CBSE Sample Papers for Class 10 Sanskrit Paper 1 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 1.
CBSE Sample Papers for Class 10 Sanskrit Paper 1
Board | CBSE |
Class | X |
Subject | Sanskrit |
Sample Paper Set | Paper 1 |
Category | CBSE Sample Papers |
Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 1 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.
समय: होरात्रयम्
पूर्णाङ्काः 80
निदेशाः
- प्रश्नपत्रं चत्वारः खण्डाः सन्ति
- खण्ड: (क) अपठित-अवबोधनम् 10 अङ्कः
- खण्ड: (ख) रचनात्मकं-कार्यम् 15 अङ्काः
- खण्ड: (ग) अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- खण्डः (घ) पठित-अवबोधनम् 30 अङ्काः
- सर्वे प्रश्नाः अनिवार्याः।
- प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
- प्रश्नसंख्या अवश्यमेव लेखनीया।
- उत्तराणि संस्कृतेनैव लेखनीयानि।
खण्डः ‘क’- अपठित-अवबोधनम्
प्रश्न 1:
अधोलिखितम् अनुच्छेदद्वयं पठित्वा तदाधारितान् प्रश्नान् उत्तरपुस्तिकायाम् उत्तरत – (10)
एकदा कश्चन वृद्धः कृषक: मन्दिरम् आगतवान्। ग्रामीणस्य तस्य वस्त्राणि जीर्णानि विच्छिन्नानि च आसन्। सः अतीव निर्धनः आसीत्। तस्य पाश्र्वे स्वल्पं पिष्टम् एकः कम्बलः च आसीत्। मन्दिरस्य पुरतः धनिकाः निर्धनेभ्य: वस्त्राणि, मिष्ठान्नानि, अन्यवस्तूनि च वितरन्ति स्म। तदा एव कश्चन कुष्ठरोगपीडितः मन्दिरात् अनतिदूरे पीडया आर्तनादं करोति स्म। सः चलितुम् अपि न शक्नोति स्म। तस्य सम्पूर्ण शरीरे व्रणाः आसन्। सः बुभुक्षितः आसीत्। परन्तु जनाः तस्य उपरि दृष्टिपातं अपि न कुर्वन्ति स्म। मन्दिरं गच्छन् सः वृद्धकृषक: तं दृष्ट्वा दयार्द्रः भूत्वा तस्य समीपं गतवान्। सर्वप्रथमं तस्य व्रणान् स्वच्छीकृतवान्। ततः तस्मै भोजनार्थं पिष्टं दत्त्वा स्वकीयेन कम्बलेन तस्य शरीरम् आच्छादितवान्। तदनन्तरम् सः मन्दिरं गतवान्। सत्यमुक्तम्-परोपकारार्थमिदं शरीरम्।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- कुष्ठरोगपीडितस्य शरीरे के आसन् ?
- कः दयार्द्रः अभवत् ?
(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
- वृद्धकृषकस्य पाश्र्वे किम् आसीत् ?
- मन्दिरस्य पुरतः धनिकाः किम् कुर्वन्ति स्म?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. अस्मिन् गद्यांशे ‘वस्त्राणि’ इति पदस्य किम् विशेषणपदं प्रयुक्तम् ?
(क) अन्यवस्तूनि
(ख) जीर्णानि
(ग) मिष्ठान्नानि
(घ) स्वकीयेन
2. तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) कृषकाय
(ख) निर्धनाय
(ग) कुष्ठरोगपीडिताय
(घ) धनिकाय
3. ‘कुर्वन्ति स्म’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) जनाः
(ख) व्रणाः
(ग) धनिकाः
(घ) निर्धनाः
4. ‘पृष्ठतः’ इति अव्ययपदस्य किम् विपर्ययः अत्र प्रयुक्तम् ?
(क) पाश्र्वे
(ख) कश्चन
(ग) पुरतः
(घ) तदनन्तरम्।
(IV) अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
खण्डः ‘ख’- रचनात्मकं कार्यम्
प्रश्न 2:
पितुः परीक्षाविषयकं जिज्ञासां शमयितुम् पितरं प्रति लिखितं पत्रं मञ्जूषातः उचितपदान् विचित्य रिक्तस्थानानि पूरयत। (1/2 × 10 = 5)
माडलविद्यालय छात्रावासः
(1) ………..
