CBSE Sample Papers for Class 10 Sanskrit Paper 3

CBSE Sample Papers for Class 10 Sanskrit Paper 3

CBSE Sample Papers for Class 10 Sanskrit Paper 3 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 3.

CBSE Sample Papers for Class 10 Sanskrit Paper 3

Board CBSE
Class X
Subject Sanskrit
Sample Paper Set Paper 3
Category CBSE Sample Papers

Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 3 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.

समय: होरात्रयम्
पूर्णाङ्काः 80

निदेशाः

  1. प्रश्नपत्रं चत्वारः खण्डाः सन्ति
    • खण्ड: (क) अपठित-अवबोधनम्    10 अङ्कः
    • खण्ड: (ख) रचनात्मकं-कार्यम्        15 अङ्काः
    • खण्ड: (ग) अनुप्रयुक्तव्याकरणम्    25 अङ्काः
    • खण्डः (घ) पठित-अवबोधनम्        30 अङ्काः
  2. सर्वे प्रश्नाः अनिवार्याः
  3. प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
  4. प्रश्नसंख्या अवश्यमेव लेखनीया।
  5. उत्तराणि संस्कृतेनैव लेखनीयानि।

खण्डः ‘क’-अपठित-अवबोधनम्

प्रश्न 1:
अधोलिखितम्-अनुच्छेदं पठित्वा अनुच्छेदाधारितान् प्रश्नान् उत्तरपुस्तिकायाम् उत्तरत – (10)
आदिमानवकाले कस्याञ्चित् गुहायां कश्चन अस्वस्थचित्तः मानवः इतस्ततः चलन् आसीत्। पाश्र्वे हस्तौ निबध्य सः चिन्तयन् आसीत् – ‘का नाम शक्तिः एतस्य जगतः सञ्चालनं करोति, प्रकाशं जनयति, ध्वनि निर्माति, गन्धान् सृजति प्रसारयति च? इति। सः मानवः एतेषां प्रश्नानाम् उत्तरं प्राप्तुम् न शक्तः। अहं उच्चतमं स्थानं गत्वा पश्यामि चेत् कदाचित् तस्याः शक्तेः दर्शनं भवेत्’ इति चिन्तयित्वा सः एकम् उन्नतम् गिरिशिखरं गच्छति। तत्र निष्कम्पम् उपविशति। अयं मानवः नेत्रे निमीलयति। सुदीर्घ श्वसनं करोति। तदा अकस्मात् आकाशे मेघः गर्जति। घनगर्जितं पर्वतपृष्ठे पतति, परावर्तते च। प्रतिध्वनिः अधः गच्छति, प्रत्यावर्तते। ऊर्ध्वं गच्छन् सः ध्वनिः क्षीयते । एवं भवति आविष्कारः आदिमस्वरस्य ‘ॐ कारस्य । सहजतया सः मानवः ॐकारनादस्य अनुकरणं करोति।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) सः मानवः कथम् उपविशति ?
(ii) गुहायां कीदृशः मानवः चलन् आसीत् ?

(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
(i) हस्तौ निबध्य मानवः किम् चिन्तयन् आसीत् ?
(ii) किम् चिन्तयित्वा सः गिरिशिखरं गच्छति ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘उन्नतं’ कस्य विशेष्यपदस्य विशेषणम् अस्ति?
(ii) ‘सहसा’ इति अव्ययपदस्य कृते गद्यांशे किम् अव्ययपदम् ?
(iii) ‘क्षीयते’ इति क्रियापदस्य कर्तृपदं किम् ?
(iv) ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?

(IV) अस्य गद्यांशस्य उचितं शीर्षकं लिखत।

खण्डः ‘ख’- रचनात्मकं कार्यम्

प्रश्न 2:
स्वाणुजाय समयस्य सदुपयोगाय लिखितं इदं पत्रं मञ्जूषायां दत्तैः पदैः पूरयित्वा उत्तर-पुस्तिकायाम् पुनः लिखत – (5)

