CBSE Sample Papers for Class 10 Sanskrit Paper 5

CBSE Sample Papers for Class 10 Sanskrit Paper 5

CBSE Sample Papers for Class 10 Sanskrit Paper 5 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 5.

CBSE Sample Papers for Class 10 Sanskrit Paper 5

Board CBSE
Class X
Subject Sanskrit
Sample Paper Set Paper 5
Category CBSE Sample Papers

Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 5 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.

समय: होरात्रयम्
पूर्णाङ्काः 80

निदेशाः

  1. प्रश्नपत्रं चत्वारः खण्डाः सन्ति
    • खण्ड: (क) अपठित-अवबोधनम्    10 अङ्कः
    • खण्ड: (ख) रचनात्मकं-कार्यम्        15 अङ्काः
    • खण्ड: (ग) अनुप्रयुक्तव्याकरणम्    25 अङ्काः
    • खण्डः (घ) पठित-अवबोधनम्        30 अङ्काः
  2. सर्वे प्रश्नाः अनिवार्याः
  3. प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
  4. प्रश्नसंख्या अवश्यमेव लेखनीया।
  5. उत्तराणि संस्कृतेनैव लेखनीयानि।

खण्डः ‘क’-अपठित-अवबोधनम्

प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत। (10)
अहम् एकः छिन्नः द्रुमः अस्मि। ह्यः वने एकः नरः आगच्छत्। सः काष्ठाय मम शरीरम् अच्छिनत्। छेदनेन मे शरीरे अनेके व्रणाः जाताः। छुरिकायाः प्रहारेण शरीरात् अश्रुरूपाः जलबिन्दवः अपतन्। अकथनीया मम पीडा। हृदयं विदीर्णं जातम् । अश्रुभिः कण्ठः अवरुद्धः। मम अन्तकालः समीपे एव तिष्ठति। काष्ठानि एकत्रीकृत्य सः तु अगच्छत्। परं कोऽस्ति अत्र कथाव्यथा श्रवणाय? वृक्षान् छित्त्वा नरः प्रकृतिमातुः अङ्गानि नाशयति इन्धनाय, कर्गदपत्राय, भवननिर्माणाय, मम काष्ठस्य प्रयोगः भवति। किन्तु कुतः मे पत्राणि, पुष्पाणि, कुतः च रोगनिवारणाय औषधयः ? निराश्रिताः भविष्यन्ति आश्रिताः खगाः कीटपतंगाश्च । पन्थानः अपि छायाहीनाः भविष्यन्ति। आतपेन तप्तः श्रान्तः पथिकः अधुना कुत्र गमिष्यति ? मम जीवने पुनः वसन्तर्तुः न आगमिष्यति।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) द्रुमस्य जीवने पुनः किम् न आगमिष्यति ?
(ii) नरः किमर्थं द्रुमस्य शरीरम् अच्छिनत् ?

(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
(i) छुरिकाप्रहारेण वृक्षस्य शरीरात् के अपतन् ?
(ii) वृक्षान् छित्त्वा किं भवति?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘अपतन्’ इति क्रियापदस्य अत्र किम् कर्तृपदम् प्रयुक्तम् ?
(क) व्रणाः
(ख) जलबिन्दवः
(ग) काष्ठानि
(घ) अङ्गानि

(ii) ‘पथिकः’ पदस्य अत्र विशेषणपदं किम् ?
(क) विदीर्णम्
(ख) अन्तकालः
(ग) श्रान्तः
(घ) छायाहीनः

(iii) ‘मम’ इति सर्वनामपदं अत्र कस्मै प्रयुक्तम् ?
(क) छिन्नमाय
(ख) काष्ठाय
(ग) पथिकाय
(घ) अश्रुरूपाय

(iv) “निराश्रिताः’ पदस्य किम् विपर्ययः अत्र प्रयुक्तम् ?
(क) जलबिन्दवः
(ख) आश्रिताः
(ग) पन्थानः
(घ) खगाः

(IV) अस्य गद्यांशस्य उचितं शीर्षकं लिखत।

खण्डः ‘ख’- रचनात्मक कार्यम्

प्रश्न 2:
संस्कृतभाषायाः महत्त्वं वर्णयन् मित्रं प्रति लिखितं इदं पत्रं मञ्जूषायां दत्तैः पदैः पूरयत- (1/2 × 10 = 5)

