MCQ Questions

MCQ Questions for Class 10 Sanskrit Chapter 8 विचित्रः साक्षी with Answers

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 8 विचित्रः साक्षी with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the विचित्रः साक्षी Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these विचित्रः साक्षी objective questions.

विचित्रः साक्षी Class 10 MCQs Questions with Answers

Practicing the Class 10 Sanskrit Chapter 8 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of विचित्रः साक्षी Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit विचित्रः साक्षी MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितगद्यांशान् पठित्वा प्रश्नान् उत्तरत

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।

Question 1.
‘तनयः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) निवसन्
(ख) अध्ययने
(ग) समभूत्
(घ) संलग्नः

Answer

Answer: (ग) समभूत्


Question 2.
‘पुत्रस्य’ इत्यर्थे गद्यांशे किम् पदं प्रयुक्तम्?
(क) तनूजस्य
(ख) तनयः
(ग) स्वपुत्रं
(घ) पुत्रं

Answer

Answer: (क) तनूजस्य


Question 3.
‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) पुत्राय
(ख) निर्धनजनाय
(ग) जनः
(घ) पुत्रः

Answer

Answer: (ख) निर्धनजनाय


Question 4.
‘गृहीत्वा’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) विहाय
(ख) पदातिः
(ग) संलग्नः
(घ) भूरि

Answer

Answer: (क) विहाय


Question 5.
केन पीडितः निर्धनः जनः पदातिः एव प्राचलत्?

Answer

Answer: अर्थकार्येन


Question 6.
निर्धनः जनः भूरि परिश्रम्य किम् अर्जितवान्?

Answer

Answer: वित्तम्


Question 7.
पिता किमर्थं व्याकुलः जातः?

Answer

Answer: तनूजस्य रुग्णताम् आकर्ण्य पिता व्याकुलः जातः।


तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबुद्धोऽतिथि: चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।

Question 1.
‘प्राक्षिपत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) रक्षापुरुषः
(ख) अतिथिं
(ग) चौरः
(घ) अयं

Answer

Answer: (क) रक्षापुरुषः


Question 2.
‘जागरितः’ इति पदस्य समानार्थकम् पदं किम्?
(क) प्रबुद्धाः
(ख) प्रबुद्धः
(ग) आरक्षी
(घ) पलायितः

Answer

Answer: (ख) प्रबुद्धः


Question 3.
‘तस्य तारस्वरेण’ अत्र ‘तस्य’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्
(क) चौरः
(ख) चौरस्य
(ग) चौराय
(घ) अतिथये

Answer

Answer: (ख) चौरस्य


Question 4.
‘अतिथिः’ इति पदस्य विशेषणपदं किम्?
(क) प्रबुद्धः
(ख) पदध्वनिना
(ग) चौरशङ्कया
(घ) चौरः

Answer

Answer: (क) प्रबुद्धः


Question 5.
वस्तुतः चौरः कः आसीत्?

Answer

Answer: तनूजस्य रुग्णताम् आकर्ण्य पिता व्याकुलः जातः।


Question 6.
निहिताम् मञ्जूषाम् आदाय कः पलायितः?

Answer

Answer: चौरः


Question 7.
प्रबुद्धाः ग्रामवासिनः किम् अकरोत्?

Answer

Answer: प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्र आगच्छन् वराकम् अतिथिम् एव चौरं मत्वा अभर्त्सयन्।


आदेशं प्राप्य उभौ प्राचलताम्।तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच-“रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।

Question 1.
‘स्थापितवन्तौ’ इति क्रियापदस्य कर्तृपदं किम्?
(क) एकस्मिन्
(ख) चत्वरे
(ग) उभौ
(घ) शवं

Answer

Answer: (ग) उभौ


Question 2.
‘प्रसन्नः’ इति पदस्य पर्यायः कः?
(क) क्रन्दनं
(ख) मुदितः
(ग) भारवतः
(घ) कृशकायः

Answer

Answer: (ख) मुदितः


Question 3.
‘तस्य क्रन्दन …..।’ अत्र ‘तस्य’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) रक्षापुरुषायः
(ख) न्यायाधीशाय
(ग) अतिथये
(घ) अतिथिः

Answer

Answer: (ग) अतिथये


Question 4.
‘पटाच्छादितं’ इति पदस्य विशेष्यपदं किम्?
(क) निहितं
(ख) काष्ठफलके
(ग) काष्ठं
(घ) देह

Answer

Answer: (घ) देह


Question 5.
कृशकायः कः आसीत्?

Answer

Answer: अतिथि:


Question 6.
भारवतः शवस्य स्कन्धेन वहनं कस्य कृते दुष्करम् आसीत्?

Answer

Answer: अतिथेः


Question 7.
जनस्य क्रन्दनं निशम्य आरक्षी किम् उक्तवान्?

Answer

Answer: जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान्-“रे दुष्ट! तस्मिन् दिने त्वया अहम् चोरितायाः मञ्जूषायाः ग्रहणात् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्षव। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे।”


न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्-मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति। न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्।

Question 1.
‘लप्स्यसे’ इति क्रियापदस्य कर्तृपदं किम्?
(क) त्वं
(ख) अतिथिः
(ग) आरक्षी
(घ) न्यायाधीशः

Answer

Answer: (क) त्वं


Question 2.
‘आरक्षिणा’ इति पदस्य विशेषणपदं किम्?
(क) अध्वनि
(ख) एतेन
(ग) यदुक्तं
(घ) मान्यवर

Answer

Answer: (ख) एतेन


Question 3.
‘मार्गे’ इत्यर्थे गद्यांशे किम् पदम् प्रयुक्तम्?
(क) आरक्षिणे
(ख) अपसार्य
(ग) एतेन
(घ) अध्वनिः

Answer

Answer: (घ) अध्वनिः


Question 4.
‘त्वं’ सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) न्यायाधीशस्य
(ख) अतिथेः
(ग) अतिथये
(घ) आरक्षी

Answer

Answer: (ख) अतिथेः


Question 5.
कः प्रावारकम् अपसार्य न्यायाधीशं अभिवादयति स्म?

Answer

Answer: शवः


Question 6.
न्यायाधीशेन पुनः तौ कस्याः विषये वक्तुम् आदिष्टौ?

Answer

Answer: घटनायाः


Question 7.
न्यायाधीशः कथम् न्यायम् अकरोत्?

Answer

Answer: न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य अतिथिं च ससम्मानं मुक्तवान्।


अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) तनयः छात्रावासे निवसन् अध्ययने संलग्नः समभूत्।
(ii) करुणापर: गृही तस्मै आश्रयं प्रायच्छत्।
(iii) ग्रामवासिनः स्वगृहात् निष्क्रम्य तत्र आगच्छन्।
(iv) न्यायाधीशः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।
(v) अभियुक्तः कृशकायः आसीत्।

Answer

Answer:
(i) तनयः कुत्र निवसन् अध्ययने संलग्नः समभूत्?
(ii) कीदृशः गृही तस्मै आश्रयं प्रायच्छत्?
(iii) के स्वगृहात् निष्क्रम्य तत्र आगच्छन्?
(iv) न्यायाधीशः काभ्यां पृथक्-पृथक् विवरणं श्रुतवान्?
(v) अभियुक्तः कीदृशः आसीत्?


अधोलिखितानि वाक्यानि कथाक्रमेण संयोज्य लिखत

(i) न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य तं जनं ससम्मानं मुक्तवान्।
(ii) कश्चन निर्धनः जनः भूरि परिश्रम्य किञ्चिद् वित्तम् उपार्जितवान्।
(iii) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुम् आदिष्टवान्।
(iv) तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ।
(v) रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
(vi) सः पिता तनूजस्य रुग्णताम् आकर्ण्य व्याकुलः जातः पुत्रं द्रष्टुम् च प्रस्थितः।
(vii) सः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थं उपागतः।
(viii) उभौ शवम् आनीय एकस्मिन् चत्वरे स्थापितवन्तौ।

Answer

Answer:
(i) कश्चन् निर्धनः जनः भूरि परिश्रम्य किञ्चिद् वित्तम् उपार्जितवान्।
(ii) सः पिता तनूजस्य रुग्णताम् आकर्ण्य व्याकुलः जातः पुत्रं द्रष्टुम् च प्रस्थितः।
(iii) सः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं काञ्चिद् गृहस्थं उपागतः।
(iv) रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
(v) तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ।
(vi) न्यायाधीशः आरक्षिणम् अभियुक्तम् च तं शवं न्यायालये आनेतुम् आदिष्टवान्।
(vii) उभौ शवम् आनीय एकस्मिन् चत्वरे स्थापितवन्तौ।
(viii) न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य तं जनं ससम्मानं मुक्तवान्।


अधोलिखितवाक्येषु रेखाङिकतपदानाम् कृते उचितम् अर्थं चित्वा लिखत

Question 1.
अर्थकार्येन पीडितः सः पदातिः एव प्राचलत्।
(क) कृपणतया
(ख) धनस्य अभावेन
(ग) धनस्य आधिक्येन
(घ) धनस्य प्रचुरतया

Answer

Answer: (ख) धनस्य अभावेन


Question 2.
प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा।
(क) एकान्ते
(ख) विरक्ते
(ग) निर्गन्धे
(घ) प्रदूषणे

Answer

Answer: (क) एकान्ते


Question 3.
सर्वं वृत्तम् अवगत्य सः तं निर्दोषम् अमन्यत।
(क) गत्वा
(ख) आगत्य
(ग) ज्ञात्वा
(घ) ज्ञानं

Answer

Answer: (ग) ज्ञात्वा


Question 4.
एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि।
(क) मार्गे
(ख) द्वारे
(ग) ध्वनिरहितं
(घ) तूष्णीम्

Answer

Answer: (क) मार्गे


Question 5.
त्वया अहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः
(क) गृहीतः
(ख) निवारितः
(ग) धावितः
(घ) वरणं कुरुत

Answer

Answer: (ख) निवारितः


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

तमः, धनिकः, संकीर्णे, स्वल्पं, आरक्षी
पदानि – विलोमपदानि
(i) चौरः – …………….
(ii) प्रसृते – ……………
(iii) भूरि – ……………
(iv) निर्धनः – …………..
(v) प्रकाशः – ……………

Answer

Answer:
पदानि – विलोमपदानि
(i) चौरः – आरक्षी
(ii) प्रसृते – संकीर्णे
(iii) भूरि – स्वल्पम्
(iv) निर्धनः – धनिकः
(v) प्रकाशः – तमः


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Chapter 8 विचित्रः साक्षी with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit विचित्रः साक्षी MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 10 Sanskrit Chapter 8 विचित्रः साक्षी with Answers Read More »

MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the सूक्तयः Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these सूक्तयः objective questions.

