोः शौर्यम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the जटायोः शौर्यम् Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these जटायोः शौर्यम् objective questions.

जटायोः शौर्यम् Class 9 MCQs Questions with Answers

Practicing the Class 9 Sanskrit Chapter 10 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of जटायोः शौर्यम् Class 9 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 9 Sanskrit जटायोः शौर्यम् MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितश्लोकान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृभं ददर्शायतलोचना॥

Question 1.
‘ददर्श’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सा
(ख) तदा
(ग) करुणा
(घ) गृधं

Answer

Answer: (क) सा


Question 2.
‘गृधं’ इति पदस्य विशेषणपदं किम्?
(क) आयत
(ख) लोचना
(ग) वनस्पतिगतं
(घ) वाचः

Answer

Answer: (ग) वनस्पतिगतं


Question 3.
‘सा तदा ……….. अत्र ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्।
(क) सीता
(ख) सीतायै
(ग) सीतां
(घ) सीताय

Answer

Answer: (ख) सीतायै


Question 4.
‘हसन्ती’ इति पदस्य विलोमपदं किम्?
(क) विलपन्ती
(ख) रुदती
(ग) विलपती
(घ) विलापं

Answer

Answer: (क) विलपन्ती


Question 5.
दुःखिता का आसीत्?

Answer

Answer: वैदेही/सीता


Question 6.
का विलापं करोति स्म?

Answer

Answer: सीता


Question 7.
सीता कम् ददर्श?

Answer

Answer: सीता वनस्पतिगतम् गृधं ददर्श।


(ख) जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा॥

Question 1.
‘माम्’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(क) रावणाय
(ख) सीता
(ग) सीतायै
(घ) जटायुः

Answer

Answer: (ग) सीतायै


Question 2.
श्लोके क्रियापदम् किम् अस्ति?
(क) करुणं
(ख) अनेन
(ग) पश्य
(घ) अनाथवत्

Answer

Answer: (ग) पश्य


Question 3.
‘देवेन्द्रेण’ इति पदस्य विलोमपदं किम्?
(क) पापकर्मणा
(ख) राक्षसेन्द्रेण
(ग) दानवेन्द्रेण
(घ) अनेन

Answer

Answer: (ख) राक्षसेन्द्रेण


Question 4.
दानवपतिना’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) राक्षसेन्द्रेण
(ख) पापकर्मणा
(ग) ममार्य
(घ) जटायो

Answer

Answer: (क) राक्षसेन्द्रेण


Question 5.
अस्मिन् श्लोके सम्बोधनपदम् किम्?

Answer

Answer: आर्य जटायो!


Question 6.
पश्य जटायो’ इति का वदति?

Answer

Answer: सीता/वैदेही


Question 7.
पापकर्मणा राक्षसेन्द्रेण किम् कृतम्?

Answer

Answer: पापकर्मणा राक्षसेन्द्रेण सीता अनाथवत् अपहृता।


(ग) तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः॥

Question 1.
‘शीघ्रम्’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) क्षिप्रम्
(ख) निरीक्ष्य
(ग) अथ
(घ) शुश्रुवे

Answer

Answer: (क) क्षिप्रम्


Question 2.
‘जटायुः’ इति पदस्य विशेषणपदं किम्?
(क) ·अथ
(ख) शब्दम्
(ग) सुप्तः
(घ) अवसुप्तः

Answer

Answer: (घ) अवसुप्तः


Question 3.
‘जटायुरथ शुश्रुवे।’ अत्र क्रियापदं किम्?
(क) जटायु
(ख) रथ
(ग) शुश्रुवे
(घ) अथ

Answer

Answer: (ग) शुश्रुवे


Question 4.
‘मन्दम्’ इति पदस्य विलोमपदं किम्?
(क) अथ
(ख) क्षिप्रम्
(ग) निरीक्ष्य
(घ) ददर्श

Answer

Answer: (ख) क्षिप्रम्


Question 5.
कः शब्दम् शुश्रुवे?

Answer

Answer: जटायुः


Question 6.
जटायुः कस्याः शब्दम् अशृणोत्।

Answer

Answer: सीतायाः


Question 7.
जटायुः किम् अपश्यत्?

Answer

Answer: जटायुः रावणम् निरीक्ष्य क्षिप्रं वैदेहीं च ददर्श।


(घ) वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी।
न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि॥

Question 1.
‘मे’ इति सर्वनामपदम् कस्य कृते प्रयुक्तम्?
(क) रावणाय
(ख) सीतायै
(ग) जटायोः
(घ) जटायुः

Answer

Answer: (ग) जटायोः


Question 2.
‘धनुर्धरः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) कवची
(ख) धन्वी
(ग) शरी
(घ) कुशली

Answer

Answer: (ख) धन्वी


Question 3.
‘युवा’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) वृद्धः
(ख) धन्वी
(ग) रथी
(घ) शरी

Answer

Answer: (क) वृद्धः


Question 4.
श्लोके क्रियापदं किम्?
(क) आदाय
(ख) गमिष्यसि
(ग) कवची
(घ) कुशली

Answer

Answer: (ख) गमिष्यसि


Question 5.
वैदेहीम् आदाय कः गच्छति?

Answer

Answer: रावणः


Question 6.
कः वृद्धः अस्ति?

Answer

Answer: जटायुः


Question 7.
जटायुः रावणं किम् कथयति?

Answer

Answer: जटायुः रावणम् कथयति, “अहम् वृद्धः, त्वम् युवा धन्वी, सरथः, कवची, शरी (तथापि) वैदेहीं आदाय कुशली न गमिष्यसि।”


(ङ) स भग्नधन्वा विरथो हताश्वो हतसारथिः।
तलेनाभिजघानाशु जटायुं क्रोधमूर्छितः॥

Question 1.
‘घोटक’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) विरथो
(ख) सारथि
(ग) धन्वा
(घ) अश्वः

Answer

Answer: (घ) अश्वः


Question 2.
‘सरथः’ इति पदस्य विलोमपदम् किम्?
(क) भग्न
(ख) तलेन
(ग) हतसारथिः
(घ) विरथो

Answer

Answer: (घ) विरथो


Question 3.
श्लोके क्रियापदं किम्?
(क) धन्वा
(ख) भग्न
(ग) क्रोधः
(घ) अभिजघान

Answer

Answer: (घ) अभिजघान


Question 4.
‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जटायोः
(ख) सीतायै
(ग) रावणाय
(घ) रावणः

Answer

Answer: (ग) रावणाय


Question 5.
क्रोधमूर्छितः कः?

Answer

Answer: रावणः


Question 6.
हतसारथिः कः?

Answer

Answer: रावणः


Question 7.
कीदृशः रावणः जटायुम् अभिजघान?