तिथिः …………..
पूज्य (2) …………….!
(3) ………….. !
अद्यैव मया भवदीयं (4) ………. प्राप्तम्। भवतः मम (5) ………… अतीव जिज्ञासा प्रतीयते । निरंतरम् अभ्यासेन सर्वेषाम् प्रश्नपत्राणाम् उत्तराणि सम्यक् रूपेण दत्तानि। (6) …………. आशीर्वादेन न केवलं प्रथमश्रेण्याम् (7) …………. भविष्यामि (8) ……………. अपि प्रथमं (9) ……………… लप्स्ये।
मातृचरणयोः सादरं नमस्कारम् !
(10) …………. पुत्रः
अनुजः।
मञ्जूषा- पत्रम्, सफलः, पितृमहोदय !, स्थानम्, कक्षायाम्, सादरं प्रणामाः, भवदाज्ञाकारी, परीक्षा-विषये, भवताम्, दिल्लीतः।
प्रश्न 3:
चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया संस्कृते पञ्चवाक्यानि उत्तरपुस्तिकायाम् लिखत- (10)
मञ्जूषा – मञ्चे, मृगराजः सिंहः, पशवः, शाखायाम्, जन्तुसभा, शुकः, ध्यानेन, मुकुटम्, अधः।
अथवा
‘मम मित्रम्’ इति विषयं अधिकृत्य मञ्जूषायाः सहायतया पञ्चवाक्यानि संस्कृते लिखत।
मजूषा – अनेके गुणाः, अनुशासनप्रियः, उदारः, सत्यवादी, गर्वम्, प्रथमंस्थानं, निपुणः,विश्वसनीयः, आदरम्, विनम्रः।
खण्डः’ग’-अनुप्रयुक्तव्याकरणम्
प्रश्न 4:
अधोलिखितेषु वाक्येषु स्थूलपदेषु सन्धिविच्छेदम् अथवा सन्धिं कृत्वा पुनः लिखत – (4)
- अस्य नाटकस्य नायकः कः अस्ति ?
- वृक्षैः वातावरणं स्वच्छं भवति।
- विद्यालये बालाः + नमन्ति।
- गुरुः + ब्रह्मा अस्ति।
प्रश्न 5:
निम्नलिखित प्रश्नानाम् उत्तराणि तदधस्ताद् दत्तानि। एतेषु उत्तरेषु समासम् अथवा विग्रहं कृत्वा पुनः लिखत – (4)
- प्रश्नः – कान् दृष्ट्वा मयूराः नृत्यन्ति ? उत्तरम् – कृष्णान् मेघान्।
- प्रश्नः – सः अहम् कौ वन्दे? उत्तरम् – सूर्यदर्शनम्
- प्रश्नः – अहम् कौ वन्दे? उत्तरम् – मातापितरौ।
- प्रश्नः – हरिद्वार: कुत्र अस्ति? उत्तरम् – गङ्गायाः समीपम्।
प्रश्न 6:
अधोलिखितेषु वाक्येषु स्थूलपदानां “प्रकृतिः प्रत्ययः” च पृथक्-पृथक् कृत्वा अथवा संयोज्य पुनः लिख्यताम् – (4)
- एतौ बालकौ (विवदमानौ) आगच्छतः।
- स्वाध्यायः अस्माकं (दिन + ठक्) कर्तव्यः।
- नृपेण प्रजा ( पाल् + अनीयर् )।
- (बाल + टाप्) बालाभिः सह क्रीडति।
प्रश्न 7:
(अ) मञ्जूषायाम् दत्तैः अव्ययपदैः अधोलिखितम् अनुच्छेदं पूरयित्वा पुनः लिखत – (2)
नूनम्, कुत्रापि, बहिः, सहसा।
रात्रौ द्वादशवादनवेलायाम् …………………. कोलाहलः अभवत्। अहम् गृहात्। ………. कस्यापि गृहे चौरकार्यं अभवत्। चौरः तु …………… न दृष्टः।
(ब) उचितेन अव्ययपदेन रिक्तस्थानानि पूरयित्वा लिखत – (2)
- ह्यः सोमवासरः आसीत्। ….. बुधवासरः भविष्यति।
- यदा सूर्यः उदेति ……………. तमः नश्यति।
- ………………. क्रिकेटक्रीड़ा वर्तते तत्र दर्शकाः सन्ति।
- …………………. स्थास्यन्ति गिरयः तावत् रामायणीकथा प्रचारिष्यति।
प्रश्न 8:
अधोलिखितं संवादं वाच्यानुसारं पूरयित्वा पुनः लिखत – (3)
देवेन्द्रः – मित्र! पश्य, पश्य। कृषकाः क्षेत्रे किं …………..?