सूक्तयः Class 10 MCQs Questions with Answers

Practicing the Class 10 Sanskrit Chapter 9 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of सूक्तयः Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit सूक्तयः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

Question 1.
“विद्याधनं” इति पदस्य विशेषणपदं श्लोकात् चित्वा लिखत।
(क) महत्
(ख) पुत्राय
(ग) महान्
(घ) पिता

Answer

Answer: (क) महत्


Question 2.
‘यच्छति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) पुत्राय
(ख) महत्
(ग) विद्याधनं
(घ) पिता

Answer

Answer: (घ) पिता


Question 3.
‘कृतघ्नता’ इति पदस्य विलोमपदं किम्?
(क) तपः
(ख) तेपे
(ग) महद्
(घ) कृतज्ञता

Answer

Answer: (घ) कृतज्ञता


Question 4.
‘शैशवे’ इत्यर्थे किं पदम् प्रयुक्तम्?
(क) बाल्ये
(ख) उक्तिः
(ग) महत्
(घ) तपः

Answer

Answer: (क) बाल्ये


Question 5.
पिता पुत्राय विद्याधनं कदा ददाति?

Answer

Answer: बाल्यकाले


Question 6.
पिता पुत्राय कीदृशं विद्याधनं यच्छति?

Answer

Answer: महत्


Question 7.
पुत्रः विद्यां प्राप्य किम् अनुभवति?

Answer

Answer: पुत्रः विद्यां प्राप्य कृतज्ञतां अनुभवति।


अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥

Question 1.
‘सरलता’ इत्यर्थे श्लोके किम् पदं प्रयुक्तम्?
(क) अवक्रता
(ख) चित्ते
(ग) तदेव
(घ) तथ्यतः

Answer

Answer: (क) अवक्रता


Question 2.
श्लोकस्य द्वितीये पंक्तौ क्रियापदं किम्?
(क) तत्
(ख) आहुः
(ग) तथ्यतः
(घ) समत्वम्

Answer

Answer: (ख) आहुः


Question 3.
‘कुटिलता’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) चित्ते
(ख) वाचि
(ग) अवक्रता
(घ) तथ्यतः

Answer

Answer: (ग) अवक्रता


Question 4.
‘अवक्रता यथा चित्ते तथा वाचि भवेद् यदि’ इति अत्र कति अव्ययपदानि सन्ति?
(क) त्रीणि
(ख) चत्वारि
(ग) द्वे
(घ) पञ्च

Answer

Answer: (क) त्रीणि


Question 5.
नरस्य चित्ते किं भवेत्?

Answer

Answer: अवक्रता


Question 6.
वाचि किं न भवेत्?

Answer

Answer: वक्रता


Question 7.
चित्ते वाचि च अवक्रता किम् उच्यते?

Answer

Answer: चित्ते वाचि च अवक्रता महात्मानः समत्वं उच्यते।


त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुक्तेऽपक्वं विमूढधीः॥

Question 1.
‘भुङ्क्ते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) फलं
(ख) पक्वं
(ग) विमूढधीः
(घ) अपक्वं

Answer

Answer: (ग) विमूढधीः


Question 2.
‘वदेत्’ इति पदस्य पर्यायपदं श्लोकात् अवचित्य लिखत।
(क) अभ्युदीरयेत्
(ख) वाचं
(ग) अभ्यूदीरयेत्
(घ) भुङ्क्त

Answer

Answer: (क) अभ्युदीरयेत्


Question 3.
‘कोमलां’ इति पदस्य विलोमपदं किम् प्रयुक्तम्?
(क) पक्वं
(ख) परुषां
(ग) प्रदां
(घ) वाचं

Answer

Answer: (ख) परुषां


Question 4.
‘धर्मप्रदा’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) त्यक्त्वा
(ख) वाचं
(ग) परुषां
(घ) पक्वं

Answer

Answer: (ख) वाचं


Question 5.
कीदृशीं वाचं सदा वदेत्?

Answer

Answer: धर्मप्रदां


Question 6.
यः परुषां वाचं वदति सः कः?

Answer

Answer: विमूढधीः


Question 7.
विमूढधीः कीदृशं फलं त्यक्त्वा किं खादति?

Answer

Answer: विमूढधीः पक्वं फलं त्यक्त्वा अपक्वं फलं खादति।


वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥

Question 1.
‘न कातरः’ इत्यर्थे श्लोके किं समस्तपदं प्रयुक्तम्?
(क) अकातरः
(ख) मप्यकातरः
(ग) कातरः
(घ) यकातरः

Answer

Answer: (क) अकातरः


Question 2.
‘परिभूयते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) केन
(ख) परैः
(ग) सः
(घ) अपि

Answer

Answer: (ग) सः


Question 3.
‘अकातरः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) सभायाम्
(ख) धैर्यवान्
(ग) मन्त्री
(घ) परैः

Answer

Answer: (ग) मन्त्री


Question 4.
‘धीरः’ इत्यस्य पदस्य विलोमपदं किं प्रयुक्तम्?
(क) धैर्य
(ख) पटुः
(ग) अकातरः
(घ) मन्त्री

Answer

Answer: (ग) अकातरः


Question 5.
धैर्यवान् मन्त्री कैः न परिभूयते?

Answer

Answer: अन्यैः


Question 6.
मन्त्री सभायाम् कीदृशः भवेत्?

Answer

Answer: अकातरः


Question 7.
कीदृशः मन्त्री परैः न परिभूयते?

Answer

Answer: वाक्पटुः, धैर्यवान् सभायाम् अपि अकातरः मन्त्री परैः न परिभूयते।


य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

Question 1.
‘कल्याणं’ इत्यर्थे श्लोके किं पदं प्रयुक्तम्?
(क) श्रेयः
(ख) प्रभूतानि
(ग) आत्मनः
(घ) सुखानि

Answer

Answer: (क) श्रेयः


Question 2.
‘कुर्यात्’ इति पदस्य कर्मपदं किम्?
(क) कदापि
(ख) कर्म
(ग) सः
(घ) परेभ्यः

Answer

Answer: (ख) कर्म


Question 3.
‘सुखानि’ इति पदस्य विशेषणपदं किम्?
(क) श्रेयः
(ख) आत्मनः
(ग) प्रभूतानि
(घ) अहितं

Answer

Answer: (ग) प्रभूतानि


Question 4.
श्लोके ‘यः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) इच्छति
(ख) आत्मनः
(ग) श्रेयः
(घ) सुखानि

Answer

Answer: (क) इच्छति


Question 5.
नरः प्रभूतानि कानि इच्छति?

Answer

Answer: सुखानि


Question 6.
नरः कस्य श्रेयं वाञ्छति?

Answer

Answer: आत्मनः


Question 7.
किं इच्छन् नरः अहितं न कुर्यात्?

Answer

Answer: आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छन् नरः अहितं कर्म न कुर्यात्।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुउत्तराणि

Question 1.
विमूढधीः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कान्

Answer

Answer: (क) किम्


Question 2.
विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते?
(क) काः
(ख) कीदृशाः
(ग) कः
(घ) का

Answer

Answer: (ख) कीदृशाः


Question 3.
जनकेन सुताय शैशवे विद्याधनं दीयते।
(क) काय
(ख) कस्यै
(ग) कस्मै
(घ) कस्य

Answer

Answer: (ग) कस्मै


Question 4.
तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः भवेत्।
(क) का
(ख) कः
(ग) कस्याः
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 5.
साधूनां चित्ते वाचि च सरलता भवति।
(क) का
(ख) काः
(ग) कः
(घ) किं

Answer

Answer: (क) का


Question 6.
धैर्यवान् लोके परिभवं न प्राप्नोति।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कान्

Answer

Answer: (ख) कम्


Question 7.
आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
(क) काम्
(ख) कम्
(ग) केषाम्
(घ) कान्

Answer

Answer: (ग) केषाम्


Question 8.
“आचारः प्रथमो धर्मः” इत्येतद् विदुषां वचः।
(क) काम्
(ख) कान्
(ग) कम्
(घ) केषाम्

Answer

Answer: (घ) केषाम्


अधोलिखितवाक्येषु रेखांकितपदं आधृत्य प्रश्ननिर्माणं कुरुत।

(i) सदाचारं प्राणेभ्यः अपि विशेषतः रक्षेत्।
(ii) विमूढधीः धर्मप्रदां वाचं न वदति।
(iii) जनकेन स्वसुताय शैशवे विद्याधनं दीयते।
(iv) विवेकी एव तत्त्वार्थस्य निर्णयः कर्तुम् शक्नोति।
(v) साधूनाम् चित्ते वाचि च सरलता भवति।

Answer

Answer:
(i) सदाचारं केभ्यः अपि विशेषतः रक्षेत्।
(ii) कः धर्मप्रदां वाचं न वदति।
(iii) जनकेन स्वसुताय कदा विद्याधनं दीयते।
(iv) कः एव तत्त्वार्थस्य निर्णयः कर्तुम् शक्नोति।
(v) केषाम् चित्ते वाचि च सरलता भवति।


अधोलिखितयोः श्लोकयोः अन्वयं मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत

(क) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥

अन्वयः-य: (i) ……………….. वाचं त्यक्त्वा (ii) ……………….. (वाचम्) अभ्युदीरयेत् (सः) विमूढधी: (iii) …………….. फलं परित्यज्य (iv) ………….. (फलं) भुङ्क्ते।
मञ्जूषा- पक्वं, अपक्वं, धर्मप्रदा, परुषाम्।