Answer

Answer: भग्नधन्वा, विरथः, हताश्वः हतसारथिः चः रावणः जटायुं तलेन अभिजघान।


अधोलिखितेषु कथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्उत्तराणि

(i) विलपन्ती वैदेही जटायुम् अपश्यत्।
(ii) रावणः वैदेहीम् आदाय भुवि अपतत्।
(iii) खगाधिपः रावणस्य गात्रे व्रणान् अकरोत्।
(iv) जटायुः चरणाभ्याम् महद्धनुः भग्नं कृतवान्।
(v) जटायुः तुण्डेन रावणस्य दश वामबाहून् व्यपाहरत्।

Answer

Answer:
(i) कीदृशी वैदेही जटायुम् अपश्यत्?
(ii) रावणः वैदेहीम् आदाय कुत्र अपतत्?
(iii) खगाधिपः कस्य गात्रे व्रणान् अकरोत्?
(iv) जटायुः काभ्याम् महद्धनुः भग्नं कृतवान्?
(v) जटायुः केन रावणस्य दश वामबाहून् व्यपाहरत्?


अधोलिखितश्लोकानाम् अन्वयेषु रिक्तस्थानानाम् पूर्तिं कुरुत

(क) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना।।

अन्वयः- तदा सा (i) ………….. करुणा वाचो (ii) ………… आयतलोचना (iii) ……………. गृधं (iv) ………………..।

Answer

Answer:
तदा सा (i) सुदुःखिता करुणा वाचो (ii) विलपन्ती आयतलोचना (iii) वनस्पतिगतं गृधं (iv) ददर्श।


(ख) जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा।।

अन्वयः- आर्य (i) ………….. अनेन (ii) ……………. राक्षसेन्द्रेण (iii) ……………. अनाथवत् ह्रियमाणाम् (iv) …………….. पश्य।

Answer

Answer:
आर्य (i) जटायो! अनेन (ii) पापकर्मणा राक्षसेन्द्रेण (iii) अकरुणं अनाथवत् ह्रियमाणाम् (iv) माम् पश्य।


(ग) तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः।।

अन्वयः- अथ (i) ………….. जटायुः तं (ii) …………… शुश्रुवे। क्षिप्रं (iii) ……………….. निरीक्ष्य सः (iv) ……………… च ददर्श।

Answer

Answer:
अथ (i) अवसुप्तः जटायुः तं (ii) शब्दं शुश्रुवे। क्षिप्रं (iii) रावणं निरीक्ष्य सः (iv) वैदेहीं च ददर्श।


(घ) वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी।
न चाप्यादाय कुशली वैदेहीं में गमिष्यसि।।

अन्वयः- अहम् (i) …………………. त्वम् युवा धन्वी (ii) ………………. कवची शरी च अपि मे (iii) ……………….. आदाय (iv) ……………….. न गमिष्यसि।

Answer

Answer:
अहम् (i) वृद्धः त्वम् युवा धन्वी (ii) सरथः कवची शरी च अपि मे (iii) वैदेहीं आदाय (iv) कुशली न गमिष्यसि।


अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत:

(क) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना॥

भावार्थ:-लंकापतिना (i) ……………. नीयमाना, सुदु:खिता, (ii) …………… करुणया वदन्ती च विशाललोचना (iii) ……………. वृक्षस्थितम् पक्षिश्रेष्ठं गृध्रराजं (iv) …………… अपश्यत्।
मञ्जूषा- जटायुम्, रावणेन, विलपन्ती, सीता

Answer

Answer:
लंकापतिना रावणेन नीयमाना, सुदु:खिता, विलपन्ती करुणया वदन्ती च विशाललोचना सीता वृक्षस्थितम् पक्षिश्रेष्ठं गृध्रराज जटायुम् अपश्यत्।


(ख) जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा॥

भावार्थ:- रावणेन नीयमाना सीता वने (i) ……………… वीक्ष्य तम् सहायतार्थम् अकारयति (ii) ………………. च यत् अनेन (iii) …………………. निर्दयतापूर्वकं (iv) …………………. नीयमानाम् माम् पश्य।
मञ्जूषा- अनाथवत्, राक्षसेन्द्रेण, कथयति, जटायुं

Answer

Answer:
रावणेन नीयमाना सीता वने जटायुं वीक्ष्य तम् सहायतार्थम् अकारयति कथयति च यत् अनेन राक्षसेन्द्रेण निर्दयतापूर्वकं अनाथवत् नीयमानाम् माम् पश्य।


(ग) तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः।
चकार बहुधा गात्रे व्रणान्यतगसत्तमः॥

भावार्थ:- सीतायाः रक्षणार्थम् गृध्रराजः (i) ………………. सह युद्धम् अकरोत्। सः पक्षिशिरोमणिः (ii) …………….. स्वतीक्ष्णनखाभ्यां (iii) ……………. रावणस्य शरीरे अनेके (iv) ………………. अकरोत्।
मञ्जूषा- व्रणान्, चरणाभ्याम्, जटायुः, रावणेन

Answer

Answer:
सीतायाः रक्षणार्थम् गृध्रराजः रावणेन सह युद्धम् अकरोत्। सः पक्षिशिरोमणिः जटायुः स्वतीक्ष्णनखाभ्यां चरणाभ्याम् रावणस्य शरीरे अनेके व्रणान् अकरोत्।


(घ) स भग्नधन्वा विरथो हताश्वो हतसारथिः।
तलेनाभिजघानाशु जटायु क्रोधमूच्छितः॥

भावार्थ:- जटायुः रावणस्य (i) …………… चरणाभ्याम् भग्नम् अकरोत्। तदा (ii) …………….. भग्नधन्वा, हताश्वः हतसारथिः च (iii) …………….. रावणः तलेन (iv) …………….. शीघ्रं आक्रान्तवान्।
मञ्जूषा- रथविहीनः, धनुः, जटायुम्, क्रोधितः

Answer

Answer: जटायुः रावणस्य धनुः चरणाभ्याम् भग्नम् अकरोत्। तदा रथविहीनः भग्नधन्वा, हताश्वः हतसारथिः च क्रोधितः रावणः तलेन जटायुम् शीघ्रं आक्रान्तवान्।


रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत

Question 1.
अरिन्दमः दशवामबाहून् व्यपाहरत्।
(क) उत्खातवान्
(ख) अपहरत्
(ग) व्यापादितम्
(घ) विदीर्णम्

Answer

Answer: (क) उत्खातवान्


Question 2.
जटायुः रावणस्य महधनुः बभञ्ज।
(क) विभाजितम्
(ख) भग्नं कृतवान्
(ग) पतितः
(घ) घटितः

Answer

Answer: (ख) भग्नं कृतवान्


Question 3.
रावणः तलेन जटायुम् अभिजघान।
(क) अभिवदति
(ख) अपसार्य
(ग) हतवान्
(घ) कथितम्

Answer

Answer: (ग) हतवान्


Question 4.
परदाराभिमर्शनात् नीचां मतिं निवर्तय।
(क) वारणं कुरु
(ख) निवारणं
(ग) वारयितुम्
(घ) निर्माणं कुरु