सुरेन्द्रः – …………… तु क्षेत्रे बीजानि उप्यन्ते।
देवेन्द्रः – आम्! कृषकाः एव अन्नानि उत्पाद्य अस्मान् …………….।
सुरेन्द्रः – सत्यम् ! कृषकैः एव वयं पालयामहे।
प्रश्न 9:
घटिकां दृष्ट्वा लिखत यत् रामः कतिवादने किम् करोति ? (2)
- रामः (9.45) ……………. दुग्धं पिबति ।
- रामः (5.15) ………… क्रीडति।
प्रश्न 10:
अधोलिखिते अनुच्छेदे काश्चन अशुद्धयः सन्ति। स्थूलपदानां संशोधनं कृत्वा वाक्यानि पुनः लिखत – (4)
- यूयम् सदैव सत्यम् मधुरम् च वद।
- असत्यभाषणे बहवः दोषानि सन्ति।
- सत्यवादिनः सदैव भयरहितः तिष्ठन्ति।
- अधुना सत्यस्य महती आवश्यकता वर्तन्ते।
खण्डः ‘घ’-पठित-अवबोधनम्
प्रश्न 11:
अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत – (6)
(अ) एतत् कुण्डम् तु लोहितनद्याः किञ्चिद्-दूरे अस्ति। पूर्वम् इदं ब्रह्मकुण्डम् आसीत्। इदं लोहितनद्याः उद्गमस्थलम् इति मन्यते। अत्र अनेकानि अन्यानि दर्शनीयानि स्थलानि अपि सन्ति। अस्माकं पर्यटन विभागेन प्रकाशिताम् केषाञ्चित् प्रसिद्धस्थलानां सूचीं पठित्वा ज्ञायताम् इमानि पर्यटनस्थलानि।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- अत्र अनेकानि कीदृशानि स्थलानि सन्ति ?
- इदं कस्याः उद्गमस्थलम् मन्यते ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
अरुणाचलप्रदेशस्य पर्यटनस्थलानि कथं ज्ञायते ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
- ‘इदं’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
- गद्यांशे ‘नातिदूरे’ इति पदस्य कः पर्यायः प्रयुक्तः?
- आसीत् क्रियापदस्य कर्तृपदम् किम् ?
- गद्यांशे ‘सूचीम्’ इति पदस्य विशेषणपदं किम् ?
(आ) प्रकृतेः इमं संवादं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (6)
प्रकृतिः- (सस्नेहम्) अलम् अलं मिथः कलहेन। अहम् प्रकृतिः एव युष्माकं जननी। यूयं सर्वे एव मम प्रियाः। सर्वेषामेव महत्त्वं विद्यते यथासमयम्। सर्वे एव में शोभा। न तावत् कलहेन समयं वृथा यापयेत । मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम्। सर्वे मिलित्वा गायन्ति –
अधुना रमणीया हि सृष्टिरेषा जगत्पतेः।
जीवाः सर्वेऽत्र मोदन्तो भावयन्तः परस्परम्॥
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- केन समयः वृथा ने यापयितव्यः ?