Answer

Answer:
यः धर्मप्रदां वाचं त्यक्त्वा परुषाम् (वाचम्) अभ्युदीरयेत् (स:) विमूढधीः पक्वं फलं परित्यज्य अपक्वं (फलं) भुङ्क्ते।


(ख) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

अन्वयः-यः आत्मनः (i) ……………….., प्रभूतानि (ii) ……………….. च इच्छति सः (iii) ……………….. अहितं कर्म (iv) ……………….. न कुर्यात्।
मञ्जूषा- सुखानि, श्रेयः, कदापि, परेभ्यः

Answer

Answer:
यः आत्मनः श्रेयः, प्रभूतानि सुखानि च इच्छति सः परेभ्यः अहितं कर्म कदापि न कुर्यात्।


अधोलिखितस्य कथनस्य समुचितं भावं प्रदत्तविकल्पेभ्यः चित्वा लिखत

(i) “पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।”
(क) पिता स्वपुत्रस्य प्रगत्यै तस्य बाल्यकाले तस्मै महत् विद्याधनं यच्छति।
(ख) पिता पुत्राय विद्यायाः धनं ददाति।
(ग) बाल्ये पिता सुताय विद्याधनं ददाति।
(घ) जनकः स्वबाल्यकाले स्वपुत्राय विद्याधनं यच्छति।

Answer

Answer: (क) पिता स्वपुत्रस्य प्रगत्यै तस्य बाल्यकाले तस्मै महत् विद्याधनं यच्छति।


(ii) “आचारः प्रथमः धर्मः, इत्येतद् विदुषां वचः।”
(क) विद्वांसः कथयन्ति यत् सर्वधर्माणाम् उपरि नरस्य परमो धर्मः सदाचारः अस्ति।
(ख) आचारं प्रथमः धर्मः विद्वांसः मन्यन्ते।
(ग) विदुषां आचारः प्रथमः धर्मः।
(घ) विदुषां प्रथमः धर्मः आचारः वर्तते।

Answer

Answer: (क) विद्वांसः कथयन्ति यत् सर्वधर्माणाम् उपरि नरस्य परमो धर्मः सदाचारः अस्ति।


(iii) “परित्यज्य फलं पक्वं भुक्तेऽपक्वं विमूढधीः।”
(क) मूढ़मतिः पक्वं फलं त्यक्त्वा अपक्वं खादति।
(ख) ये जनाः धर्मयुक्तां वाचं परित्यज्य कठोरां वदन्ति ते मूर्खजनाः पक्वं फलं परित्यज्य अपक्वम् एव खादन्ति।
(ग) मूर्खजनाः पक्वं अपक्वं वा फलं न त्यजन्ति।
(घ) मूढजनाः धर्मप्रदां वाचं यदा कदा वदन्ति।

Answer

Answer: (ख) ये जनाः धर्मयुक्तां वाचं परित्यज्य कठोरां वदन्ति ते मूर्खजनाः पक्वं फलं परित्यज्य अपक्वम् एव खादन्ति।


(iv) “विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।”
(क) अस्मिन् लोके ज्ञानवन्तः जनाः एव नेत्रवन्तः कथिताः।
(ख) संसारे विदुषाम् कीर्तिः एव सर्वत्र प्रसरिता भवति।
(ग) अस्य लोकस्य चक्षुष्मन्तः जनाः एव ज्ञानवन्तः भवन्ति।
(घ) लोके नेत्रवन्तः विद्वांसः एव प्रशंसनीयाः।

Answer

Answer: (क) अस्मिन् लोके ज्ञानवन्तः जनाः एव नेत्रवन्तः कथिताः।


रेखांकितपदानाम् प्रसङ्गानुसारं शुद्ध अर्थ चित्वा लिखत।

Question 1.
नरः आत्मनः श्रेयः प्रभूतानि सुखानि इच्छति।
(क) सुन्दराणि
(ख) बहूनि
(ग) कथितानि
(घ) प्रस्तुतानि

Answer

Answer: (ख) बहूनि


Question 2.
मूर्खजनः पक्वं फलं त्यक्त्वा अपक्वम् एव भुङ्कते
(क) क्षिपति
(ख) पचति
(ग) खादति
(घ) पश्यति

Answer

Answer: (ग) खादति


Question 3.
धर्मप्रदां वाचं त्यक्त्वा परुषां न अभ्युदीरयेत्।
(क) कठोराम्
(ख) सरसाम्
(ग) मधुराम्
(घ) सुन्दराम्

Answer

Answer: (क) कठोराम्


Question 4.
चित्ते वाचि च सर्वदा अवक्रता भवेद्।
(क) चक्रता
(ख) सुगमता
(ग) कटुता
(घ) सरलता

Answer

Answer: (घ) सरलता


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत

कातरः, गृहीत्वा, पण्डितः, प्रेयः, कृतज्ञः
(i) कृतघ्नः – ……………
(ii) श्रेयः – …………..
(iii) वीरः – ……………..
(iv) त्यक्त्वा – ……………..
(v) विमूढधीः – ………………

Answer

Answer:
पदानि – विलोमपदानि
(i) कृतघ्नः – कृतज्ञः
(ii) श्रेयः – प्रेयः
(iii) वीरः – कातरः
(iv) त्यक्त्वा – गृहीत्वा
(v) विमूढधीः – पण्डितः


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit सूक्तयः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers Read More »

MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these प्राणेभ्योऽपि प्रियः सुह्रद् objective questions.

प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 MCQs Questions with Answers

Practicing the Class 10 Sanskrit Chapter 11 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit प्राणेभ्योऽपि प्रियः सुह्रद् MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितनाट्यांशान् पठित्वा प्रश्नान् उत्तरत

चाणक्यः – वत्स! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
शिष्यः – तथेति (निष्क्रम्य चन्दनदासेन सह प्रविश्य) इतः इतः श्रेष्ठिन्! (उभौ परिक्रामतः)।
शिष्यः – (उपसृत्य) उपाध्याय! अयं श्रेष्ठी चन्दनदासः।
चन्दनदासः – जयत्वार्यः।
चाणक्यः – श्रेष्ठिन्! स्वागतं ते। अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः?
चन्दनदासः – (आत्मगतम्) अत्यादरः शङ्कनीयः। (प्रकाशम्) अथ किम्। आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या।
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।

Question 1.
‘इच्छन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) प्रीताभ्यः
(ख) प्रकृतिभ्यः
(ग) प्रियम्
(घ) राजानः

Answer

Answer: (घ) राजानः


Question 2.
‘मे वणिज्या’ अत्र ‘मे’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) शिष्याय
(ख) चन्दनदासाय
(ग) चाणक्याय
(घ) चाणक्यः

Answer

Answer: (ख) चन्दनदासाय


Question 3.
‘अखण्डिता’ इति पदस्य विशेष्यपदं किम्?
(क) आर्यस्य
(ख) मे
(ग) प्रसादेन
(घ) वणिज्या

Answer

Answer: (घ) वणिज्या


Question 4.
‘प्रविश्य’ इति पदस्य विलोमपदं किम्?
(क) निष्क्रम्य
(ख) परिक्रामतः
(ग) प्रकाशम्
(घ) उपसृत्य

Answer

Answer: (क) निष्क्रम्य


Question 5.
केन सह शिष्य प्रविशति?

Answer

Answer: चन्दनदासेन


Question 6.
चन्दनदासम् कः द्रष्टुम् इच्छति?

Answer

Answer: चाणक्यः


Question 7.
केषाम् वृद्धिलाभाः प्रचीयन्ते?

Answer

Answer: संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।


चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
चन्दनदासः – आज्ञापयतु आर्यः।
चाणक्यः – राजनि अविरुद्धवृत्तिर्भव।
चन्दनदासः – आर्य! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते?
चाणक्यः – भवानेव तावत् प्रथमम्।

Question 1.
‘भवान् एव तावत्…..।’ अत्र ‘भवान्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) चाणक्य
(ख) चाणक्याय
(ग) चन्दनदासः
(घ) चन्दनदासाय

Answer

Answer: (घ) चन्दनदासाय


Question 2.
‘अवगम्यते’ इति पदस्य कः अर्थः?
(क) ज्ञायते
(ख) आगम्यते
(ग) दृश्यते
(घ) गम्यन्ते

Answer

Answer: (क) ज्ञायते


Question 3.
‘उत्पादयति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) नन्दस्य
(ख) नन्दस्यैव
(ग) अर्थसम्बन्धः
(घ) प्रीतिम्

Answer

Answer: (ग) अर्थसम्बन्धः


Question 4.
‘धन्यः’ इति पदस्य विपरीतार्थकम् पदम् किम्?
(क) पुनरधन्यः
(ख) अधन्य
(ग) विरुद्धः
(घ) आर्यः

Answer

Answer: (ख) अधन्य


Question 5.
कस्य अर्थसम्बन्धः प्रीतिम् उत्पादयति?

Answer

Answer: नन्दस्य


Question 6.
कस्मिन् अविरुद्धवृत्तिः भव।

Answer

Answer: राजनि


Question 7.
इदम् राज्यम् कस्य अस्ति?