Answer

Answer: (क) वारणं कुरु


Question 5.
रावणः धन्वी कवची शरी च आसीत्।
(क) कृपणः
(ख) क्रूरः
(ग) कवचधारी
(घ) क्रोधितः

Answer

Answer: (ग) कवचधारी


‘क’ स्तम्भे लिखितानां पदानां विलोमपदानि ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) युवा – प्रदाय
(ख) आदाय – वृद्धः
(ग) वामेन – अनतिक्रम्य
(घ) अतिक्रम्य – दक्षिणेन
(ङ) अनार्य – आर्य

Answer

Answer:
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) युवा – वृद्धः
(ख) आदाय – प्रदाय
(ग) वामेन – दक्षिणेन
(घ) अतिक्रम्य – अनतिक्रम्य
(ङ) अनार्य – आर्य


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Chapter 10 जटायोः शौर्यम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit जटायोः शौर्यम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 9 Sanskrit Chapter 10 जटायोः शौर्यम् with Answers Read More »

MCQ Questions for Class 9 Sanskrit Chapter 12 वाडमनःप्राणस्वरूपम् with Answers

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Chapter 12 वाडमनःप्राणस्वरूपम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the वाडमनःप्राणस्वरूपम् Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these वाडमनःप्राणस्वरूपम् objective questions.

वाडमनःप्राणस्वरूपम् Class 9 MCQs Questions with Answers

Practicing the Class 9 Sanskrit Chapter 12 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of वाडमनःप्राणस्वरूपम् Class 9 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 9 Sanskrit वाडमनःप्राणस्वरूपम् MCQ Multiple Choice Questions with Answers PDF.

निम्नलिखितम् संवादं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत

1. श्वेतकेतुः – भगवन्! श्वेतकेतुरहं वन्दे।
आरुपिणः – वत्स! चिरञ्जीव।
श्वेतकेतुः – भगवन्! किञ्चित्प्रष्टुमिच्छामि।
आरुणिः – वत्स! किमद्य त्वया प्रष्टव्यमस्ति?
श्वेतकेतुः – भगवन्! ज्ञातुम् इच्छामि यत् किमिदं मनः?
आरुणिः – वत्स! अशितस्यान्नस्य योऽणिष्ठः तन्मनः।

Question 1.
कः प्रश्न प्रष्टुम् इच्छति?

Answer

Answer: श्वेतकेतुः


Question 2.
श्वेतकेतुः कस्मात् प्रश्नं पृच्छति?

Answer

Answer: आरुणेः


Question 3.
अन्नस्य कीदृशः भागः मनः?

Answer

Answer: अणिष्ठः


Question 4.
श्वेतकेतुः कम् प्रणामम् करोति?

Answer

Answer: श्वेतकेतुः आरुणिम् प्रणामम् करोति।


Question 5.
मनः किम् अस्ति?

Answer

Answer: अशितस्यान्नस्य योऽणिष्ठः तन्मनः।


Question 6.
‘तत् मनः’ अत्र विशेषणपदं किम्?

Answer

Answer: तत्


Question 7.
‘अहम् वन्दे’ अत्र ‘अहम्’ पदं कस्मै प्रयुक्तम्?

Answer

Answer: श्वेतकेतवे


Question 8.
किञ्चित् प्रष्टुम् इच्छामि’ अत्र ‘इच्छामि’ क्रियापदस्य कर्ता कः?

Answer

Answer: श्वेकेतुः (अहम्)


Question 9.
‘भक्षितस्य’ इति पदस्य अर्थे गद्यांशे किं पदं प्रयुक्तम्?

Answer

Answer: अशितस्य।


2. श्वेतकेतुः – कश्च प्राणः?
आरुणिः – पीतानाम् अपां योऽणिष्ठः स प्राणः।
श्वेतकेतुः – भगवन्! का इयं वाक्?
आरुणिः – वत्स! अशितस्य तेजसा योऽणिष्ठः सा वाक्। सौम्य! मनः अन्नमयं, प्राणः आपोमयः वाक् च तेजोमयी भवति इत्यप्यवधार्यम्।
श्वेतकेतुः – भगवन्! भूय एव मां विज्ञापयतु।
आरुणिः – सौम्य! सावधानं शृणु! मथ्यमानस्य दनः योऽणिमा, स ऊर्ध्वः समुदीषति। तत्सर्पिः भवति।
श्वेतकेतुः – भगवन्! भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्। भूयोऽपि श्रोतुमिच्छामि।
आरुणिः – एवमेव सौम्य! अश्यमानस्य अन्नस्य योऽणिमा, स ऊर्ध्वः समुदीषति। तन्मनो भवति। अवगतं न वा?

Question 1.
घृतोत्पत्तिरहस्यम् कः वदति?

Answer

Answer: आरुणिः


Question 2.
अपाम् अरिष्टः भागः कः भवतिः

Answer

Answer: प्राणः


Question 3.
श्वेतकेतुः कस्य शिष्यः आसीत्?

Answer

Answer: आरुणेः


Question 4.
सर्पिः किम् भवति?

Answer

Answer: मथ्यमानस्य दनः योऽणिमा, स ऊर्ध्वः समुदीषति। तत्सर्पिः भवति।


Question 5.
वाक्, प्राणः मनश्च कीदृशानि भवन्ति?

Answer

Answer: वाक् तेजोमयी, प्राणः आपोमयः मनः अन्नमयं च भवति।


Question 6.
‘उपरि’ इति पदस्य अर्थे किम् पदम् संवादे प्रयुक्तम्?

Answer

Answer: ऊर्ध्वः


Question 7.
‘वक्तुम्’ इति पदस्य संवादे विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: श्रोतुम्


Question 8.
‘सौम्य’ इति पदम् कस्मै प्रयुक्तम्?

Answer

Answer: श्वेतकेतवे


Question 9.
‘केयं वाक्’ अत्र विशेषणपदं किम् प्रयुक्तम्?

Answer

Answer: इयम्


3. श्वेतकेतुः – सम्यगवगतं भगवन्!।
आरुणिः – वत्स! पीयमानानाम् अपां योऽणिमा स ऊर्ध्वः समुदीषति स एव प्राणो भवति।
श्वेतकेतुः – भगवन्! वाचमपि विज्ञापयतु।
आरुणिः – सौम्य! अश्यमानस्य तेजसो योऽणिमा, स ऊर्ध्वः समुदीषति। सा खलु वाग्भवति। वत्स! उपदेशान्ते भूयोऽपि त्वां विज्ञापयितुमिच्छामि यत् अन्नमयं भवति मनः, आपोमयो भवति प्राणाः तेजोमयी च भवति वागिति। किञ्च यादृशमन्नादिकं गृह्णाति मानवस्तादृशमेव तस्य चित्तादिकं भवतीति मदुपदेशसारः। वत्स! एतत्सर्वं हृदयेन अवधारय।
श्वेतकेतुः – यदाज्ञापयति भगवन्। एष प्रणमामि।
आरुणिः – वत्स! चिरञ्जीव। तेजस्वि नौ अधीतम् अस्तु (आवयोः अधीतम् तेजस्वि अस्तु)।

Question 1.
कः सम्यक् अवगच्छति?