………(1)
तिथिः …………

प्रिय अतुल !
…….(2) आशिषः।
अतुल ! मानवस्य जीवनस्य प्रतिपलं …………..(3) अस्ति। विश्वे प्रकृतेः सम्पूर्णानि कार्याणि नियमितसमये …….. (4)। उचितसमये यदि वृष्टिः न भवेत् तदा सर्वं क्षेत्रं शुष्येत्। तथैव बाल्यकाले यदि छात्रः न पठेत् तदा सः समस्तजीवने ………… (5) करोति । समयः तस्य एव जनस्य कार्येषु सहभागितां करोति यः ……….(6) सदुपयोगं करोति । गते काले शोकः ……….. (7) समयः कदापि कस्यचिदपि च ………… (8) न करोति। अतः सदा समयस्य सदुपयोगः …………….(9)।

भवतः …..(10)
गौरवः।

मञ्जूषा- निरर्थकः, अग्रजः, देहरादूनतः, सप्रेम, करणीयः, महत्वपूर्णम् , पश्चात्तापम्, भवन्ति, प्रतीक्षां, समयस्य।

प्रश्न 3:
चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दानां च संस्कृते पञ्चवाक्यानि लिखत – (10)
CBSE Sample Papers for Class 10 Sanskrit Paper 8 Q.3
मंजूषा
विद्युत्स्तम्भाः, बसयानम्, कृषिभूमिः, राजपथम्, गृहाणि, मार्गे, आधुनिकीकरणम्, ग्रामस्य, यातायातव्यवस्था, वृक्षः।
अथवा
‘संघे शक्तिः’ इति विषयम् अधिकृत्य संस्कृते पञ्चवाक्यानि लिखत।
मञ्जूषा- मानवस्य, प्रगतिः, संहिताः, स्वाधीनता, विदेशीयाः, विनाशस्य, शस्त्रं विना, राष्ट्रस्य।

खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्

प्रश्न 4:
अधोलिखितेषु वाक्येषु स्थूलपदेषु सन्धिच्छेदम् अथवा सन्धिं कृत्वा लिखत – (4)

  1. षडाननः गणेशस्य भ्राता अस्ति।
  2. त्यागेऽपि संतोषः भवति।
  3. नास्ति कः + चित् वाग्विशेषः।
  4. वने सिंहः + गर्जति।

प्रश्न 5:
अधोलिखितेषु वाक्येषु स्थूलपदेषु समासं अथवा विग्रहं कृत्वा लिखत – (4)

  1. ईश्वरः त्रिलोकीनाथः अस्ति।
  2. रामश्च लक्ष्मणश्च वनं अगच्छताम्।
  3. उज्जयिन्यां चन्द्रशेखरस्य देवालयः अस्ति।
  4. एषः आगच्छति राजपुत्रः।

प्रश्न 6:
अधोलिखितेषु वाक्येषु स्थूलपदानां ‘‘प्रकृतिः प्रत्ययः” च पृथक् पृथक् कृत्वा अथवा संयोज्य लिख्यताम् – (4)

  1. परहिताय सर्वस्वं त्यक्तव्यम्।
  2. बहुभाषणं मूर्ख + त्वं प्रकटयति।
  3. मम कक्षे एका मूषक + टाप् कूर्दति।
  4. श्रीमन्तं मुख्यातिथिं नमामः।

प्रश्न 7:
(अ) इमम् आदेशं उचितैः अव्ययपदैः पूरयित्वा पुनः लिखत। (अव्ययसूची अधः प्रदत्ता) (2)
सहसा, वृथा, कदापि, एवं
मम माता उपदिशति –
(i) समयं …….. मा यापय।
(ii) ……….. विदधीत न क्रियाम्।
(iii) प्रियं च सत्यं च …………. वक्तव्यम्।
(iv) ………….. असत्यं न ब्रूयात्।

(ब) उचितेन अव्ययपदेन रिक्तस्थानानि पूरयित्वा लिखत – (2)
(i) यदा कृष्णमेघाः गर्जन्ति ………… वर्षा भवति।
(ii) यत्र-यत्र वर्षाजलं भवति ………….. मण्डूकाः शब्दं कुर्वन्ति।
(iii) यथा प्रकृतिः प्रसन्ना …………… जनाः।
(iv) उच्चैः गगनं अस्ति ………… समुद्रः अस्ति।

प्रश्न 8:
वाच्यं अधिकृत्य द्वयोः मित्रयोः अधोलिखितं संवादं पूरयित्वा लिखत – (3)
रामः     :         अधुना ……….. किं क्रियते ?
भरतः    :         मया तु दूरदर्शनं ………..।
रामः     :         किम् त्वया गृहकार्यं न ………..?