Answer

Answer: इदम् राज्यम् चन्द्रगुप्तस्य अस्ति।


चन्दनदासः – (कर्णी पिधाय) शान्तं पापम्, शान्तं पापम्। कीदृशस्तृणानामग्निना सह विरोधः?
चाणक्यः – अयमीदृशो विरोधः यत् त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
चन्दनदासः – आर्य! अलीकमेतत्। केनाप्यनार्येण आर्याय निवेदितम्।
चाणक्यः – भो श्रेष्ठिन्! अलमाशङ्कया। भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति। ततस्तत्प्रच्छादनं दोषमुत्पादयति।

Question 1.
‘रक्षसि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) चाणक्यः
(ख) चन्दनदासः
(ग) त्वम्
(घ) राजा

Answer

Answer: (ग) त्वम्


Question 2.
‘असत्यं’ इति पदस्य समानार्थकम् पदं किम्?
(क) अलीकम्
(ख) प्रच्छादनं
(ग) दोषम्
(घ) अपथ्य

Answer

Answer: (क) अलीकम्


Question 3.
‘भीताः’ इति पदस्य विशेष्यपदं किम्?
(क) पूर्व
(ख) पूर्वराजपुरूषाः
(ग) राजपुरुषाः
(घ) पौराणाम्

Answer

Answer: (ख) पूर्वराजपुरूषाः


Question 4.
‘त्वम् अद्यापि…।’ अत्र ‘त्वम्’ सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) चन्दनदासस्य
(ख) चन्दनदासाय
(ग) चन्दनदासः
(घ) चाणक्यः

Answer

Answer: (क) चन्दनदासस्य


Question 5.
अग्निना सह केषाम् विरोधः?

Answer

Answer: तृणानाम्


Question 6.
प्रच्छादनं किम् उत्पादयति?

Answer

Answer: दोषम्


Question 7.
पूर्वराजपुरुषाः किम् कुर्वन्ति?

Answer

Answer: पूर्वराजपुरुषाः पौराणाम् इच्छताम् अपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।


अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्उत्तराणि

(i) प्राणेभ्योऽपि प्रियः सुहृद्ः भवति।
(ii) संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।
(iii) आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
(iv) तस्मिन् समये अस्मद् गृहे अमात्यराक्षसस्य गृहजनं आसीत्।
(v) नन्दस्य अर्थसम्बन्धः प्रीतिम् उत्पादयति।
(vi) राजपुरुषाः देशान्तरं व्रजन्ति।

Answer

Answer:
(i) केभ्यो प्रियः सुहृद्: भवति?
(ii) केषाम् वृद्धिलाभाः प्रचीयन्ते?
(iii) आर्यस्य प्रसादेन कस्य वणिज्या अखण्डिता?
(iv) कदा अस्मद गृहे अमात्यराक्षसस्य गृहजनं आसीत्?
(v) कस्य अर्थसम्बन्धः प्रीतिम् उत्पादयति।
(vi) राजपुरुषाः कुत्र व्रजन्ति?


अधोलिखितश्लोकस्य अन्वये रिक्तस्थानानि पूरयत

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना।।

अन्वयः- परसंवेदने (i) ……………. सुलभेषु इदं (ii) ……………. कर्म जने (iii) ……………. विना कः इदानीं (iv) …………….

Answer

Answer: परसंवेदने अर्थलाभेषु सुलभेषु इदं दुष्करं कर्म जने शिविना विना कः इदानीं कुर्यात्!


अधोलिखितश्लोकस्य भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना॥

अन्वयः- यथा प्राचीनकाले नृपः (i) ……………. शरणागतस्य कपोतस्य प्राणरक्षायै स्वशरीरस्य (ii) ……………. अपि कर्तित्वा अयच्छत् तथैव श्रेष्ठी चन्दनदासः राज्ञः पारितोषकं प्रभूतं धनं च (iii) ……………. स्वमित्रस्य (iv) ……………. अरक्षत्।

Answer

Answer: (i) शिवि (ii) अङ्गानि (ii) तृणीकृत्य (iv) परिवारं


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
(ii) मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
(iii) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
(iv) ते अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभा:?
(v) तस्मिन् समये आसीदस्मद् गृहे अमात्यराक्षसस्य गृहजन इति।
(vi) त्वम् अद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
(vii) चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति।
(viii) सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम्?

Answer

Answer:
(i) मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
(ii) ते अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः।
(iii) आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
(iv) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
(v) चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति।
(vi) त्वम् अद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
(vii) तस्मिन् समये आसीदस्मद् गृहे अमात्यराक्षसस्य गृहजन इति।
(viii) सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम्?


रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत

Question 1.
सन्तम् अपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि।
(क) सज्जनाः
(ख) सन्तः
(ग) निवसन्तम्
(घ) सज्जनं

Answer

Answer: (ग) निवसन्तम्


Question 2.
अलीकम् एतत् कथनम्।
(क) असत्यम्
(ख) अदृश्यम्
(ग) अलौकिकं
(घ) दर्शणीयम्

Answer

Answer: (क) असत्यम्


Question 3.
आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
(क) निर्बाधा
(ख) वर्धिताः
(ग) समाप्ता
(घ) वृद्धिः

Answer

Answer: (क) निर्बाधा


Question 4.
एषः एव ते निश्चयः।
(क) त्वम्
(ख) त्वयि
(ग) तव
(घ) त्वत्

Answer

Answer: (ग) तव


Question 5.
बाढम्, एषः एव मे निश्चयः।
(क) अहम्
(ख) उचितम्
(ग) शुद्धम्
(घ) सत्यम्

Answer

Answer: (क) अहम्


अधोदत्तमञ्जूषातः समुचितपदानि गृहीत्वा विलोमपदानि लिखत

आदरः, सत्यं, सन्तम्, पुण्यं, अनार्येण
पदानि – विलोमपदानि
(i) पापं – ………………
(ii) आर्येण – ………………
(iii) मृषा – ……………..
(iv) असन्तम् – ……………..
(v) निरादरः – ……………..

Answer

Answer:
पदानि – विलोमपदानि
(i) पापं – पुण्यम्
(ii) आर्येण – अनार्येण
(iii) मृषा – सत्यम्
(iv) असन्तम् – सन्तम्
(v) निरादरः – आदरः


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit प्राणेभ्योऽपि प्रियः सुह्रद् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers Read More »

MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the भूकंपविभीषिका Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these भूकंपविभीषिका objective questions.

भूकंपविभीषिका Class 10 MCQs Questions with Answers

Practicing the Class 10 Sanskrit Chapter 10 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of भूकंपविभीषिका Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit भूकंपविभीषिका MCQ Multiple Choice Questions with Answers PDF.

गद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

एकोत्तर द्विसहस्रख्रीष्टाब्दे (2001 ईस्वीये वर्षे) गणतन्त्र-दिवस-पर्वणि यदा समग्रमपि भारतराष्ट्र नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर- राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं, विपन्नञ्च जातम्। भूकम्पस्य दारुण- विभीषिका समस्तमपि गुर्जरक्षेत्रं विशेषेण च कच्छजनपदं ध्वंसावशेषु परिवर्तितवती। भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः। विशीर्णाः गृहसोपान-मार्गाः। फालद्वये विभक्ता भूमिः। भूमिग दुपरि निस्सरन्तीभिः दुर्वार-जलधाराभिः महाप्लावनदृश्यम् उपस्थितम्। सहस्त्रमिता: प्राणिनस्तु क्षणेनैव मृताः। ध्वस्तभवनेषु सम्पीडिता सहस्रशोऽन्ये सहायतार्थं करुणकरुणं क्रन्दन्ति स्म। हा दैव! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवनं धारितवन्तः।

Question 1.
भूकम्पः कुत्र अभवत्?

Answer

Answer: गुर्जरराज्ये


Question 2.
कस्याः क्रीडनकमिव भुजनगरं खण्डम् जातम्?

Answer

Answer: मृत्तिकायाः


Question 3.
भूकम्पस्य केन्द्रभूतं भुजनगरे किम् किम् अभवत्?

Answer

Answer: भूकम्पस्य केन्द्रभूतं भुजनगरे तु मृतिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः।


Question 4.
‘भवनानि’ इति विशेष्यपदस्य विशेषणपदं किम्?

Answer

Answer: बहुभूमिकानि


Question 5.
‘आसीत्’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: भारत


Question 6.
अस्मिन् गद्यांशे सम्बोधन पदं किम् प्रयुक्तम्।

Answer

Answer: हा दैव!


इयमासीत् भैरवविभीषिका कच्छ-भूकम्पस्य। पञ्चोत्तर-द्विसहमख्रीष्टाब्दे (2005 ईस्वीये वर्षे) अपि कश्मीर-प्रान्ते पाकिस्तान देशे च धरायाः महम्कम्पनं जातम्। यस्मात्कारणात् लक्षपरिमिताः जनाः अकालकालकवलिताः। पृथ्वी कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण-शिला यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्यं कम्पनञ्च। तदैव भयावहकम्पनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते।

Question 1.
‘वैज्ञानिकाः’ कर्तृपदस्य क्रियापदं किम्?
(क) पृथिव्या
(ख) कथयन्ति
(ग) अन्तर्गर्भे
(घ) इति

Answer

Answer: (ख) कथयन्ति


Question 2.
‘मृताः’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) जनाः
(ख) कालकवलिताः
(ग) परिमिताः
(घ) पृथ्वी

Answer

Answer: (ख) कालकवलिताः


Question 3.
‘जनाः’ इति विशेष्यपदस्य विशेषणपदं किम्?
(क) कालकवलिताः
(ख) लक्षपरिमिताः
(ग) विद्यमानाः
(घ) वैज्ञानिका

Answer

Answer: (ख) लक्षपरिमिताः


Question 4.
कच्छ-भूकम्पस्य विभीषिका कीदृशी आसीत्?

Answer

Answer: भैरव


Question 5.
धरायाः महत्कम्पनं कुत्र जातम्?

Answer

Answer: कश्मीरप्रान्ते


Question 6.
पृथ्वी कस्मात् प्रकम्पते इति विषये वैज्ञानिकाः किम् कथयन्ति?

Answer

Answer: पृथ्वी कस्मात् प्रकम्पते इति विषये वैज्ञानिकाः कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाणशिला यदा संघर्षणवशात् त्रुट्यन्ति तदा भीषणं संस्खलनम् जायते, संस्खलनजन्यं कम्पनञ्च।


ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः। पृथिव्याः गर्भे विद्यमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरा पर्वतं वा विदार्य बहिर्निष्क्रामति। धूमभस्मावृतं जायते तदा गगनम्। सेल्सियश-ताप-मात्राया अष्टशताङ्कतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति। निहन्यन्ते च विवशाः प्राणिनः। ज्वालामुगिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।

Question 1.
केषाम् विस्फोटैः भूकम्पो जायते?