Answer

Answer: श्वेतकेतुः


Question 2.
चिरञ्जीव! इति कः कथयति?

Answer

Answer: आरुणिः


Question 3.
श्वेतकेतुः कं प्रणमति?

Answer

Answer: आरुणिम्


Question 4.
आरुणेः उपदेशस्य सारः किम् अस्ति?

Answer

Answer: आरुणेः उपदेशस्य सारः अस्ति यत् मनुष्यः यादृशम् अन्नादिकं गृह्णाति तादृशमेव तस्य चित्तादिकं भवति।


Question 5.
मनः कीदृशं भवति?

Answer

Answer: अन्नमयं मनः भवति।


Question 6.
अत्र ‘प्रणमामि’ इति क्रियापदस्य कर्ता कः?

Answer

Answer: श्वेतकेतुः (अहम्)


Question 7.
‘पठितम्’ इति पदस्य पर्यायपदं संवादे किम्?

Answer

Answer: अधीतम्


Question 8.
‘भवतीति मदुपदेशसारः’ अत्र ‘मत्’ पदम् कस्मै प्रयुक्तम्?

Answer

Answer: आरुणये


Question 9.
अनुच्छेदे ‘अधः’ इत्यस्य पदस्य कः विपर्ययः आगतः?

Answer

Answer: ऊर्ध्वः


निम्नवाक्येषु रेखाकित पदानाम् स्थानेषु प्रश्नवाचकं पदं लिखत

Question 1.
मथ्यमानस्य दघ्नः अणिमा ऊर्ध्वं समुदीषति।।
(क) कस्य
(ख) किम्
(ग) कम्
(घ) कुत्र

Answer

Answer: (घ) कुत्र


Question 2.
भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्।
(क) कम्
(ख) किम्
(ग) केन
(घ) कीदृशम्

Answer

Answer: (ख) किम्


Question 3.
आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
(क) किम्
(ख) कम्
(ग) कः
(घ) के

Answer

Answer: (ख) कम्


Question 4.
श्वेतकेतुः वाग्विषये पृच्छति।
(क) कस्य
(ख) किम्
(ग) कः
(घ) कीदृशः

Answer

Answer: (ग) कः


Question 5.
अशितस्यान्नस्य यः अणिष्ठः तत् मनः।
(क) किम्
(ख) कः
(ग) कस्य
(घ) कम्

Answer

Answer: (ग) कस्य


Question 6.
पीतानाम् अपां यः अणिष्ठः सः प्राणः।
(क) किम्
(ख) कीदृशाणाम्
(ग) कम्
(घ) काम्

Answer

Answer: (ख) कीदृशाणाम्


Question 7.
अशितस्य तेजसा योऽणिष्ठः सा वाक्।
(क) कीदृशः
(ख) कः
(ग) कस्य
(घ) केन

Answer

Answer: (क) कीदृशः


Question 8.
अहम् भूयोऽपि श्रोतुमिच्छामि।
(क) कथम्
(ख) कतिवारम्
(ग) कदा
(घ) कः

Answer

Answer: (ख) कतिवारम्


Question 9.
एतत् सर्वम् हृदयेन अवधारय।
(क) कथम
(ख) किम्
(ग) केन
(घ) कम्

Answer

Answer: (ग) केन


Question 10.
मानवः यादृशं अन्नं गृह्णाति तादृशं तस्य चित्तादिकं भवति।
(क) कः
(ख) कम्
(ग) कथम्
(घ) किम्

Answer

Answer: (क) कः


Question 11.
मानवः यादृशं अन्नं गृह्णाति तादृशं तस्य चित्तादिकं भवति।
(क) कीदृशम्
(ख) क़म्
(ग) किम्
(घ) कः

Answer

Answer: (क) कीदृशम्


Question 12.
मनः अन्नमयं भवति।
(क) कस्य
(ख) कः
(ग) किम्
(घ) केषाम्

Answer

Answer: (ग) किम्


Question 13.
प्राणः अपोमयः भवति।
(क) कः
(ख) कीदृशः
(ग) कस्य
(घ) किम्

Answer

Answer: (ख) कीदृशः


Question 14.
वाक् तेजोमयी भवति।
(क) का
(ख) कः
(ग) कथम्
(घ) कदा

Answer

Answer: (क) का


Question 15.
मनः अन्नमयं भवति।
(क) केषाम्
(ख) कस्य
(ग) केन
(घ) कीदृशम्

Answer

Answer: (घ) कीदृशम्


Question 16.
प्राणः अपोमयः भवति।
(क) कथम्
(ख) कदा
(ग) कः
(घ) केन

Answer

Answer: (ग) कः


Question 17.
वाक् तेजोमयी भवति।
(क) कस्य
(ख) कीदृशी
(ग) कस्य
(घ) किम्

Answer

Answer: (ख) कीदृशी


‘अ’ वर्गस्य पर्यायपदानि ‘ब’ वर्गेण दत्तैः पदैः सह यथायोग्यं योजयत

‘अ’ वर्गः – ‘ब’ वर्गः
1. अपाम् – भक्ष्यमाणस्य
2. अपोमयः – उत्तमरीत्या
3. अवधार्यम् – घृतम्
4. भूयोऽपि – प्रणमामि
5. वाक् – लघिष्ठः
6. अवगतम् – जलानाम्
7. ऊर्ध्व – पुनरपि
8. अस्यमानस्य – अवागच्छम्
9. सम्यक् – जलमयः
10. सर्पिः – उपरि
11. वन्दे – अवगन्तव्यम्
12. प्रष्टव्यम् – वाणी
13. अणिष्ठः – प्रष्टुम् योग्यम्
14. तेजोमयः – समुत्तिष्ठति
15. विज्ञापयतु – तेजोयुक्तम्
16. उपदेशान्ते – आवयोः
17. श्रोतुम् – अग्निमयः
18. समुदीषति – प्रबोधयतु
19. तेजस्वि – प्रवचनान्ते
20. नौ – आकर्णयितुम्

Answer

Answer:
‘अ’ वर्गः – ‘ब’ वर्गः
1. अपाम् – जलानाम्
2. अपोमयः – जलमयः
3. अवधार्यम् – अवगन्तव्यम्
4. भूयोऽपि – पुनरपि
5. वाक् – वाणी
6. अवगतम् – अवागच्छम्
7. ऊर्ध्व – उपरि
8. अस्यमानस्य – भक्ष्यमाणस्य
9. सम्यक् – उत्तमरीत्या
10. सर्पिः – घृतम्
11. वन्दे – प्रणमामि
12. प्रष्टव्यम् – प्रष्टुम् योग्यम्
13. अणिष्ठः – लघिष्ठः
14. तेजोमयः – अग्निमयः,
15. विज्ञापयतु – प्रबोधयतु
16. उपदेशान्ते – प्रवचनान्ते
17. श्रोतुम् – आकर्णयितुम्
18. समुदीषति – समुत्तिष्ठति
19. तेजस्वि – तेजोयुक्तम्
20. नौ – आवयोः।