लण्डन छात्रावासतः
तिथिः …………

प्रिय मित्र विक्रम,
सप्रेम …………..(1)।
अद्यैव मया तव पार्वे पत्रं प्रेषितम् । पत्रे मया लिखितं यत् अधुना ……… (2) संस्कृतभाषायाः महत्त्वं अत्यधिकं वर्धते। सर्वे विद्वांसः ………….(3) च (कम्प्यूटर वैज्ञानिकाः) संगणकयन्त्रस्य कृते अस्याः भाषायाः महत्त्वं स्वीकुर्वन्ति। ते मन्यन्ते यत् संस्कृतभाषायाः शब्दकोषः। …………(4) व्याकरणः च संगणकयन्त्राय अत्युपयोगी अस्ति। एतदर्थं तत्रत्याः ……………….(5) विद्यालयेषु संस्कृतभाषायाः अध्ययनम् अनिवार्यं क्रियते। अत्र ………… (6) संस्कृतग्रन्थानां आगाशः सन्ति। विद्वांसः छात्राः च व्याकरणस्य संस्कृतसाहित्यस्य च अध्ययनं …………….. (7) कुर्वन्ति। मित्र! यूयम् ………… (8) यत् भारतवर्षे जन्म लब्ध्वा संस्कृतभाषायाः अध्ययनं अपि कुरुथ। भवान् पत्रोत्तरं ……….. (9) एव लिखतु इति मम निवेदनम्। ………….. (10) नमः।

तव मित्रम्
अरुणः

मञ्जूषा
मनोयोगेन, विदेशेष्वपि, सर्वेभ्यो, नमोनमः, सौभाग्यशालिनः, संगणकवैज्ञानिकाः, संस्कृतभाषायां, पाणिनेः पुस्तकालयाः, सर्वकारः

प्रश्न 3:
चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया च संस्कृतभाषायां पञ्चवाक्यानि लिखत- (2 × 5 = 10)
CBSE Sample Papers for Class 10 Sanskrit Paper 10 Q.3
मञ्जूषा
समुद्रतटस्य, नौका जलाप्लावित, छिन्नाः भिन्नाः, सघनवृक्षाः, सहायतायै, चीत्कारं, प्रलय इव, विनष्टाः, तरङ्गैः
अथवा
‘विजयादशमी’ इति विषयम् अधिकृत्य संस्कृते पञ्च वाक्यानि लिखत।
मञ्जूषा- प्रमुखपर्वसु, सत्यम्, रामलीलायाः स्वच्छतादिवसः, उत्सवः वर्षर्तुः, प्रमुखंस्थानं, दशदिवसेषु, प्रदर्शनम् जानीमः।

खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्

प्रश्न 4:
रेखाङ्कितपदेषु सन्धि-विच्छेदं वा कृत्वा उत्तरपुस्तिकायां लिखत – (1 × 4 = 4)

  1. भवान् कथयतु किम् एतत् + शक्यम् ?
  2. मुनावस्मिन् विश्वसिहि।
  3. युधिष्ठिरस्य व्यवहारः निः + छलः आसीत्।
  4. रात्रौ रजनीशः उदेति।

प्रश्न 5:
स्थूलपदेषु समास-विग्रहं वा कृत्वा उत्तरत – (1 × 4 = 4)

  1. धर्मार्थकाममोक्षाः जीवनस्य चत्वारि उद्देश्यानि सन्ति।
  2. समुद्रमन्थनात् निर्गतं गरलं महान् च असौ देवः (तेन) पीतम्।
  3. सतां चित्तं उत्पलम् इव कोमलम् भवति।
  4. जनाः देशभक्तान् पूजयन्ति।

प्रश्न 6:
स्थूलपदेषु प्रकृति-प्रत्ययः विभागः संयोगः वा कृत्वा उत्तरत – (1 × 4 = 4)

  1. सा छात्रा गुण + मतुप् अस्ति।
  2. भारते अनेकानि दर्शनीयानि स्थलानि सन्ति।
  3. रावणस्य अत्याचारैः जनाः दुःख + इन् आसन्।
  4. वसन्त कम्पमानेभ्यः वृक्षेभ्यः पुष्पपत्राणि पतन्ति।

प्रश्न 7:
अव्ययपदैः रिक्तस्थानानि पूरयत – (1/2 × 8 = 4)
श्वः, ऋते, बहिः, तत्र, यथा, विना, सर्वत्र, तथा
वयं ………. देवालयं गमिष्यामः। ………. भक्ताः भजनं करिष्यन्ति। देवालयात् ……….. उपवनम् अपि अस्ति। उपवने ……….. पुष्पाणि सन्ति। …………. पुष्पेभ्यः उपवनं न शोभते ………. ईश्वरस्य भजनं ………. देवालयः न शोभते।