- का सर्वेषाम् जननी ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
सर्वे मिलित्वा किं गायन्ति ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
1. अस्मिन संवादे ‘मम’ इति पदम् कस्मै प्रयुक्तम् ?
(क) जनन्ये
(ख) प्रकृत्ये
(ग) शोभायै
2. अत्र ‘गायन्ति’ क्रियापदस्य कर्तृपदं किम् ?
(क) खगाः
(ख) वृक्षाः
(ग) सर्वे
3. अत्र ‘ईश्वरस्य कृते’ किम् पर्यायपदं प्रयुक्तम् ?
(क) जीवस्य
(ख) जगत्पतेः
(ग) प्रकृतेः
4. अत्र ‘रमणीया’ इति विशेषणपदस्य विशेष्य पदं किम्?
(क) सृष्टिः
(ख) प्रकृतिः
(ग) जीवाः
(इ) अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत –
विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिता।
अन्येषां वदने ये तु ते चक्षुर्नामनी मते।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
- लोकेऽस्मिन् के चक्षुष्मन्तः प्रकीर्तिताः?
- अन्येषां वदने के नामनी मते ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
अस्मिन् लोके विद्वांसः कीदृशाः प्रकीर्तिताः?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
- ‘लोकेऽस्मिन् अत्र विशेष्यपदं किम् ?
- ‘मुखे’ अस्य पर्यायवाचिपदं श्लोकात् चित्वा लिखत।
- मूर्खाः’ अस्य विलोमपदं पद्यात् विचित्य लिखत।
- ‘ते चक्षुष्मन्तः प्रकीर्तिताः’ अत्र क्रियापदं किम् ?
प्रश्न 12:
अधोलिखितश्लोकयोः अन्वयम् उचितपदक्रमेण लिखत – (4)
(अ) ध्यायतः विषयान् पुंसः संगस्तेषूपजायते।
सङ्गात्सञ्जायते कामः कामाक्रोधोऽभिजायते॥
अन्वयः – विषयान् ध्यायतः (1)………… तेषु संगः (2)………….। सङ्गात् (3)………… सञ्जायते, (4)…………… क्रोधः अभिजायते।
(ब) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥
अन्वयः – यथा (1)……………… अवक्रता तथा यदि (2)……………… भवेत्। (3)……………….. तथ्यतः तदेव (4) ………………… इति आहुः।
मञ्जूषा – उपजायते, वाचि, चित्ते, पुंसः, कामः, समत्वम्, कामात्, महात्मानः।
प्रश्न 13:
अधोलिखितकथनेषु स्थूलाक्षरपदानि आधृत्य उदाहरणानुसार प्रश्ननिर्माणं क्रियताम् – (4)
- पतितात् कलशात् विषधरः निर्गतः।
- दानशालासु विचरन् सः राजा अचिन्तयत्।
- सः तु एकाकी एव द्रोणपुत्राय अलम्।
- मैत्री सुखदा भवति।
प्रश्न 14:
उदाहरणं अनुसृत्य प्रसङ्गानुसारम् शुद्धम् अर्थम् चित्वा उत्तरपुस्तिकायाम् लिखत – (4)
I. अपूर्वः कोऽपि कोशोऽयम्।
(i) न पूर्वे
(ii) अद्वितीयः
(iii) पर्वहीनम्
II. परमहम् अखण्ड: शाश्वत: विभुः च।
(i) अध्यापकः
(ii) संस्थापकः
(iii) व्यापकः
III. पापकर्मणा द्रौणिना मे पुत्राः ……..।
(i) द्रोणाचार्येण
(ii) द्रोणपुत्रेण
(iii) द्रोणशिष्येन
IV. किं विषम् ? अवधीरणा गुरुषु।
(i) तिरस्कारः
(ii) अवधारणा
(iii) सधैर्येण
उत्तराणि
खण्डः ‘क’- अपठित-अवबोधनम्
उत्तर 1:
I.
- व्रणाः
- कृषक:
II.
- वृद्धकृषकस्य पावें स्वल्पं पिष्टम् एकः कम्बलः च आसीत्।
- मन्दिरस्य पुरतः धनिकाः निर्धनेभ्यः वस्त्राणि, मिष्ठान्नानि, अन्यवस्तूनि च वितरन्ति स्म।
III.