निम्नवाक्यानि घटनाक्रमानुसारं पुनर्लिखत

1. (i) भगवन् मनः किं भवति?
(ii) अशितस्य तेजसः यः अणिष्ठः भागः भवति सा वाक् अस्ति।
(iii) अनेन शिष्यः सन्तुष्टः भूत्वा तं प्रणमति।
(iv) श्वेतकेतुः नाम शिष्यः गुरुम् आरुणिं प्रश्नं पृच्छति।
(v) भगवन् प्राणः कः?
(vi) गुरुः वदति यत् अशितस्य अन्नस्य यः अणिष्ठः भागः तत् मनः भवति।
(vii) गुरुः अकथयत्-पीतानाम् अपां यः अणिष्ठः भागः सः प्राणः भवति।
(viii) पुनः श्वेतकेतुः वदति यत् वाक् काऽस्ति?

Answer

Answer:
(i) श्वेतकेतुः नाम शिष्यः गुरुम् आरुणिं प्रश्नं पृच्छति।
(ii) भगवन् मनः किं भवति?
(iii) गुरुः वदति यत् अशितस्य अन्नस्य यः अणिष्ठः भागः तत् मनः भवति।
(iv) भगवन् प्राणः कः?
(v) गुरुः अकथयत्-पीतानाम् अपां यः अणिष्ठः भागः सः प्राणः भवति।
(vi) पुनः श्वेतकेतुः वदति यत् वाक् काऽस्ति?
(vii) अशितस्य तेजसः यः अणिष्ठः भागः भवति सा वाक् अस्ति।
(viii) अनेन शिष्यः सन्तुष्टः भूत्वा तं प्रणमति।


2. (i) गुरुः आरुणिः वदति-पीयमानानाम् अपाम् यः अणिमा ऊर्ध्वः समुदीषति स एव प्राणः भवति।
(ii) वत्स! अश्यमानस्य तेजसः च अणिमा भागः ऊर्ध्वः उद्गच्छति सा एव वाक् भवति।
(iii) गुरुः कथयति-सौम्य! आश्यमानस्य अन्नस्य यः अणिमा अंशः सः एव मनः भवति।
(iv) गुरोः आरुणेः प्रियः शिष्यः श्वेतकेतुः आसीत्।
(v) पुनः शिष्यः पृच्छति-गुरुवर! प्राणश्च कः?
(vi) भगवन् मनः किमस्ति?
(vii) भगवन्! कथयतु भवान् यत् वाक् च कः कथ्यते?
(viii) सः गुरुम् उपगम्य मनसः, प्राणस्य वाचः च विषये प्रश्नानि पृच्छति।

Answer

Answer:
(i) गुरोः आरुणे: प्रियः शिष्यः श्वेतकेतुः आसीत्।
(ii) स: गुरुम् उपगम्य मनसः, प्राणस्य वाचः च विषये प्रश्नानि पृच्छति।
(iii) भगवन् मनः किमस्ति?
(iv) गुरुः कथयति-सौम्य! आश्यमानस्य अन्नस्य यः अणिमा अंशः सः एव मनः भवति।
(v) पुनः शिष्यः पृच्छति-गुरुवर! प्राणश्च कः?
(vi) गुरुः आरुणिः वदति-पीयमानानाम् अपाम् यः अणिमा ऊर्ध्वः समुदीषति स एव प्राणः भवति।
(vii) भगवन्! कथयतु भवान् यत् वाक् च कः कथ्यते?
(viii) वत्स! अश्यमानस्य तेजसः च अणिमा भागः ऊर्ध्वः उद्गच्छति सा एव वाक् भवति।


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः
1. इदम् – रहस्यम्
2. यः – वाक्
3. व्याख्यातम् – मनः
4. सा – प्राणः
5. अन्नमयम् – वाणी
6. अपोमयः – मनः
7. तेजोमयी – अणिष्ठः
8. अन्नमयम् – मनः

Answer

Answer:
‘क’ स्तम्भः – ‘ख’ स्तम्भः
1. इदम् – मन:
2. यः – अणिष्ठः
3. व्याख्यातम् – रहस्यम्
4. सा – वाक्
5. अन्नमयम् – मनः
6. अपोमयः – प्राणः
7. तेजोमयी – वाणी
8. अन्नमयम् – मनः


‘अ’ वर्गस्य विपर्ययपदानि ‘ब’ वर्गे दत्तैः पदैः सह मेलयत

‘अ’ वर्गः – ‘ब’ वर्गः
1. श्रोतुम् – असम्यक्
2. रहस्यम् – अवधीतम्
3. अन्ते – सर्वम्
4. सौम्यः – अधः
5. सम्यक् – वक्तुम्
6. भूयः – लघिष्ठः
7. ऊर्ध्वम् – प्राकटम्
8. अनवधीतम् – आरम्भे
9. किञ्चित् – चञ्चलः
10. गरिष्ठः – एकवारम्

Answer

Answer:
‘अ’ वर्गः – ‘ब’ वर्गः
1. श्रोतुम् – वक्तुम्
2. रहस्यम् – प्राकटम्
3. अन्ते – आरम्भे
4. सौम्यः – चञ्चलः
5. सम्यक् – असम्यक्
6. भूयः – एकवारम्
7. ऊर्ध्वम् – अधः
8. अनवधीतम् – अवधीतम्
9. किञ्चित् – सर्वम्
10. गरिष्ठः – लघिष्ठः।


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Chapter 12 वाडमनःप्राणस्वरूपम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit वाडमनःप्राणस्वरूपम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 9 Sanskrit Chapter 12 वाडमनःप्राणस्वरूपम् with Answers Read More »

MCQ Questions for Class 9 Sanskrit Chapter 11 पर्यावरणम् with Answers

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Chapter 11 पर्यावरणम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the पर्यावरणम् Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these पर्यावरणम् objective questions.

पर्यावरणम् Class 9 MCQs Questions with Answers

Practicing the Class 9 Sanskrit Chapter 11 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of पर्यावरणम् Class 9 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 9 Sanskrit पर्यावरणम् MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितान् गद्यांशान् पठित्वा प्रश्नान् उत्तरत

(क) प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः, सुखसाधनैः च तर्पयति। पृथिवी, जलम्, तेजः, वायुः, आकाशः च अस्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आवियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्।

Question 1.
‘पुष्णाति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सर्वान्
(ख) इयम्
(ग) विविधैः
(घ) प्रकारैः

Answer

Answer: (ख) इयम्


Question 2.
‘तानि एव’ अत्र ‘तानि’ सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) जलाय
(ख) पर्यावरणाय
(ग) प्रमुखतत्त्वेभ्यः
(घ) प्रमुखतत्त्वानि

Answer

Answer: (ग) प्रमुखतत्त्वेभ्यः


Question 3.
‘आपः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) वायुः
(ख) तेजो
(ग) जलम्
(घ) परितः

Answer

Answer: (ग) जलम्


Question 4.
‘प्राणिनाम्’ इति पदस्य विशेषणपदं किम्?
(क) सर्वेषां
(ख) प्रकृतिः
(ग) यतते
(घ) संरक्षणाय

Answer

Answer: (क) सर्वेषां


Question 5.
का सर्वान् सुखसाधनैः तर्पयति?