प्रश्न 8:
चन्द्रादित्ययोः मध्ये संवादः भवति। चन्द्रः कर्तृवाच्यस्य प्रयोगं करोति। आदित्यः कर्मवाच्यस्य प्रयोगं करोति। तयोः संवादे रिक्तस्थानानि पूरयत – (1 × 3 = 3)
चन्द्रः          –              मित्र! अशोकः किम् लिखति ?
आदित्यः     –              अशोकेन नाटकानि …………..।
चन्द्रः          –              हरिः कं प्रणमति ?
आदित्यः     –               ……… जनकः प्रणम्यते।
चन्द्रः          –              छात्राः प्रार्थनां कुर्वन्ति। अस्य कर्मवाच्ये उत्तरतु।
आदित्यः     –               छात्रैः ……….. क्रियते।

प्रश्न 9:
निर्दिष्टजनः कतिवादने किम् करोति, निर्दिष्ट समयं लिखते – (1 × 2 = 2)

  1. सम्मार्जकाः प्रातः (7.45) ………. मार्ग स्वच्छं कुर्वन्ति।
  2. पत्रवाहक: मध्याह्ने (11.15) …………. पत्राणि आनयति।

प्रश्न 10:
अशुद्धिसंशोधनम् – (1 × 4 = 4)

  1. सर्वे ग्रहाः शान्तिकराः भवतु।
  2. इयं पुस्तकं मम अस्ति।
  3. हे राजन् ! मम दयस्व।
  4. नगरस्य उभयतः नदी वहति।

खण्डः ‘घ’- पठित-अवबोधनम् 

प्रश्न 11:
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (6)
(अ) यूथपतेः वचनम् अश्रद्धेयं मत्वा मदोद्धताः कपयः प्रहस्य अवदन्-‘भो ! किमिदम् उच्यते ? न वयं स्वर्गसमानोपभोगान् विहाय अटव्यां क्षार-तिक्त-कषाय-कटु-रूक्षफलानि भक्षयिष्यामः। तच्छुत्वा साश्रुनयनो यूथपतिः सगद्गदम् उक्तवान्‘रसनास्वादलुब्धाः यूयम् अस्य सुखस्य कुपरिणामं न जानीथ। अहं तु वनं गच्छामि।’
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कस्य वचनम् अश्रद्धेयम् आसीत् ?
(ii) कीदृशः यूथपतिः सगद्गदम् उक्तवान् ?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
मदोद्धताः कपयः स्वयूथपतिं किम् अवदन् ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘कपयः’ पदस्य विशेषणपदं किम् ?
(क) मदोद्धताः
(ख) अश्रद्धेयं
(ग) प्रहस्य

(ii) ‘वने’ इति अर्थे अत्र किम् पदं अस्ति?
(क) मत्वा
(ख) विहाय
(ग) अटव्याम्

(iii) ‘जानीथ’ क्रियायाः कर्ता कः ?
(क) रसनास्वादलुब्धाः
(ख) कुपरिणाम
(ग) यूयम्

(iv) ‘वयं’ सर्वनाम केभ्यः प्रयुक्तम् ?
(क) यूथपतये
(ख) फलेभ्यः
(ग) कपिभ्यः

(आ) इमं संवादं पठित्वा निर्देशानुसारम् उत्तरत –
श्रीकृष्णः     –     आम्! मया कथितम् । नाहं त्वत्तः ब्रह्मास्त्रम् इच्छामि। यदि त्वं मम गदां, शक्तिं, धनुः, चक्रं वा इच्छसि, तुभ्यं ददामि।
युधिष्ठिरः     –     ततस्ततः।
श्रीकृष्णः     –     स (द्रौणिः) तु चक्रम् एव अयाचत । गृहाण चक्रम् इति उक्तः सः सव्येन पाणिना चक्रम् गृहीतवान्, किन्तु सः तत् चक्रं स्वस्थानात् संचालयितुम् अपि समर्थः न अभवत्।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) श्रीकृष्णः द्रौणे: किं न इच्छति ?
(ii) द्रौणिः किं अयाचत ?