Answer

Answer: ज्वालामुखपर्वतानां


Question 2.
ज्वालामुखपर्वतानां कृते के कथयन्ति?

Answer

Answer: भूकम्पविशेषज्ञाः


Question 3.
ज्वालामुखपर्वतानां कृते भूकम्प विशेषज्ञाः किम् कथयन्ति?

Answer

Answer: ज्वालामुखपर्वतानां कृते भूकम्पविशेषज्ञाः कथयन्ति यत् पृथिव्याः गर्भे विद्यमानोऽग्निर्यद। खनिजमृत्तिकाशिलादि सञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्यर्वारगत्या धरा पर्वतं वा विदार्य बहिर्निष्क्रामति।


Question 4.
‘भूकम्पविशेषज्ञाः’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: कथयन्ति


Question 5.
‘अन्तः’ इतिपदस्य विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: बहिः


Question 6.
‘विवशाः’ इति विशेषणपदस्य विशेष्यपदं किम्?

Answer

Answer: प्राणिनः।


यद्यपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते। प्रकृति समक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कश्चयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम्। तटबन्धं निर्माय बृहन्मानं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति। वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते। अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति।

Question 1.
‘करणीयम्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) भवननिर्माणं
(ख) निर्माय
(ग) तटबन्धं
(घ) मानव

Answer

Answer: (क) भवननिर्माणं


Question 2.
‘विज्ञानगर्वितः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) वामनकल्पः
(ख) मानवः
(ग) कोऽपि
(घ) प्रकृतिः

Answer

Answer: (ख) मानवः


Question 3.
भूकम्परहस्यज्ञाः इति कर्तृपदस्य क्रियापदं किम्?
(क) वस्तुतः
(ख) कथयन्ति
(ग) करणीयम्
(घ) निर्माय

Answer

Answer: (ख) कथयन्ति


Question 4.
कस्य प्रकोपस्य नाम भूकम्पः जायते?

Answer

Answer: दैवस्य


Question 5.
कस्य स्थिरोपायो न दृश्यते?

Answer

Answer: भूकम्पस्य


Question 6.
भूकम्परहस्यज्ञाः किम् कथयन्ति?

Answer

Answer: पभूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवन-निर्माणं न करणीयम्। तटबन्ध निर्माय बृहन्मानं नदीजलमपि न एकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशात् भूकम्पः सम्भवति।


रेखातिपदम् प्रश्ननिर्माणं कुरुत

(क) भारतराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत्।
(ख) गुर्जर-राज्यं पर्याकुलं विपन्नञ्च जातम्।
(ग) भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डरखण्डम् जातम्।
(घ) बहुभूमिकानि भवनानि धराशायीनि जातानि।
(ङ) भूमिग दुपरि निस्सरन्तीभिः दुर्वार-जलधाराभिः महाप्लावनदृय॑म् उपस्थितम्।
(च) ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते।
(छ) भूकम्पविशेषज्ञाः इति कथयन्ति।
(ज) प्रकृति समक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प अभवत्।
(झ) पाकिस्तानदेशे धरायाः महत्कम्पनं जातम्।
(ञ) पाषाणशिला संघर्षणवशात् त्रुट्यन्ति।
(ट) निहन्यन्ते च विवशाः प्राणिनः।
(ठ) अनेके भूकम्परहस्यज्ञाः कथयन्ति।
(ड) लक्षपरिमिताः जनाः अकालकालकवलिताः अभवन्।
(ढ) सम्पीडिताः सहायतार्थम् करुणकरुणं क्रन्दन्ति स्म।

Answer

Answer:
(क) कस्मिन्
(ख) कीदृशम्
(ग) कीदृशमिव
(घ) कीदृशानि
(ङ) काभिः
(च) केषाम्
(छ) के
(ज) कीदृशः
(झ) कस्याः
(ञ) कस्मात्
(ट) कीदृशाः
(ठ) के
(ड) के
(ढ) किमर्थम्


उचितं उत्तराणि चित्वा प्रश्ननिर्माणं कुरुत

Question 1.
ज्वालामुगिरन्तः एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।
(i) किम्
(ii) कम्
(iii) कीदृशम्
(iv) काम

Answer

Answer: (iii) कीदृशम्


Question 2.
नद्याः जलम् एकस्मिन् स्थले न पुञ्जी कारणीयम्।।
(i) कस्याः
(ii) का
(iii) किम्
(iv) कम्

Answer

Answer: (i) कस्याः


Question 3.
पृथिव्याः गर्भे विद्यमानोऽग्निः क्वथयति।
(i) का
(ii) कस्याम्
(iii) कस्याः
(iv) किम्

Answer

Answer: (iii) कस्याः


Question 4.
शिशवः तु द्वित्राणि दिनानि जीवनं धारितवन्तः।
(i) कति
(ii) कानि
(ii) कीदृशानि
(iv) कान्

Answer

Answer: (i) कति


Question 5.
सहस्रमिताः प्राणिनः तु क्षणनैव मृताः।
(i) काः
(ii) के
(iii) कति
(iv) कीदृशाः

Answer

Answer: (iii) कति


Question 6.
कश्मीरप्रान्ते धरायाः महत्कम्पनं जातम्।
(i) कुत्र
(ii) के
(iii) काः
(iv) कीदृशे

Answer

Answer: (i) कुत्र


Question 7.
उत्खाता विद्युद्दीपस्तम्भाः
(i) का
(ii) के
(iii) कीदृशाः
(iv) कथम्

Answer

Answer: (ii) के


Question 8.
भूमिः फालडये विभक्ता आसीत्।
(i) कः
(ii) काः
(iii) का
(iv) की

Answer

Answer: (iii) का


Question 9.
लक्षपरिमिताः जनाः अकालकालकवालिताः।
(i) कति
(ii) काः
(iii) के
(iv) कीदृशाः

Answer

Answer: (i) कति


Question 10.
असन्तुलनवशात् भूकम्पः सम्भवति।
(i) कस्मात्
(ii) कात्
(iii) कस्मै
(iv) के

Answer

Answer: (i) कस्मात्


अधोलिखिपदानां तेषाम् पर्यायपदानि सह मेलनम् कुरुत

पदानि – पर्यायपदानि
(क) धरायाः – विपत्तियुक्तम्
(ख) उपरि – अभवत्
(ग) समग्रम् – गुजरात
(घ) मग्नाः – पतितानि
(ङ) अकस्मात् – दिवंगताः मृताः
(च) विपन्नम् – लीनाः
(छ) जातम् – विशालः
(ज) गुर्जर – सहसा
(झ) धराशायीनि – शान्तेः
(ञ) कालकवलिताः – भूमेः
(ट) बृहत्यः – उच्चैः
(ठ) दैवः – सकलम्
(ड) अपशमनस्य – पृथ्वी
(ढ) क्षिति – भाग्यः
(ण) भूकम्पः – अग्निः, अनलः
(त) जल – वायुः, अनिलः
(थ) पावक – ख, आकाशः
(द) समीर – नद्याः, जलम्
(ध) गगन – भुवः, कम्पन्नः
(न) नदीजलम् – नीरः, तोय

Answer

Answer:
पदानि – पर्यायपदानि
(क) धरायाः – भूमेः
(ख) उपरि – उच्चैः
(ग) समग्रम् – सकलम्
(घ) मग्नाः – लीनाः
(ङ) अकस्मात् – सहसा
(च) विपन्नम् – विपत्तियुक्तम्
(छ) जातम् – अभवत्
(ज) गुर्जर – गुजरात
(झ) धराशायीनि – पतितानि
(ञ) कालकवलिताः – दिवंगताः मृताः
(ट) बृहत्यः – विशालः
(ठ) दैवः – भाग्यः
(ड) अपशमनस्य – शान्तेः
(ढ) क्षिति – पृथ्वी
(ण) भूकम्पः – भुवः, कम्पन्नः
(त) जल – नीरः, तोय
(थ) पावक – अग्निः, अनलः
(द) समीर – वायुः, अनिलः
(ध) गगन – ख, आकाशः
(न) नदीजलम् – नद्याः, जलम्


अधोलिखितपदानां तेषाम् विपर्ययपदानि सह मेलनं कुरुत

पदानि – विपर्ययपदानि
(क) पार्श्वम् – दूरं गत्वा
(ख) नगरम् – अजातम्
(ग) निहन्यन्ते – आकाश
(घ) गगनम् – मृत्युः
(ङ) उपेत्य – जीवनप्रायः
(च) जातम् – अधः
(छ) पृथ्वी – दूरम्
(ज) जीवनम् – ग्रामम्
(झ) मृतप्रायाः – नियन्ते
(ञ) उपरि – धरा
(ट) निस्सरन्ती – हसन्तिः
(ठ) उपस्थितम् – अन्तः
(ड) क्रन्दन्ति – तिष्ठति
(ढ) बहिः – प्रविशन्ति
(ण) प्रवहति – अनुपस्थितम्

Answer

Answer:
पदानि – विपर्ययपदानि
(क) पार्श्वम् – दूरम्
(ख) नगरम् – ग्रामम्
(ग) निहन्यन्ते – म्रियन्ते
(घ) गगनम् – धरा
(ङ) उपेत्य – दूरं गत्वा
(च) जातम् – अजातम्
(छ) पृथ्वी – आकाश
(ज) जीवनम् – मृत्युः
(झ) मृतप्रायाः – जीवनप्रायः
(ब) उपरि – अधः
(ट) निस्सरन्ती – प्रविशन्ति
(ठ) उपस्थितम् – अनुपस्थितम्
(ड) क्रन्दन्ति – हसन्तिः
(ढ) बहिः – अन्तः
(ण) प्रवहति – तिष्ठति


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit भूकंपविभीषिका MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers Read More »

MCQ Questions for Class 10 Sanskrit Chapter 12 अनयोक्त्यः with Answers

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 12 अनयोक्त्यः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the अनयोक्त्यः Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these अनयोक्त्यः objective questions.