प्रश्न 9:
घटिकां दृष्ट्वा उत्तरपुस्तिकायाम् लिखत यत् भरतः कतिवादने किम् करोति ? (2)

  1. अहं सायम् (6.00) ………. दुग्धं पिबामि।
  2. अहं रात्रौ (7.45) ………… भोजनं करोमि।

प्रश्न 10:
अशुद्धिशोधनम् कृत्वा वाक्यानि पुनः लिखत – (4)

  1. रमेशः मम मित्रः अस्ति।
  2. सः अतीव सरलं अस्ति।
  3. सः प्रतिदिनं विद्यालयं गच्छसि।
  4. तस्याः भगिनी अपि तत्रैव पठति।

खण्डः ‘घ’-पठित-अवबोधनम्

प्रश्न 11:
अधोलिखितं गद्यांशं पठित्वा एतदाधारितानाम् प्रश्नानाम् उत्तराणि लिखत – (6)
(अ) एतत् श्रुत्वा दुष्टबुद्धिः झटिति एव क्षेत्रं गत्वा अश्वत्थमूलं च खनित्वा तम् सुवर्णकलशं प्राप्य यदा तस्य आवरणम् अपसारितवान् तदा भयङ्करमेकं विषधरं फूत्कारं कुर्वन्तम् दृष्टवान्। भीतः स कलशं पुनः आवृत्य तञ्चादाय मित्रस्य गृहं समागतः । स्वमित्रं सर्पेण मारयितुम् इच्छन् सः भित्तौ सन्धिं प्रकल्प्य तन्मध्यतः कलशं गृहाभ्यन्तरे क्षिप्तवान्। विचित्रा खलु दैवगतिः। पतितात् कलशाद् बहिर्निर्गत्य विषधरः तमेव दुष्टबुद्धिं दष्टवान्।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) सुवर्णपूरितः कलशः कस्य वृक्षस्य मूले स्थितः आसीत् ?
(ii) दुष्टबुद्धिः सुवर्णकलशे कम् दृष्टवान् ?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
स्वमित्रं मारयितुम् इच्छन् दुष्टबुद्धिः किं अकरोत् ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(ii) अस्मिन् गद्यांशे कः शब्दः ‘सर्पः’ इति शब्दस्य पर्यायः अस्ति ?
(iii) शीघ्रम्’ इति अर्थे किं अव्ययपदं अत्र प्रयुक्तम् ?
(iv) ‘भयंङ्करं विषधरं’ अनयोः पदयोः किं विशेष्यपदं अस्ति?

(आ) अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत
शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात्।
कामक्रोधोद्भवं वेगं, स युक्तः स सुखी नरः।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कः कामक्रोधोद्भवं वेगं सोढुं शक्नोति।
(ii) कः नरः सुखी?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
किं कृत्वा नरः सुखी भवति ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4= 2)
(i) ‘युक्त:’ पदस्य अर्थः …….. अस्ति।
(क) सहितः
(ख) योगी
(ग) योगः
(घ) युजितः

(ii) ‘पूर्वम्’ इत्यर्थे श्लोके किं पदं प्रयुक्तम् ?
(क) प्राक्
(ख) युक्तः
(ग) सुखी
(घ) वेगम्

(iii) ‘सुखी नरः’ अनयोः पदयोः विशेषणपदं किम् ?
(क) नरः
(ख) वेगम्
(ग) सुखी
(घ) युक्तः

(iv) ‘अस्मिन् संसारे’ इत्यर्थे अत्र किं पदं प्रयुक्तम् ?
(क) इह
(ख) एवं
(ग) प्राक्
(घ) युक्तः