(II) पूर्णवाक्येन उत्तरत – (1 × 2= 2)
सः किम् कर्तुम् समर्थः न अभवत् ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4= 2)
(i) ‘सव्येन पाणिना’ अत्र विशेषणपदं किम् ?
(ii) ‘सः’ सर्वनाम कस्मै प्रयुक्तम् ?
(iii) ‘अयाचत’ क्रियापदस्य कर्तृपदं किम् ?
(iv) पाणिना’ पदस्य अर्थः अस्ति-पादेन, करेण, मुखेन वा?

(इ) श्लोकं पठित्वा प्रश्नाने उत्तरत – (6)
कः पथ्यतरः ? धर्मः, कः शुचिरिह? यस्य मानसं शुद्धं।
कः पण्डितः ? विवेकी, किं विषम् ? अवधीरणा गुरुषु।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) शुचिजनस्य किं शुद्धं भवति ?
(ii) धर्मः कीदृशः भवति ?

(II) पूर्णवाक्येन उत्तरत –
विषं किं वर्तते ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘अस्मिन् संसारे’ अस्य पदस्य अर्थे श्लोके किं पदम् आगतम् ?
(क) शुचिः
(ख) शुचिरिह
(ग) रिह
(घ) इह

(ii) श्लोके ‘अमृतं’ इत्यस्य कः विपर्ययः ?
(क) विषम्
(ख) विवेकी
(ग) पण्डितः
(घ) धर्मः

(iii) ‘पथ्यतर: धर्मः’ अनयोः पदयोः विशेष्यपदं किम्?
(क) पथ्यः
(ख) पथ्यतरः
(ग) धर्मः
(घ) धर्मम्

(iv) ‘अपमानम् अस्य पदस्य कः पर्याय: श्लोके प्रयुक्त: ?
(क) विषम्
(ख) गुरुषु
(ग) अवधीरणा
(घ) यस्य

प्रश्न 12:
अधोलिखितश्लोकयोः अन्वयम् उचितपदक्रमेण सम्पूरयत – (1/2 × 8 =4)
(अ) पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव हि।
तस्माद् संहर दिव्यं त्वमस्त्रमेतन्महाभुज!।।
अन्वयः- पाण्डवाः त्वम् च (i) ………… च सदा हि (ii)……….. एव। (iii)………… तस्मात् त्वम् एतत् दिव्यम (iv)………….. संहर।

(ब) तस्मात् स्यात् कलहो यत्र गृहे नित्यमकारणः।
तद् गृहं जीवितं वाञ्छन् दूरतः परिवर्जयेत्।
अन्वयः- तस्मात् (i) ……….. नित्यम् (ii) ……….. कलहः स्यात् (iii) ……………. वाञ्छन् तत् गृहे (iv) ……………… परिवर्जयेत्।
मञ्जूषा- राष्ट्रम्, अकारणः, महाभुज, यत्र, दूरतः, संरक्ष्यम्, जीवितं, अस्त्रम्।

प्रश्न 13:
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम् – (1 × 4= 4)

  1. अरुणाचले पञ्चाशदधिकाः नद्यः प्रवहन्ति।
  2. चतुर्णा युगानां समूहः एव महायुगम्।
  3. जनकेन सुताय शैशवे विद्याधनं दीयते।
  4. चञ्चलं हि मनः कृष्ण।

प्रश्न 14:
स्थूलपदानां प्रसङ्गानुसारं शुद्धम् अर्थं चिनुत – (1 × 4 = 4)
I. पाप्मानं प्रजहि येनं ज्ञानविज्ञाननाशनम्।
(i) त्यज
(ii) मारय
(iii) प्रजा हि

II. परमहम् अखण्डः शाश्वतः।
(i) नित्यः
(ii) सनातनः
(iii) निरन्तरम्

III. अन्येषां वदने ये तु …………।
(i) शरीरे
(ii) वाद्ययन्त्रे
(iii) मुखे

IV. सहस्रांशु न भासते।
(i) भानुः
(ii) हिमांशुः
(iii) विभुः

उत्तराणि
खण्डः ‘क’-अपठित-अवबोधनम्

उत्तर 1:
I. (i) वसन्तर्तुः
(ii) काष्ठाय

II. (i) छुरिकाप्रहारेण वृक्षस्य शरीरात् अश्रुरूपाः जलबिन्दवः अपतन्।
(ii) वृक्षान् छित्त्वा नरः प्रकृतिमातुः अङ्गानि नाशयति, इन्धनाय, कर्गदपत्राय, भवननिर्माणाय च काष्ठस्य प्रयोगः भवति।