अनयोक्त्यः Class 10 MCQs Questions with Answers

Practicing the Class 10 Sanskrit Chapter 12 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of अनयोक्त्यः Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit अनयोक्त्यः MCQ Multiple Choice Questions with Answers PDF.

निम्नलिखितान् श्लोकान् पठित्वा तदाधारितानां प्रश्नानामुत्तराणि लिखत

एकेन राजहंसेन या शोभा सरसो भवेत।
न सा बकसहस्रेण परितस्तीरवासिना॥

Question 1.
कति राजहंसेन सरसः शोभा भवति?

Answer

Answer: एकेन


Question 2.
केन सरसः शोभा भवति?

Answer

Answer: राजहंसेन


Question 3.
केन सरसः शोभा न भवति?

Answer

Answer: परितः तीरवासिना बकसहस्रेण सरसः शोभा न भवति।


Question 4.
‘एकेन राजहंसेन’ अनयोः पदयोः विशेषणपदं किमस्ति?

Answer

Answer: एकेन


Question 5.
श्लोकस्य ‘शोभा’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: भवेत्


Question 6.
श्लोके ‘सा’ इत्यस्य विशेषणस्य विशेष्यः कः?

Answer

Answer: शोभा


भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि।
रे राजहंस! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः॥

Question 1.
‘यत्र भवता मृणालपाटली भुक्ता’। अत्र कर्तृपदं किम्?
(क) यत्र
(ख) भवता
(ग) भुक्ता
(घ) मृणालपाटली

Answer

Answer: (ख) भवता


Question 2.
श्लोके ‘केन कृत्येन’ अतयोः पदयोः विशेषणपदं किमस्ति?
(क) केन
(ख) किम्
(ग) कृत्येन
(घ) कृत्यम्

Answer

Answer: (क) केन


Question 3.
अस्मिन् श्लोके ‘जलानि’ पदस्य कः पर्यायः आगतः?
(क) नलिनानि
(ख) निपीतानि
(ग) अम्बूनि
(घ) निषेवितानि

Answer

Answer: (ग) अम्बूनि


Question 4.
राजहंसः कां भुनक्ति?

Answer

Answer: मृणालपाटलीम्


Question 5.
कः सरोवरस्य कृतोपारकः भवति?

Answer

Answer: राजहंसः सरोवरस्य कृतोपकारकः भवति।


तोयैरल्यैरपि करुणया भीमभानौ निदाघे,
मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां,
धारासारानपि विकिरता विश्वतो वारिदेन॥

Question 1.
कः भीमभानौ निदाघे तरोः पुष्टिम् व्यरचयति?

Answer

Answer: मालाकारः


Question 2.
मालाकारः कति जलैः तरोः पुष्टिं करोति?

Answer

Answer: अल्पैः।।


Question 3.
वारिदेन का कर्तम् न शक्या अस्ति?

Answer

Answer: वारिदेन इह जनयितुं पुष्टिं कर्तुं न शक्या अस्ति।


Question 4.
श्लोके ‘तोयैः’ इति विशेष्य पदस्य विशेषणं किमस्ति?

Answer

Answer: अल्पैः


Question 5.
‘भवता करुणया अस्य …….. अत्र ‘भवता’ पदं कस्मै आगतम्?

Answer

Answer: मालाकाराय


Question 6.
अस्मिन् श्लोके ‘वृक्षस्य’ इति पदस्य कः पर्यायः आगतः?

Answer

Answer: तरोः


आपेदिरेऽम्बरपथं परितः पतङ्गाः,
भृङ्गा रसालमुकुलानि समाश्रयन्ते।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमां गतिमभ्युपैतु॥

Question 1.
श्लोके ‘कतमां गतिम्’ पदयोः कः विशेष्यः वर्तते?
(क) गतिः
(ख) कतमा
(ग) कतमां
(घ) गतिम्

Answer

Answer: (घ) गतिम्


Question 2.
अत्र श्लोके ‘आपेदिरे’ इति क्रियायाः कर्तृपदं किम्?
(क) परितः
(ख) पतङ्गाः
(ग) अम्बरपथम्
(घ) पथम्

Answer

Answer: (ख) पतङ्गाः


Question 3.
‘सरः त्वयि सङ्कोचम्’। अत्र ‘त्वयि’ पदं कस्मै आगतम्?
(क) सरसे
(ख) मीनाय
(ग) भृङ्गेभ्यः
(घ) पतङ्गेभ्यः

Answer

Answer: (क) सरसे


Question 4.
परितः पतङ्गाः कुत्र (कम्) आपेदिरे?

Answer

Answer: अम्बरपथम्


Question 5.
के रसालमुकुलानि समाश्रयन्ते?

Answer

Answer: भृङ्गाः


Question 6.
सरः सङ्कोचम् अञ्चति कः कतमां गतिम् अभ्युपैतु?

Answer

Answer: सरः सङ्कोचम् अञ्चति दीनदीनः मीनः कतमा गतिम् अभ्युपैतु।


एक एव खगो मानी वने वसति चातकः।
पिपासितो वा म्रियते याचते वा पुरन्दरम्॥

Question 1.
चातकः कीदृशः खगः वर्तते?

Answer

Answer: मानी


Question 2.
कः वने वसति?

Answer

Answer: चातक:


Question 3.
कीदृशः चातकः म्रियते?

Answer

Answer: पिपासितः चातक: म्रियते।।


Question 4.
‘मानी’ इति विशेषणस्य कः विशेष्य श्लोके आगतोऽस्ति?

Answer

Answer: खगः


Question 5.
श्लोके ‘म्रियते’ इत्यस्य क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: चातकः


Question 6.
अत्र श्लोके ‘नश्यति’ इत्यस्य कः पर्यायः आगतः?

Answer

Answer: म्रियते


आश्वास्य पर्वतकुलं तपनोष्णतप्त
मुद्दामदावविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः॥

Question 1.
श्लोके ‘सा’ पदं कस्मै आगतम्?
(क) श्रियै
(ख) उत्तमायै
(ग) जलदाय
(घ) काननेभ्यः

Answer

Answer: (क) श्रियै


Question 2.
अत्र श्लोके ‘पर्वतकुलम्’ इत्यस्य विशेष्यस्य विशेषणपदं किम्?
(क) तप्तम्
(ख) उष्णम्
(ग) तपनोष्णतप्तम्
(घ) तपनम्

Answer

Answer: (ग) तपनोष्णतप्तम्


Question 3.
‘असि तव सा एव।’ अत्र ‘तव’ पदं कं प्रति सङ्केतयति?
(क) जलदम्
(ख) श्रियम्
(ग) पर्वतकुलम्
(घ) काननम्

Answer

Answer: (क) जलदम्


Question 4.
अस्मिन् श्लोके कं संबोधनं कृतम्?

Answer

Answer: जलदम्


Question 5.
जलदः कीदृशं पर्वतकुलम् आश्वासयति?

Answer

Answer: तपनोष्णतप्तम्।


Question 6.
जलदः कानि पूरयित्वा स्वयं रिक्तो भवति?

Answer

Answer: जलद: नानानदीनदशतानि पूरयित्वा स्वयं रिक्तो भवति।


रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता
मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः॥

Question 1.
अस्मिन् श्लोके कविः कं सम्बोधयति?

Answer

Answer: चातकम्


Question 2.
के वृष्टिभिः वसुधाम् आर्द्रयन्ति?

Answer

Answer: अम्भोदाः


Question 3.
गगने हि बहवः के सन्ति?

Answer

Answer: गगने हि बहवः अम्भोदाः सन्ति।


Question 4.
‘त्वं दीनं वचः मा ब्रूहि’। अत्र क्रियापदं किम्?

Answer

Answer: ब्रूहि


Question 5.
‘बहव अम्भोदाः’ अनयोः पदयोः विशेषणपदं किम्?

Answer

Answer: बहवः


Question 6.
श्लोके ‘समक्षम्’ इत्यस्य पदस्य कः पर्यायः आगतोऽस्ति?

Answer

Answer: पुरतः


अधोलिखितानां श्लोकानाम् अन्वयं मञ्जूषायाः उचितैः पदैः सम्पूर्य लिखत

एकेन राजहंसेन या शोभा सरसो भवेत्।
न सा बकसहस्त्रेण परितस्तीरवासिना॥

अन्वयः- एकेन (i) ……………… सरस: या (ii) ……………. भवेत्। परतिः (ii) …………….. बकसहस्रेण (iv) …………… (शोभा) न (भवति)।।
मञ्जूषा- शोभा, सा, राजहंसेन, तीरवासिना |

Answer

Answer: (i) राजहंसेन (ii) शोभा (iii) तीरवासिना (iv) सा


भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि।
रे राहजंस! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः॥

अन्वयः- (रे राजहंस!) यत्र भवता (i) …………… भुक्ता, अम्बूनि निपीतानि (ii) …………… निषेवितानि। रे राजहंस! तस्य (iii) …………………….. (भवतः) केन कृत्येन (iv) ………………… भविता असि, वद।
मञ्जूषा- सरोवरस्य, मृणालपटली, कृतोपकारः, नलिनानि

Answer

Answer: (i) मृणालपटली (ii) नलिनानि (iii) सरोवरस्य (iv) कृतोपकारः


तोयैरल्पैरपि करुणया भीमभानौ निदाघे,
मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां,
धारासारानपि विकिरता विश्वतो वारिदेन॥

अन्वयः-हे मालाकार! (i) ………………… निदाघे अल्पैः तोयैः अपि भवता (ii) …………… अस्य तरोः या पुष्टिः व्यरचि। वाराम् (iii) ……………. विश्वतः धारासारान् अपि विकिरता (iv) …………….. इह जनयितुम् सा किं शक्या?
मञ्जूषा- वारिदेन, करुणया, भीमभानौ, प्रावृषेण्येन

Answer

Answer: (i) भीमभानौ (ii) करुणया (iii) प्रावृषेण्येन (iv) वारिदेन


आपेदिरेऽम्बरपथं परितः पतङ्गाः,
भृङ्गा रसालमुकुलानि समाश्रयन्ते।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमां गतिमभ्युपैतु॥