- (ख) जीर्णानि
- (ग) कुष्ठरोगपीडिताये
- (क) जनाः
- (ग) पुरतः
IV. परोपकारार्थमिदं शरीरम्।
खण्डः ‘ख’- रचनात्मक कार्यम्
उत्तर 2:
- दिल्लीतः
- पितृमहोदय!
- सादरं प्रणामाः
- पत्रम्
- परीक्षा-विषये
- भवताम्
- सफलः
- कक्षायाम्।
- स्थानम्
- भवदाज्ञाकारी
उत्तर 3:
- इदं वटवृक्षस्य अधः जन्तुसभायाः दृश्यं अस्ति।
- मञ्चे मृगराजः सिंहः मुकुटं धारयित्वा उपविशति।
- सः सर्वान् पशून् सम्बोधयति।
- पशवः ध्यानेन तस्य वार्ता शृण्वन्ति।
- वृक्षस्य शाखायाम् शुकः अपि तिष्ठति।
अथवा
(मम मित्रम्)
- राकेशः मम मित्रम् अस्ति।
- तस्मिन् अनेके गुणाः सन्ति।
- सः उदारः सत्यवादी, विश्वासयोगयः, कार्यकुशलः च अस्ति।
- सः पठने अपि सर्वप्रथमं स्थानं लभते, खेलने अपि अतिनिपुणः।
- अहम् स्वमित्रे गर्वं करोमि।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
उत्तर 4:
- नै + अकः
- स्व+ छम्
- बाला नमन्ति
- गुरुर्ब्रह्मा
उत्तर 5:
- कृष्णमेघान्
- सूर्यस्य दर्शनम्
- माता च पिता च
- उपगङ्गम्
उत्तर 6:
- वि+ वद्+ शानच्
- दैनिकः
- पालनीया
- बाला
उत्तर 7:
(अ) सहसा; बहिः ; नूनम्; कुत्रापि।
(ब) श्वः; तदा; यत्र; यावत् ।
उत्तर 8:
- वपन्ति
- कृषकैः
- पालयन्ति
उत्तर 9:
- पादोनदशवादने
- सपादपञ्चवादने
उत्तर 10:
- वदत
- दोषाः
- भयरहिताः
- वर्तते
खण्डः ‘घ’ – पठित-अवबोधनम्
उत्तर 11:
(अ) I.
- दर्शनीयानि
- लोहितनद्याः
II. पर्यटनविभागेन प्रकाशिताम् प्रसिद्धस्थलानां सूचीं पठित्वा इमानि पर्यटनस्थलानि ज्ञायते।
III.
- कुण्डाय
- किञ्चिद्-दूरे
- ब्रह्मकुण्डम्
- प्रकाशिताम्
(आ) I.
- कलहेन
- प्रकृतिः
II. सर्वे मिलित्वा गायन्ति –
- अधुना रमणीया हि सृष्टिरेषा जगत्पतेः।
- जीवाः सर्वेऽत्र मोदन्तो भावयन्तः परस्परम्।
III.
- (ख) प्रकृत्ये
- (ग) सर्वे
- (ख) जगत्पतेः
- (क) सृष्टिः
(इ) I.
- विद्वांसः
- चक्षु
II. अस्मिन् लोके विद्वांसः चक्षुष्मन्तः प्रकीर्तिता।
III.
- लोके
- वदने
- विद्वांसः
- प्रकीर्तिताः
उत्तर 12:
(अ)
- पुंसः
- उपजायते
- कामः
- कामात्
(ब)
- चित्ते
- वाचि
- महात्मानः
- समत्वम्
उत्तर 13:
- कः?
- कुत्र?
- कस्मै?
- कीदृशी?
उत्तर 14:
I. (ii) अद्वितीयः
II. (iii) व्यापकः
III. (ii) द्रोणपुत्रेण
IV. (i) तिरस्कार:
We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 1 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 1, drop a comment below and we will get back to you at the earliest.