Answer

Answer: प्रकृतिः


Question 6.
प्रकृतिः केषाम् संरक्षणाय यतते?

Answer

Answer: प्राणिनां


Question 7.
प्रकृतेः प्रमुखानि तत्त्वानि कानि सन्ति?

Answer

Answer: पृथिवी, जलं, वायुः, तेजः, आकाशः च प्रकृतेः प्रमुखतत्त्वानि सन्ति।


(ख) अत एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म। यतो हि वने सुरक्षितं पर्यावरणमुपलभ्यते स्म। तत्र विविधा विहगाः कलकूजिश्रोत्ररसायनं ददति। सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति। वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति। शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायु वितरन्ति।

Question 1.
‘समुपहरन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सरितः
(ख) लताः
(ग) वृक्षाः लताः च
(घ) फलानि

Answer

Answer: (ग) वृक्षाः लताः च


Question 2.
लोकमङ्गलशंसिनः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) पर्यावरणम्
(ख) वने
(ग) उपलभ्यते
(घ) ऋषयः

Answer

Answer: (घ) ऋषयः


Question 3.
‘खगाः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) विहगाः
(ख) सरितः
(ग) विविधाः
(घ) यतः

Answer

Answer: (क) विहगाः


Question 4.
‘मलिनं’ इति पदस्य विलोमपदं किम्?
(क) कल्पं
(ख) निर्मलं
(ग) रसायनं
(घ) अमृत

Answer

Answer: (ख) निर्मलं


Question 5.
विविधाः विहगाः कलकूजितैः किम् ददाति?

Answer

Answer: श्रोत्ररसायनं


Question 6.
कीदृशाः ऋषयः वने निवसन्ति स्म?

Answer

Answer: लोकमङ्गलाशंसिनः


Question 7.
के निर्मलं जलं प्रयच्छन्ति?

Answer

Answer: सरितः गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति।


(ग) परन्तु स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति। जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथाऽपेयं जायते। मानवाः व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति। तस्मात् अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति।

Question 1.
‘वस्तूनि’ इति विशेष्यपदस्य विशेषणपदं किम्?
(क) बहुमूल्यानि
(ख) स्वल्प
(ग) लाभाय
(घ) नाशयन्ति

Answer

Answer: (क) बहुमूल्यानि


Question 2.
‘वनपश्वश्च’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) शरणरहिता
(ख) उपद्रवं
(ग) विदधति
(घ) ग्रामेषु

Answer

Answer: (ग) विदधति


Question 3.
‘अवर्षणः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) वृक्षाः
(ख) अवृष्टिः
(ग) रहिता
(घ) नाशो

Answer

Answer: (ख) अवृष्टिः


Question 4.
‘पेयं’ इति पदस्य विलोमपदं किं प्रयुक्तम्?
(क) ऽपेयं
(ख) अपेयं
(ग) थाऽपेयं
(घ) पेय

Answer

Answer: (ख) अपेयं


Question 5.
नदीजलम् सर्वथा कीदृशम् जायते?

Answer

Answer: अपेयम्


Question 6.
स्वार्थान्धः मानवः किम् नाशयति?

Answer

Answer: पर्यावरणम्


Question 7.
विषाक्तजलेन किम् भवति?

Answer

Answer: विषाक्तजलेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशः जायते। नदीजलम् अपि सर्वथा अपेयं भवति।


अधोलिखितकथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्

(i) प्रकृतिः प्राणिनां संरक्षणाय यतते।
(ii) प्रकृतिः सुखसाधनैः सर्वान् तर्पयति।
(ii) प्रकृतिः अस्माभिः रक्षणीया।
(iv) प्राचीनकाले ऋषयः वने वसन्ति स्म।
(v) स्वार्थान्धः मानवः पर्यावरणम् नाशयति।
(vi) स्वल्पलाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति।
(vii) सरितः निर्मलं जलं यच्छन्ति।
(viii) प्रकृतिरक्षया लोकरक्षा सम्भवति।

Answer

Answer:
(i) प्रकृतिः केषाम् संरक्षणाय यतते?
(ii) प्रकृतिः कैः सर्वान् तर्पयति?
(iii) प्रकृतिः काभिः रक्षणीया?
(iv) कदा ऋषयः वने वसन्ति स्म?
(v) कीदृशः मानवः पर्यावरणम् नाशयति?
(vi) किमर्थम् जनाः बहुमूल्यानि वस्तूनि नाशयन्ति?
(vii) के निर्मलं जलं यच्छन्ति?
(viii) कया लोकरक्षा सम्भवति?


अधोलिखितवाक्येषु रेखांकितपदानां कृते उचितं अर्थं चित्वा लिखत

Question 1.
अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति।
(क) अनुत्पन्नजातकः
(ख) अजातशत्रुः
(ग) जातकाः
(घ) प्रसन्नशिशुः

Answer

Answer: (क) अनुत्पन्नजातकः


Question 2.
विविधाः विहगाः कलकूजितैः श्रौत्ररसायनं ददति।
(क) श्रोतव्यम्
(ख) श्रोतुम्
(ग) कर्णाभूषणम्
(घ) कर्णामृतम्

Answer

Answer: (घ) कर्णामृतम्


Question 3.
लोकमङ्गलाशंसिनः ऋषयः वने वसन्ति स्म।
(क) लोककल्याणकामाः
(ख) लोकमङ्गलम्
(ग) लोकशासकाः
(घ) समाजसुधारकाः

Answer

Answer: (क) लोककल्याणकामाः


Question 4.
जलप्लावनैः मानवाः सन्तप्ताः भवन्ति।
(क) जलप्रवाहेन
(ख) जलं वहति
(ग) जलपूर्णः
(घ) जलौधैः

Answer

Answer: (घ) जलौधैः


Question 5.
यन्त्रागाराणां जलं नद्यां निपात्यते।
(क) यन्त्रालयानाम्
(ख) यन्त्रैः निर्मितं
(ग) यन्त्रैः चालितं
(घ) यन्त्रस्यआगारम्

Answer

Answer: (क) यन्त्रालयानाम्


अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

दानवः, पृथिवी, मलिनं, उत्थानः, शीतलं

पदानि – विलोमशब्दाः
(क) निर्मलं – ……………..
(ख) मानवः – ………………
(ग) आकाशः – ……………….
(घ) नाशः – …………………
(ङ) ऊष्णं – ………………

Answer

Answer:
पदानि – विलोमशब्दाः
(क) निर्मलं – मलिनम्
(ख) मानवः – दानवः
(ग) आकाशः – पृथिवी
(घ) नाशः – उत्थानः
(ङ) ऊष्णं – शीतलम्


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Chapter 11 पर्यावरणम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit पर्यावरणम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 9 Sanskrit Chapter 11 पर्यावरणम् with Answers Read More »

MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the शुचिपर्यावरणम् Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these शुचिपर्यावरणम् objective questions.