(ई) अधोलिखितं नाट्यांशं पठित्वा प्रश्नान् उत्तरत – (6)
अश्वत्थामा- रे दुष्ट भीम! त्वम् अद्य वध्योऽसि मया। (विलोक्य) अये! कथं श्रीकृष्णार्जुनौ युधिष्ठिरश्च? (स्वगतम्) इदानीं किं करवाणि? आः, दृष्टम्, अस्मिन् विषमे समये ब्रह्मास्त्रम् एव मे शरणम् । मोचयामि अस्त्रम्। (ध्यानं नाटयति ब्रवीति च) इदम् अपाण्डवाय।
श्रीकृष्णः- पार्थ पश्य, पश्य! एतद् विमुच्यते ब्रह्मास्त्रं द्रोणपुत्रेण! त्रैलोक्यं दहन् इव प्रचण्डज्वाल: अग्निः परितः प्रसरति । अर्जुन! अर्जुन ! त्वमपि मुञ्च ब्रह्मास्त्रं एतत् निवारयितुम्।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) किम् मोचयामि?
(ii) केन ब्रह्मास्त्रं विमुच्यते?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
कीदृशी अग्निः सर्वत्र प्रसरति ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4= 2)
(i) “इदम् अपाण्डवाय।” अत्र इदम् इति सर्वनाम कस्मै प्रयुक्तम् ?
(ii) ‘पार्थ’ इति सम्बोधनपदं कस्मै प्रयुक्तम् ?
(iii) ‘प्रचण्डज्वालः’ इति पदं कस्य पदस्य विशेषणपदम् ?
(iv) ‘प्रसरति’ इति क्रियापदस्य कर्ता कः?

प्रश्न 12:
अधोलिखित श्लोकयोः अन्वयं उचितपदक्रमेण पूरयित्वा पुनः लिखत – (4)
(अ) शक्रोऽहमस्मि देवेन्द्रस्त्वत्समीपमुपागतः।
वरं वृणीष्व राजर्षे! यदिच्छसि तदुच्यताम्॥
अन्वयः- (i) ……… अहं (ii) …………….. शक्रः अस्मि (iii) …………… समीपम् उपागतः। वरं वृणीष्व! यत् (iv) ………… तत् उच्यताम्॥

(ब) अधुना रमणीया हि सृष्टिरेषा जगत्पतेः।
जीवाः सर्वेऽत्र मोदन्तां भावयन्तः परस्परम्॥
अन्वयः- अधुना (i) ……………. एषा (ii) ………….. रमणीया हि अत्र परस्परं (iii) …………… सर्वे (iv) ……………… मोदन्ताम्।
मञ्जूषा- जगत्पतेः, राजर्षे, त्वत्, भावयन्तः, इच्छसि, सृष्टिः, जीवाः, देवेन्द्रः।

प्रश्न 13:
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं क्रियताम् – (4)

  1. सूर्योदयभूमिः इति पदं अरुणाचल-प्रदेशाय प्रयुक्तम्।
  2. राजादेशं श्रुत्वा कपयः अचिन्तयन्।
  3. कृतयुग, त्रेतायुगं, द्वापरयुगं, कलियुगञ्चेति चत्वारि युगानि।
  4. भारत्याः कोष: अपूर्वः।

प्रश्न 14:
अधोलिखितासु पंक्तिषु स्थूलाक्षरपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थम् चित्वा उत्तरपुस्तिकायाम् लिखत- (4)
I. भोः भो वाचाल!
(i) प्रगल्भः
(ii) प्रकृष्टः
(iii) कुचालः

II. सर्वो भद्राणि पश्यतु।
(i) मित्राणि
(ii) कल्याणानि
(iii) सत्कर्माणि

III. किं जीवितम्? अनवद्यम्।
(i) वधयोग्यम्
(ii) अनुपयुक्तम्
(iii) निष्कलङ्कम्

IV. ते अनयोः अव्याहता शक्ति: द्रष्टुम् भविष्यति।
(i) निर्बाधा
(ii) नष्टा
(iii) विस्तीर्णा

उत्तराणि
खण्डः क’-अपठित-अवबोधनम्

उत्तर 1:
I. (i) निष्कम्पम्
(ii) अस्वस्थचित्तः

II. (i) मानवः चिन्तयन् आसीत्-‘” का नाम शक्तिः एतस्य जगतः सञ्चालनं करोति, प्रकाशं जनयति, ध्वनिं निर्माति, गन्धान् सृजति प्रसारयति च।”
(ii) ‘अहं उच्चतमं स्थानं पश्यामि चेत् कदाचित् तस्याः शक्तेः दर्शनं भवेत्’ इति चिन्तयित्वा सः गिरिशिखरं गच्छति।

III. (i) गिरिशिखरं
(ii) अकस्मात्
(iii) ध्वनिः
(iv) मानवाय

IV. आदिमस्वरः ॐकारः; आदिमानवस्य जिज्ञासा।

खण्डः ‘ख’- रचनात्मकं कार्यम्

उत्तर 2:

  1. देहरादूनतः
  2. सप्रेम
  3. महत्त्वपूर्णम्
  4. भवन्ति
  5. पश्चात्तापम्
  6. समयस्य
  7. निरर्थकः
  8. प्रतीक्षाम्
  9. करणीयः
  10. अग्रजः

उत्तर 3:

  1. इदं ग्रामस्य आधुनिकीकरणस्य दृश्यम् अस्ति।
  2. अत्र विद्युत्स्तम्भेन ज्ञायते यत् ग्रामेऽपि विद्युत्व्यवस्था अस्ति।
  3. यातायातस्य कृते राजपथस्य मोटरयानस्य अपि सुविधा अस्ति।
  4. मार्गम् उभयतः कृषियोग्या भूमिः अस्ति।
  5. ग्राम्यजीवनं स्वास्थ्यस्य कृते लाभदायकं भवति।
  6. कृषक: ट्रैक्टर इति यन्त्रेण भूमौ कृषिकार्यं करोति।

अथवा
(संघे शक्तिः)

  1. संघे महती शक्तिः वर्तते।
  2. संघे एव मानवस्य, परिवारस्य, राष्ट्रस्य च प्रगतिः भवति।
  3. संघस्य अभाव: विनाशस्य कारणं भवति।
  4. अस्माकम् इतिहासः अत्र प्रमाणम्।
  5. अस्माकम् पराधीनताया: कारणं इदमेव आसीत्।
  6. सहिता भूत्वा वयं गान्धिमहोदयस्य नेतृत्वे शस्त्रं विना एव स्वाधीनतां प्राप्नुमः।

खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्

उत्तर 4:

  1. षट् + आननः
  2. त्यागे + अपि
  3. कश्चित्
  4. सिंहो गर्जति

उत्तर 5:

  1. त्रयाणाम् लोकानाम् समाहारः (तस्य)
  2. रामलक्ष्मणौ
  3. चन्द्रः शेखरे यस्य सः (तस्य)
  4. राज्ञः पुत्रः

उत्तर 6:

  1. त्यज् + तव्यत्
  2. मूर्खत्वम्
  3. मूषिका
  4. श्री + मतुप्

उत्तर 7:
(अ) (i) वृथा
(ii) सहसा
(iii) एवं
(iv) कदापि

(ब) (i) तदा
(ii) तत्र-तत्र
(iii) तथा
(iv) नीचैः

उत्तर 8:

  1. त्वया
  2. दृश्यते
  3. कृतम् क्रियते वा

उत्तर 9:

  1. षड्वादने
  2. पादोनाष्टवादने

उत्तर 10:

  1. मित्रम्
  2. सरलः
  3. गच्छति
  4. तस्य

खण्डः ‘घ’ – पठित-अवबोधनम्

उत्तर 11:
(अ) I. (i) अश्वत्थस्य
(ii) विषधरम्

II. स्वमित्रं मारयितुम् इच्छन् दुष्टबुद्धिः भित्तौ सन्धिं प्रकल्प्य तन्मध्यतः कलशं गृहाभ्यान्तरे क्षिप्तवान्।

III. (i) सुवर्णकलशाय
(ii) विषधरः
(iii) झटिति
(iv) विषधरम्

(आ) I. (i) यः
(ii) युक्तः

II. यः नरः शरीरविमोक्षणात् प्राक् कामक्रोधोद्भवं वेगं सोढुं शक्नोति, सः सुखी भवति।

III. (i) (ख) योगी
(ii) (क) प्राक्
(iii) (ग) सुखी
(iv) (क) इह

(इ) I. (i) ब्रह्मास्त्रम्
(ii) द्रोणपुत्रेण

II. त्रीन् एव लोकान् दहन इव प्रचण्डज्वालः अग्निः सर्वत्र प्रसरति।

III. (i) ब्रह्मास्त्राय
(ii) अर्जुनाय
(iii) अग्निः
(iv) अग्निः

उत्तर 12:
(अ) राजर्षे, देवेन्द्रः, त्वत्, इच्छसि
(ब) जगत्पतेः, सृष्टिः, भावयन्तः, जीवाः

उत्तर 13:

  1. कस्मै?
  2. के?
  3. कति?
  4. कस्याः?

उत्तर 14:
I. (i) प्रगल्भः
II. (ii) कल्याणानि
III. (iii) निष्कलंकम्
IV. (i) निर्बाधा

We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 3 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 3, drop a comment below and we will get back to you at the earliest.

Leave a Comment

error: Content is protected !!