अन्वयः- पतङ्गाः परतिः (i) ……………….. आपेदिरे, (ii) ………………. रसालमुकुलानि सामश्रयन्ते। सरः (iii) ………………. सङ्कोचम् अञ्चति, हन्तः (iv) …………… मीनः नु कतमां गतिम् अभ्युपैतु।
मञ्जूषा- अम्बरपथम्, दीनदीनः, भृङ्गाः, त्वयि

Answer

Answer: (i) अम्बरपथम् (ii) भृङ्गाः। (iii) त्वयि (iv) दीनदीनः


एक एव खगो मानी वने वसति चातकः।
पिपासितो वा म्रियते याचते वा पुरन्दरम्॥

अन्वयः एकः एव (i) ……………. खगः चातकः (ii) ……………….. वसति। वा (iii) ………………. म्रियते (iv) ……………… याचते वा।
मञ्जूषा- वने, पिपासितः, मानी, पुरन्दरम्

Answer

Answer: (i) मानी (ii) वने (iii) पिपासितः (iv) पुरन्दरम्


आश्वास्य पर्वतकुलं तपनोष्णतप्त
मुद्दामदावविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः॥

अन्वयः- (i) ……………. पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि (ii) ……………. नानानदीनदशतानि (iii) ……………… च, हे जलद! यत् रिक्त असि तव सा एव (iv) …………….. (अस्ति)।
मञ्जूषा- काननानि, तपनोष्णतप्तम्, उत्तमा, पूरयित्वा

Answer

Answer: (i) तपनोष्णतप्तम् (ii) काननानि (iii) पूरयित्वा (iv) उत्तमा


रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता
मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः॥

अन्वयः- रे रे मित्र चातक! (i) ……………… क्षणं श्रूयताम् गगने हि बहवः (ii) ……………….. सन्ति, सर्वे अपि एतादृशाः न (सन्ति)। केचिद् (iii) ……………….. वृष्टिभिः आर्द्रयन्ति, केचित् (च) वृथा गर्जन्ति, यं यम् पश्यसि तस्य तस्य (iv) …………….. दीनं वचः मा ब्रूहि।।
मञ्जूषा- पुरतः, अम्भोदाः, सावधानमनसा, वसुधां

Answer

Answer: (i) सावधानमनसा (ii) अम्भोदाः (iii) वसुधां (iv) पुरतः


निम्नलिखितानि श्लोकानि पठित्वा मञ्जूषायाः सहायतया तेषां भावपूर्तिं कृत्वा लिखत

एकेन राजहंसेन या शोभा सरसो भवेत्।
न सा बकसहस्रेण परितस्तीरवासिना॥

भावार्थ:- अस्य भावोऽस्ति यत् सरसः या (i) ……………. एकेन राजहंसेन भवति सा एव शोभा तस्य तीरे वसता (ii) …………….. अपि न भविष्यति तथैव एकेनापि (iii) …………….. समाजस्य देशस्य वा या शोभा भवति सा तु (iv) …………… अपि भवितुं कदापि न शक्नोति।
मञ्जूषा- मूर्खसहस्रेण, शोभा, बकसहस्रेण, सज्जनेन (विदुषा)

Answer

Answer: (i) शोभा (ii) बकसहस्रेण (iii) सज्जनेन (विदुषा) (iv) मूर्खसहस्रेण


भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि।
रे राहजंस! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः॥

भावार्थ:- अस्य भावोऽस्ति यत् हे राजहंस! भवता यत्र कमलनालानां समूहं खादितम् (i) ……………. च पीतानि एवं कमलानि अपि सेवितानि। त्वमेव वद तस्य (ii) ……………. केन प्रकारेण प्रत्युकारं करिष्यसि अर्थात् स्व जन्मनः देशस्य जातेः, धर्मस्य (iii) ……………… च केन रूपेण ऋणम् अवतारयिष्यसि अतः एतेषां सर्वेषां (iv) ………………. कुरु।
मञ्जूषा- सम्मान, जलानि, सरोवरस्य, संस्कृतेः

Answer

Answer: (i) जलानि (ii) सरोवरस्य (iii) संस्कृतेः (iv) सम्मानं


तोयैरल्पैरपि करुणया भीमभानौ निदाघे,
मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां,
धारासारानपि विकिरता विश्वतो वारिदेन॥

भावार्थ:- अर्थात् हे मालाकार! त्वम् भीषणतया ग्रीष्मौ (i) …………… तपति सति अल्पेन जलेन या सेवा भवता अस्य (ii) …………….. पोषणार्थं कृता किं सा एव सेवा (iii) ……………… परितः धारासु प्रवाहतै जलैः वारिदेन अपि कर्तुं सक्षमेन भूयते? अर्थात् मानवजीवनं केवलं सुखैरेव न प्रवर्धते तदर्धं दुःखमपि तथैव अनिवार्यं वर्तते यथा सुखम् अस्ति। सुखदुःखम् तु मानवजीवनस्य द्वौ (iv) ………….. इव वर्तते?
मञ्जूषा- वृक्षस्य, स्कन्धौ, भानौ, वर्षाकाले

Answer

Answer: (i) भानौ (ii) वृक्षस्य (iii) वर्षाकाले (iv) स्कन्धौ


आपेदिरेऽम्बरपथं परितः पतङ्गाः,
भृङ्गा रसालमुकुलानि समाश्रयन्ते।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमा गतिमभ्युपैतु॥

भावार्थ:- खगा: ग्रीष्मौ सर्वतः आकाशमार्ग (i) …………… भ्रमराः अपि आम्र मञ्जरी: आश्रिताः अभवन्। अतः सरोवरे (ii) ……………… भवति सति मत्स्याः निराश्रिताः भूत्वा कुत्र (iii) ……………… ग्रहीष्यन्ति अर्थात् कुत्रापिन। मत्स्याः स्वाश्रयस्य सरोवरस्य दुर्दिने आगते अपि ते (iv) …………….. कदापि न त्यक्ष्यन्ति। एतदेव सन्मित्रस्य लक्षणं वर्तते।
मञ्जूषा- प्राप्नुवन्ति, तम्, निर्जले, आश्रयम्

Answer

Answer: (i) प्राप्नुवन्ति (ii) निर्जले (iii) आश्रयम् (iv) तम्


एक एव खगो मानी वने वसति चातकः।
पिपासितो वा म्रियते याचते वा पुरन्दरम्॥

भावार्थ:- स्वाभिमानी खगः (i) ……………… वने उषित्वा (ii) ……………… एव मृत्युम् आ. प्नोति अथवा मेघं स्वात्मने वर्षायाः जलं याचते। सः कदापि (iii) …………….. जलं न पिबति। एवमेव स्वाभिमानी जनोऽपि स्व सम्मानेन मर्यादितेन जीवनेन सह एव जीवनं याषयन्ति ते कदापि स्वजीवनाय (iv) …………….. मर्यादाञ्च न त्यजन्ति। अनेन गुणेनैव ते अमराः भवन्ति।
मञ्जूषा- आत्मसम्मानं, धरायाः, चातकः, पिपासितः

Answer

Answer: (i) चातक: (ii) पिपासितः (iii) धरायाः (iv) आत्मसम्मानं


आश्वास्य पर्वतकुलं तपनोष्णतप्त
मुद्दामदावविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः॥

भावार्थ:- सूर्यस्य प्रकाशेन संतप्तं (i) ……………. तृप्तं कृत्वा, उच्चैः वृक्षैः रहितानि वनानि च तृप्तानि कृत्वा नाना नदीः शतानि (ii) …………….. पूरयित्वा अपि यदि जलदः रिक्तोऽवर्तन एन्ततु तस्य उदारता (iii) ………….. वा भवति। एवमेव सज्जनाः अपि महादानीनाः इव सर्वस्वं दानं कृत्वा (iv) ………….. भवन्ति। इयमेव तेषां शोभा वर्तते।
मञ्जूषा- शोभा, पर्वतसमूह, अतृप्ताः, नदान्।

Answer

Answer: (i) पर्वतसमूह (ii) नदान् (iii) शोभा (iv) अतृप्ताः


रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता
‘मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः।।

भावार्थ:- अस्य भावोऽस्ति यत् हे मित्र चातक! सावधानं भूत्वा मम वचांसि (i) ……………… अवधीर्यताम् यतः गगने अनेके बद्दलाः सन्ति परन्तु तेषु सर्वे स्व (ii) ………………. धरां न तर्पयन्ति अपितु केचिदेव वर्षन्ति केचित्त वृथा एव गर्जन्ति। अतः यं यं बद्दलं त्वं पश्यसि तस्य-तस्य (सर्वस्य) अग्रे स्वदीनं वचः मा (iii) ……………. एवमेव संसारेऽपि अनेके जन सन्ति ते सर्वे स्वमित्राणां सहाय्यं न कुर्वन्ति अतः (iv) …………. अग्रे स्वदुःखानि प्रकटानि न कुर्युः अनेन आत्मसम्मान समाप्यते जर्गात हास्यं च भवति।
मञ्जूषा- ब्रूहि, सर्वेषाम्, श्रुत्वा, वर्षाभिः

Answer

Answer: (i) श्रुत्वा (ii) वर्षाभिः (iii) ब्रूहि (iv) सर्वेषाम्


निम्नवाक्येषु रेखाकितानां पदानां स्थानेषु प्रश्नवाचकं पदं चित्वा लिखत

Question 1.
एकेन एव राजहंसेन सरसः या शोभा भवेत्।
(i) कः
(ii) कति
(iii) कस्य
(iv) किम्

Answer

Answer: (iii) कस्य


Question 2.
न सा परितः तीरवासिना बकसहस्रेण भवेत्।
(i) कथम्
(ii) केण
(iii) केन
(iv) कीदृशेण