शुचिपर्यावरणम् Class 10 MCQs Questions with Answers

Practicing the Class 10 Sanskrit Chapter 1 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of शुचिपर्यावरणम् Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit शुचिपर्यावरणम् MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितश्लोकान् पठित्वा निर्देशानुसार प्रश्नान् उत्तरत

दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्।

Question 1.
‘अहर्निशम्’ इति पदस्य पर्यायपदम् किम्?
(क) अनिशं
(ख) दनिशं
(ग) चलदनिशं
(घ) निशम्

Answer

Answer: (क) अनिशं


Question 2.
‘दशनैः’ इति पदस्य विशेषणपदं किम्?
(क) दुर्दान्त
(ख) दुर्दान्तैः
(ग) दान्तैः
(घ) रमुना

Answer

Answer: (ख) दुर्दान्तैः


Question 3.
‘सुकरम्’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) शरणम्
(ख) दुर्वहम्
(ग) दुर्व
(घ) शुचि

Answer

Answer: (ख) दुर्वहम्


Question 4.
‘भ्रमति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) वक्रम्
(ख) मनः
(ग) तनुः
(घ) कालायसचक्रम

Answer

Answer: (घ) कालायसचक्रम


Question 5.
दुर्दान्तैः दशनैः किम् न स्यात्?

Answer

Answer: जनग्रसनम्


Question 6.
अत्र जीवितं कीदृशं जातम्?

Answer

Answer: दुर्वहम्


Question 7.
कालायसचक्रम् महानगरमध्ये किम् करोति?

Answer

Answer: कालायसचक्रम् महानगरमध्ये चलत् अनिशं मनः शोषयत् तनुः पेषयद् सदा वक्रम् भ्रमति।


कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्॥

Question 1.
‘कज्जलमलिनं’ इति पदस्य विशेष्यपदं किम्?
(क) यानम्
(ख) धूमं
(ग) ध्वानम्
(घ) शकटीयानम्

Answer

Answer: (ख) धूमं


Question 2.
‘ग्रहणाति’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) वितरन्ती
(ख) मुञ्चति
(ग) ध्वानम्
(घ) संसरणम्

Answer

Answer: (ख) मुञ्चति


Question 3.
‘पङक्तिः इत्यर्थे किम् पदं प्रयुक्तम्?
(क) माला
(ख) अनन्ताः
(ग) पङ्क्ताः
(घ) ध्वानम्

Answer

Answer: (क) माला


Question 4.
‘शतशकटीयानम्-धूमं मुञ्चति।’ रिक्तपूर्तिः क्रियताम्
(क) कज्जल
(ख) मलिनं
(ग) ध्वानम्
(घ) कज्जलमलिनम्

Answer

Answer: (घ) कज्जलमलिनम्


Question 5.
केषाम् अनन्ताः पङ्क्तयः धावन्ति?

Answer

Answer: यानानां


Question 6.
किम् धूमं मुञ्चति?

Answer

Answer: शतशकटीयानम्


Question 7.
कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?

Answer

Answer: महानगरेषु यानानां अनन्ताः पङ्क्तः सन्ति अतः अत्र संसरणम् कठिनं वर्तते।


कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्॥
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्।

Question 1.
‘कान्तारे’ इति पदस्य विशेषणपदं किम्?
(क) एकान्ते
(ख) ग्राम
(ग) ग्रामान्तरे
(घ) क्षणमपि

Answer

Answer: (क) एकान्ते


Question 2.
‘जलं’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) कालं
(ख) नय
(ग) पयः
(घ) पूरम्

Answer

Answer: (ग) पयः


Question 3.
श्लोकस्य प्रथमे पंक्तौ क्रियापदम् किम्?
(क) किञ्चित्
(ख) कालं
(ग) माम्
(घ) नय

Answer

Answer: (घ) नय


Question 4.
कविः एकान्ते कान्तारे सञ्चरणम् कर्तुम्। रिक्तपूर्तिः कुरुत
(क) इच्छामि
(ख) स्यात्
(ग) इच्छति
(घ) ऐच्छन्।

Answer

Answer: (ग) इच्छति


Question 5.
निर्झर-नदी-पयःपूरम् कुत्र सन्ति?

Answer

Answer: ग्रामान्ते


Question 6.
कविः कस्मात् बहुदूरम् गन्तुम् कथयति?

Answer

Answer: नगरात्


Question 7.
कविः कुत्र सञ्चरणम् कर्तुम् कथयति?

Answer

Answer: कविः एकान्ते कान्तारे शुद्धपर्यावरणे सञ्चरणम् कर्तुम् कथयति।


प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा॥
मानवाय जीवनं कामये नो जीवन्मरणम्।

Question 1.
‘भवन्तु’ इति क्रियापदस्य कर्तृपदं किम्?
(क) प्रस्तरतले
(ख) पिष्टा
(ग) लतातरुगुल्माः
(घ) लता

Answer

Answer: (ग) लतातरुगुल्माः


Question 2.
‘प्रकृत्याम्’ इति पदस्य समानार्थकपदं किम्?
(क) निसर्गे
(ख) प्रस्तरतले
(ग) पाषाणी
(घ) सभ्यता

Answer

Answer: (क) निसर्गे


Question 3.
‘जीवनं’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) पिष्टाः
(ख) समाविष्टा
(ग) मरणम्
(घ) स्यात्

Answer

Answer: (ग) मरणम्


Question 4.
‘पाषाणी सभ्यता – समाविष्टा न स्यात्।’ रिक्तपूर्तिः कुरुत
(क) प्रस्तरतले
(ख) संसारे
(ग) निसर्ग
(घ) ग्रामे

Answer

Answer: (ग) निसर्ग


Question 5.
लतातरुगुल्माः कुत्र न पिष्टाः भवन्तु?

Answer

Answer: प्रस्तरतले


Question 6.
कस्मै जीवनं कामये?

Answer

Answer: मानवाय


Question 7.
निसर्गे का पाषाणी सभ्यता समाविष्टा न स्यात्?