III. (i) (ख) जलबिन्दवः
(ii) (ग) श्रान्तः
(iii) (क) छिन्नमाय
(iv) (ख) आश्रिताः

IV. छिन्नः द्रुमः; छिन्नमस्य व्यथा।

खण्डः ‘ख’- रचनात्मक कार्यम्

उत्तर 2:

  1. नमोनमः
  2. विदेशेष्वपि
  3. संगणकवैज्ञानिकाः
  4. पाणिनेः
  5. सर्वकारः
  6. पुस्तकालयाः
  7. मनोयोगेन
  8. सौभाग्यशालिनः
  9. संस्कृतभाषायाम्
  10. सर्वेभ्यः

उत्तर 3:

  1. एतत् चित्रं समुद्रस्य अस्ति।
  2. जलप्रकोपेन सर्वतः प्रलय इव दृश्यते।
  3. जलाप्लाविता नौका जले मग्ना भवति।
  4. एकः नरः सहायतायै चीत्कारं करोति।
  5. उच्चैः जलतरङ्गैः सर्वम् छिन्नं भिन्नं अस्ति।
  6. तीव्रजलतरङ्गानां प्रवाहेन तटं अपि न दृश्यते।

अथवा
(विजयादशमी)

  1. भारतदेशस्य प्रमुखपर्वसु विजयादशम्याः प्रमुखं स्थानं अस्ति।
  2. अस्मिन काले वर्षर्तुः समाप्तः भवति।
  3. अतः एषः उत्सवः स्वच्छतादिवसः भवति।
  4. उत्सवात् पूर्वेषु दशदिवसेषु प्रतिनगरं रामलीलाया: प्रदर्शन क्रियते।
  5. अनेन उत्सवेन वयं जानीमः यत् ‘सत्यं सदा विजयते।’

खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्

उत्तर 4:

  1. एतत्छक्यम्
  2. मुनौ + अस्मिन्
  3. निश्छलः
  4. रजनी + ईशः

उत्तर 5:

  1. धर्मः च अर्थः च कामः मोक्षः च
  2. उत्पलकोमलम्
  3. महात्मा
  4. देशस्य भक्तान्

उत्तर 6:

  1. गुणवती
  2. दृश् + अनीयर्
  3. दुखिनः
  4. कम्प् + शानच्

उत्तर 7:
श्वः; तत्र; बहिः; सर्वत्रः; ऋते; यथा; तथा; विना।

उत्तर 8:

  1. लिख्यते
  2. हरिणा
  3. प्रार्थना

उत्तर 9:

  1. पादोनाष्टवादने
  2. सपादैकादशवादने

उत्तर 10:

  1. भवन्तु
  2. इदम्
  3. मयि
  4. नगरम्

खण्डः ‘घ’ – पठित-अवबोधनम्

उत्तर 11:
(अ) I. (i) यूथपतेः
(ii) साश्रुनयनः

II. कपयः अवदन् -” भो। किमिदं उच्यते ? न वयं स्वर्गसमानोपभोगान् विहाय अटव्यां क्षार-तिक्त – कषाय-कटु रुक्षफलानि भक्षयिष्यामः”।

III. (i) (क) मदोद्धताः
(ii) (ग) अटव्याम्
(ii) (ग) यूयम्।
(iv) (ग) कपिभ्यः

(आ) I. (i) ब्रह्मास्त्रम्
(ii) चक्रम्

II. सः तत् चक्रं स्वस्थानात् संचालयितुं अपि समर्थः न अभवत्।

III. (i) सव्येन
(ii) द्रौणिने
(iii) सः
(iv) करेण

(इ) I. (i) मानसम्
(ii) पथ्यतरः

II. गुरुषु अवधीरणा विषं वर्तते।

III. (i) (घ) इह
(ii) (क) विषम्
(iii) (ग) धर्मः
(iv) (ग) अवधीरणा

उत्तर 12:
(अ) (i) राष्ट्रम्
(ii) संरक्ष्यम्
(iii) महाभुज
(iv) अस्त्रम्

(ब)
(i) यंत्र
(ii) अकारणः
(iii) जीवितं
(iv) दूरतः

उत्तर 13:

  1. का?
  2. केषाम् ?
  3. कदा ?
  4. कीदृशम् ?

उत्तर 14:
I. (i) त्यज
II. (ii) सनातनः
III. (iii) मुखे
IV. (i) भानुः

We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 5 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 5, drop a comment below and we will get back to you at the earliest.

Leave a Comment

error: Content is protected !!