Answer

Answer: (iii) केन


Question 3.
हे राजहंस! भवता मृणालपटली भुक्ता।
(i) का
(ii) काः
(iii) कः
(iv) किम्

Answer

Answer: (i) का


Question 4.
एवं नलिनानि अनेकानि निषेविहानि।
(i) के
(ii) कति
(iii) किम्
(iv) कानि

Answer

Answer: (iv) कानि


Question 5.
तस्य सरोवरस्य केन कृत्येन कृतोपकारः त्वं भवितासि?
(i) कीदृशः
(ii) कः
(iii) का
(iv) कथम्

Answer

Answer: (i) कीदृशः


Question 6.
मालाकार! भवता करुणया तरोः अस्य तोयैरल्पैरपि पुष्टिः व्यरचि।
(i) का
(ii) कः
(iii) केन
(iv) काः

Answer

Answer: (iii) केन


Question 7.
भवता भीमभानौ निदाघे करुणया पुष्टिः व्यरचि।
(i) कदा
(ii) कीदृशः
(iii) कौ
(iv) कीदृशौ

Answer

Answer: (i) कदा


Question 8.
प्रावृषेण्येन वारिदेन वाराम् विश्वतः इह जनयितुं शक्या।
(i) केन
(ii) कीदृशेन
(iii) कथम्
(iv) कदा

Answer

Answer: (ii) कीदृशेन


Question 9.
पतङ्गाः परितः अम्बरपथं आपेदिरे।
(i) के
(ii) काः
(iii) कः
(iv) का

Answer

Answer: (i) के


Question 10.
भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
(i) किम्
(ii) कानि
(iii) के
(iv) कति

Answer

Answer: (ii) कानि


Question 11.
सरः त्वयि दीनदीनः सङ्कोचम् अञ्चति।
(i) कति
(ii) कानि
(iii) कस्मै
(iv) कस्मिन्

Answer

Answer: (iv) कस्मिन्


Question 12.
मीनः नु कतमा गतिम् अभ्युपैतु।
(i) का
(ii) कः
(iii) के
(iv) किम्

Answer

Answer: (ii) कः


Question 13.
चातक: मानी खगः भवति।
(i) कीदृशः
(ii) कीदृशी
(iii) कीदृशम्
(iv) कीदृशा

Answer

Answer: (i) कीदृशः


Question 14.
एकः चातकः वने वसति।
(i) कः
(ii) का
(iii) कति
(iv) किम्

Answer

Answer: (iii) कति


Question 15.
चातक: पिपासितः एव म्रियते।
(i) कीदृशः
(ii) कीदृशी
(iii) कीदृशम्
(iv) कीदृशाः

Answer

Answer: (i) कीदृशः


रेखाकितानां पदानां स्थाने प्रश्नवाचकं पदं लिखत

(क) परं धरायाः जलं न पिबति।
(ख) सः चातकः पुरन्दरं जलं याचते।
(ग) तपनोष्णतप्तम् पर्वतकुलम आश्वास्य।
(घ) जलदः रिक्तः भवति।
(ङ) उद्दामदावविधुराणि काननानि च आश्वास्यपि जलदः रिक्तः भवति।
(च) सा एव तस्य जलदस्य उत्तमा श्रीः वर्तते।
(छ) चातक! सावधानमनसा क्षणं श्रूयताम्।
(ज) गगने बहवः अम्भोदाः सन्ति।
(झ) परं सर्वेऽपि एतादृशाः नसन्ति।
(ञ) केचिद् वृष्टिभिः वसुधाम् आद्रियन्ते।
(ट) केचिद् वृथा गर्जन्ति।
(ठ) त्वं यं यं पश्यसि।
(ड) तस्य तस्य पुस्तः दीनं वचः मा ब्रूहि।
(ढ) भवता अस्य तरोः या पुष्टिः कृता।
(ण) भृङ्गाः रसालस्य मुकुलानि समाश्रयन्ते।

Answer

Answer:
(क) कस्याः
(ख) कम्
(ग) कम्
(घ) कीदृशः
(ङ) कः
(च) का
(छ) कथम् केन
(ज) कति
(झ) के
(ञ) काभिः
(ट) कथम्
(ठ) कः
(ड) किम्
(ढ) कस्य
(ण) कस्य


निम्न वाक्येषु रेखाकितानां पदानां पर्यायं लिखत

Question 1.
एकेन राजहंसेन या शोभा सरसः भवेत्।
(i) नद्याः
(ii) सागरस्य
(iii) तडागस्य
(iv) कूपस्य

Answer

Answer: (iii) तडागस्य


Question 2.
भवता मृणालपटली भुकता।
(i) कमलस्य
(ii) फलस्य
(iii) पुष्पस्य
(iv) पादपय

Answer

Answer: (i) कमलस्य


Question 3.
निपीतानि अम्बूनि भवता।
(i) जलम्
(ii) जलानि
(iii) रसानि
(iv) फलानि

Answer

Answer: (ii) जलानि


Question 4.
भवता या अस्य तरोः पुष्टिः व्यरचि।
(i) बीजस्य
(ii) पादपस्य
(iii) वृक्षस्य
(iv) छायायाः

Answer

Answer: (iii) वृक्षस्य


Question 5.
धारासारानपि विकिरता विश्वतो वारिदेन
(i) देहेन
(ii) वृक्षण
(iii) जलेन
(iv) मेघेन

Answer

Answer: (iv) मेघेन


Question 6.
पतङ्गा परितः अम्बरपथम् आपेदिरे।
(i) जनाः
(ii) खगाः
(iii) पशवः
(iv) कीटाः

Answer

Answer: (ii) खगाः


Question 7.
भृङ्गा रसालमुकुलानि समाश्रयन्ते।
(i) खगाः
(ii) जनाः
(iii) पशवः
(iv) भ्रमराः

Answer

Answer: (iv) भ्रमराः


Question 8.
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो
(i) आश्रितः
(ii) निराश्रितः
(iii) आश्रयः
(iv) निराश्रयः

Answer

Answer: (ii) निराश्रितः


Question 9.
एकः एव खगः मानी वने वसति चातकः।
(i) मानयुक्तः
(ii) सम्मानम्
(iii) अभिमानी
(iv) प्रमाणी

Answer

Answer: (i) मानयुक्तः


Question 10.
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः
(i) मानम्
(ii) स्वाभिमानम्
(iii) शोभा
(iv) अभिमानम्

Answer

Answer: (iii) शोभा


निम्नपदानां विपर्ययपदानि लिखतपदानि विपर्ययाः

पदानि – विपर्ययाः
(क) मध्यवासिना – अम्बरमथम्
(ख) भुक्ता – मानी
(ग) तरोः – करुणया
(घ) धरापथम् – दीनदीनः
(ङ) तृप्तः – काननानि
(च) धरायाम् – तीरवासिना
(छ) निर्दयतया – सङ्कोचम्
(ज) जीवति (जायते) – सरः
(झ) पशवः – गगने
(ञ) अपमानम् – पीता
(ट) आश्रयः – पिपासितः
(ठ) अभिमानी – श्री.
(ड) नगराणि – पादयस्य
(ढ) सागरः – पादयस्य
(ण) विस्तारम् – पतङ्गाः

Answer

Answer:
पदानि – विपर्ययाः
(क) मध्यवासिना – तीरवासिना
(ख) भुक्ता – पीता
(ग) तरोः – पादयस्य
(घ) धरापथम् – अम्बरपथम्
(ङ) तृप्तः – पिपासितः
(च) धरायाम् – गगने
(छ) निर्दयतया – करुणया
(ज) जीवति (जायते) – म्रियते
(झ) पशवः – पतङ्गाः
(ञ) अपमानम् – श्री.
(ट) आश्रयः – दीनदीनः
(ठ) अभिमानी – मानी
(ड) नगराणि – काननानि
(ढ) सागरः – सरः
(ण) विस्तारम् – सङ्कोचम्


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Chapter 12 अनयोक्त्यः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit अनयोक्त्यः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 10 Sanskrit Chapter 12 अनयोक्त्यः with Answers Read More »

MCQ Questions for Class 9 Sanskrit with Answers Shemushi Bhag 1

Important & Chapter Wise NCERT MCQ Questions for Class 9 Sanskrit with Answers of Shemushi Bhag 1 PDF Free Download are furnished here for the students who are preparing for the CBSE 9th Board Exams. These CBSE Class 9 Sanskrit MCQs Multiple Choice Questions with Answers of शेमुषी भाग 1 cover all topics involved in the latest Syllabus. So, you can practice different concepts of Class 9th Sanskrit Objective Questions from all chapters with ease and test your knowledge and time management skills.

Class 9 Sanskrit MCQs Questions with Answers Shemushi Bhag 1

Kickstart your preparation & score more marks in the board examination with CBSE NCERT Class 9 Sanskrit MCQ Questions with Answers Pdf of Shemushi Bhag 1 available over here. Access the PDF links listed below and practice the MCQ Online Test for Class 9 Sanskrit for free.

  1. भारतीवसन्तगीतिः Class 9 MCQ
  2. स्वर्णकाकः Class 9 MCQ
  3. गोदोहनम् Class 9 MCQ
  4. कल्पतरूः Class 9 MCQ
  5. सूक्तिमौक्तिकम् Class 9 MCQ
  6. भ्रान्तो बालः Class 9 MCQ
  7. प्रत्यभिज्ञानम् Class 9 MCQ
  8. लौहतुला Class 9 MCQ
  9. सिकतासेतुः Class 9 MCQ
  10. जटायोः शौर्यम् Class 9 MCQ
  11. पर्यावरणम् Class 9 MCQ
  12. वाडमनःप्राणस्वरूपम् Class 9 MCQ

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

We believe the provided NCERT MCQ Questions for Class 9 Sanskrit with Answers of Shemushi Bhag 1 PDF Free Download is the best option to revise all the concepts thoroughly & quickly at the time of Board exams. So, download them offline & make use of them anytime and anywhere. If you get any queries on CBSE Class 9 Sanskrit MCQs Multiple Choice Questions with Answers of शेमुषी भाग 1, drop a comment below & get the solution at the earliest possible.

MCQ Questions for Class 9 Sanskrit with Answers Shemushi Bhag 1 Read More »

error: Content is protected !!