Answer

Answer: निसर्गे पाषाणी सभ्यता समाविष्टा न स्यात्।


अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्

(i) प्रस्तरतले लतातरुगुल्माः पिष्टाः न भवन्तु।
(ii) मानवाय जीवनं कामये।
(iii) अस्मात् नगरात् बहुदूरम् माम् नय।
(iv) वायुमण्डलं दूषितं जातम्।
(v) वाष्पयानमाला ध्वानं वितरन्ती संधावति।
(vi) दुर्दान्तैः दशनैः जनग्रसनं न स्यात्।
(vii) एकान्ते कान्तारे क्षणम् अपि मे सञ्चरणम् स्यात्।

Answer

Answer:
(i) प्रस्तरतले के पिष्टाः न भवन्तु?
(ii) कस्मै जीवनं कामये?
(iii) कस्मात् बहुदूरम् माम् नय?
(iv) वायुमण्डलं कीदृशं जातम्?
(v) का ध्वानं वितरन्ती संधावति?
(vi) कीदृशैः दशनैः जनग्रसनम् न स्यात्?
(vii) कुत्र क्षणम् अपि मे सञ्चरणम् स्यात्?


अधोलिखितश्लोकानाम् अन्वयानाम् समुचितपदानि चित्वा पूरयत

(1) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्। शुचि-पर्यावरणम्।।
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्।।
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्।

अन्वयः- अत्र जीवितं (i) …………. जातम् प्रकृतिः (ii) ………….. शरणम्। शुचि-पर्यावरणं (भवेत्)। महानगरमध्ये (iii) ……………. चलत् कालायसचक्रम् मनः (iv) …………….. तनुः (v) ……………. सदा वक्रम् (vi) …………..। अमुना दुर्दान्तैः (vii) …………… जनग्रसनम् न एव। (viii) …….।
मञ्जूषा- अनिशं, स्यात्, शोषयत्, दुर्वहम्, भ्रमति, एव, पेषयद्, दशनैः

Answer

Answer:
अत्र जीवितं दुर्वहम् जातम् प्रकृतिः एव शरणम्। शुचि-पर्यावरणं (भवेत्)। महानगरमध्ये अनिशं चलत् कालायसचक्रम् मनः शोषयत् तनु पेषयद् सदा वक्रम् भ्रमति। अमुना दुर्दान्तैः दशनैः जनग्रसनम् न एव स्यात्।


(2) कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्।।
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्।

अन्वयः- शतशकटीयानम् (i) ……………… धूमं मुञ्चति। ध्वानं (ii) ……………… वाष्पयानमाला संधावति। हि यानानां (iii) …………………. पङ्क्त यः (iv) …………………. संसरणम्।
मञ्जूषा- अनन्ताः, कठिन, वितरन्ती, कज्जलमलिनम्

Answer

Answer:
शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति। ध्वानं वितरन्ती वाष्पयानमाला संधावति। हि यानानां अनन्ताः पङ्क्तयः कठिनं संसरणम्।


(3) कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्।।
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्।।

अन्वयः- अस्मात् (i) ……………. बहुदूरम् (ii) …………….. कालं (iii) ………………. नय। ग्रामान्ते निर्झर-(iv) ………………… पय:पूरम् (v) ………………..”। एकान्ते (vi) ………………… क्षणम् (vii) ………………. में सञ्चरणम् (viii) ……..
मञ्जूषा- नदी, स्यात्, प्रपश्यामि, अपि, कान्तारे, नगरात्, माम्, कञ्चित्

Answer

Answer:
अस्मात् नगरात् बहुदूरम् कञ्चित् कालं माम् नय। ग्रामान्ते निर्झर-नदी पयःपूरम् प्रपश्यामि। एकान्ते कान्तारे क्षणम् अपि मे सञ्चरणम् स्यात्।।


अधोलिखितकथनानाम् भावं विकल्पेभ्यः चित्वा लिखत

(क) ‘दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।’

भावार्थ:-अस्य भावः अस्ति यत् अद्यत्वे प्रदूषिते (i) ………… मानवाय जीवनं (ii) …………. जातम् अतः पर्यावरणं (iii) …………. स्वच्छं च करणीयं यतः प्रकृते: (iv) ……………. एव सुरक्षितम् आश्रयम् अस्ति।
मञ्जूषा- शरणम्. दुष्करम्, पर्यावरण, शुद्धम्

Answer

Answer:
(i) पर्यावरणे, (ii) दुष्करम्, (iii) शुद्धम्, (iv) शरणम्


(ख) ‘यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्।’

भावार्थ:- आधुनिक युगे (i) ………… .मार्गेषु विविधयानानां (ii) ………… धूम मुञ्चन्ति (iii) ……………… च धावन्ति अतएव तत्र चलनं गगनं च (iv) …………. वर्तते।
मञ्जूषा- कताराः, तीव्रगत्या, कठिनं, महानगरेषु

Answer

Answer:
(i) महानगरेषु, (ii) कताराः, (iii) तीव्रगत्या, (iv) कठिनं


(ग) “एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्।’

भावार्थ:-कविः प्रदूषितमहानगरात् (i) ……………. गत्वा प्राकृतिक वातावरणे (ii) …………….. शान्ते एकान्ते (iii) ………….. “चलितुम् (iv) …………………।
मञ्जूषा- वाञ्छति, वने, गत्वा, बहुदूरम्।

Answer

Answer:
(i) बहुदूरम्, (ii) गत्वा, (iii) वने, (iv) वाञ्छति


रेखांकितपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थ चित्वा लिखत

Question 1.
पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात्।
(क) प्रकृतिः
(ख) धरातलं
(ग) नीरसता
(घ) प्रकृत्याम्

Answer

Answer: (घ) प्रकृत्याम्


Question 2.
अत्र जीवितं दुर्वहम् जातम्।
(क) दुष्करम्
(ख) सुखकरं
(ग) सुकरं
(घ) दु:खद

Answer

Answer: (क) दुष्करम्


Question 3.
महानगरमध्ये अनिशं कालायसचक्रम् चलति।
(क) निशायाम्
(ख) दिवा
(ग) अहर्निशम्
(घ) निशम्य

Answer

Answer: (ग) अहर्निशम्


Question 4.
तनुः पेषयद् सदा वक्रम् भ्रमति।
(क) पुत्रः
(ख) जीव:
(ग) पुत्रं
(घ) शरीरम्

Answer

Answer: (घ) शरीरम्


Question 5.
दुर्दान्तैः दशनैः जनग्रसनम् न स्यात्।
(क) दंशः
(ख) दन्तैः
(ग) मुखैः
(घ) दशनैः

Answer

Answer: (घ) दशनैः


Question 6.
एकान्ते कान्तारे मे सञ्चरणम् स्यात्।
(क) नारी
(ख) नगरे
(ग) ग्राम
(घ) वने

Answer

Answer: (ख) नगरे


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत

(क) – (ख)
(i) वक्रम् – ऋजुः
(ii) भृशम् – अभक्ष्यम्
(iii) समलं – मरणम्
(iv) भक्ष्यं – स्वल्पम्
(v) जीवन – निर्मलम्

Answer

Answer:
(क) – (ख)
(i) वक्रम् – ऋजुः
(ii) भृशम् – स्वल्पम्
(iii) समलं – निर्मलम्
(iv) भक्ष्य – अभक्ष्यम्
(v) जीवनं – मरणम्


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit शुचिपर्यावरणम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers Read More »

error: Content is protected !!